अध्यायः 022

कृष्णतुल्यसारथेरभावात्स्वस्यार्जुनान्न्यूनतां मन्यमानेन कर्णेन दुर्योधनं प्रति शल्यस्य सारथ्ये नियोजनचोदना ॥ 1 ॥

धृतराष्ट्र उवाच । 001
स्वेन च्छन्देन नः सर्वानवधीद्व्यक्तमर्जुनः । 001a
न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः ॥ 001c
पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत् । 002a
एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान् ॥ 002c
एको निवातकवचानहनद्दिव्यकार्मुकः । 003a
एकः किरातरूपेण स्थितं शर्वमयोधयत् ॥ 003c
एको ह्यरक्षद्भरतानेको भवमतोषयत् । 004a
तेनैकेन जिताः सर्वे मदीया ह्युग्रतेजसः ॥ 004c
न ते निन्द्याः प्रशस्यास्ते यत्ते चक्रुर्ब्रवीहि तत् । 005a
ततो दुर्योधनः सूत पश्चात्किमकरोत्तदा ॥ 005c
सञ्जय उवाच । 006
हतप्रहतविध्वस्ता विवर्मायुधवाहनाः । 006a
दीनस्वरा दूयमाना मानिनः शत्रुनिर्जिताः ॥ 006c
शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः । 007a
भग्नदंष्ट्रा हतविषाः पादाक्रान्ता इवोरगाः ॥ 007c
तानब्रवीत्ततः कर्णः क्रुद्धः सर्प इव श्वसन् । 008a
करं करेण निष्पीड्य प्रेक्षमाणस्तवात्मजम् ॥ 008c
यत्तो दृढश्च दक्षश्च धृतिमानर्जुनः सदा । 009a
सम्बोधयति चाप्येनं यथाकालमधोक्षजः ॥ 009c
सहसाऽस्त्रविसर्गेण वयं तेनाद्य वञ्चिताः । 010a
श्वस्त्वहं तस्य सङ्कल्पं सर्वं हन्ता महीपते ॥ 010c
एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान् । 011a
तेऽनुज्ञाता नृपाः सर्वे स्वानि वेश्मानि भेजिरे ॥ 011c
सुखोषितास्तां रजनीं हृष्टा युद्धाय निर्ययुः । 012a
तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम् । 012c
प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमतात् ॥ 012e
अथ प्रतीपकर्तारं प्रवीरं परवीरहा । 013a
सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा ॥ 013c
पुरन्दरसमं युद्धे मरुद्गणसमं बले । 014a
कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः ॥ 014c
सर्वेषां चैव सैन्यानां कर्णमेवागमन्मनः । 015a
सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव ॥ 015c
धृतराष्ट्र उवाच । 016
ततो दुर्योधनः सूत पश्चात्किमकरोत्तदा । 016a
यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं प्रति ॥ 016c
अप्यपश्यत राधेयं शीतार्ता इव भास्करम् । 017a
कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः ॥ 017c
'दुर्योधनं च तत्राजौ पाण्डवेन भृशार्दितम् । 018a
पराक्रान्तान्पाण्डुसुतान्दृष्ट्वाऽपि च महारणे' ॥ 018c
कथं वैकर्तनः कर्णस्तत्रायुध्यत सञ्जय । 019a
कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम् ॥ 019c
कर्णो ह्येको महाबाहुर्हन्यात्पार्थान्ससृञ्जयान् । 020a
कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं युधि ॥ 020c
तस्य शस्त्राणि घोराणि विक्रमश्च महात्मनः । 021a
कर्णमाश्रित्य सङ्ग्रामे मत्तो दुर्योधनो नृपः ॥ 021c
दुर्योधनं ततो दृष्ट्वा पाण्डवेन भृशार्दितम् । 022a
पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महारथः ॥ 022c
कर्णमाश्रित्य सङ्ग्रामे मन्दो दुर्योधनः पुनः । 023a
जेतुमुत्सहते पार्थान्सपुत्रान्सहकेशवान् ॥ 023c
'यः सौबलं तथा तात नीतिमानिति मन्यते । 024a
कर्णं चाग्रतिमं युद्धे देवैरपि दुरुत्सहम् ॥ 024c
मन्यतेऽभ्यधिकं पार्थादेवं चास्य हृदि स्थितम् । 025a
विजेष्यति रणे कर्ण एकः पर्थान्ससोमकान् । 025c
मम चैव सदा मन्दः शंसते नित्यमग्रतः' ॥ 025e
अहो बत महद्दुःखं यत्र पाण्डुसुतान्रणे । 026a
नातरद्रभसः कर्णो दैवं नूनं परायणम् ॥ 026c
अहो द्यूतस्य निष्ठेयं घोरा सम्प्रति वर्तते ॥ 027ac
अहो तीव्राणि दुःखानि दुर्योधनकृतान्यहम् । 028a
सोढा घोराणि बहुशः शल्यभूतानि सञ्जय ॥ 028c
सौबलं च तदा तात नीतिमानिति मन्यते । 029a
कर्णश्च रभसो नित्यं राजा त चाप्यनुव्रतः ॥ 029c
यदेवं वर्तमानेषु महायुद्धेषु सञ्जय । 030a
अश्रौषं निहतान्पुत्रान्नित्यमेव विनिर्जितान् ॥ 030c
न पाण्डवानां समरे कश्चिदस्ति हतः किल । 031a
स्त्रीमध्यमिव गाहन्ते दैवं तु बलवत्तरम् ॥ 031c
सञ्जय उवाच । 032
[राजन्पूर्वनिमित्तानि धर्मिष्ठानि विचिन्तय] । 032ac
अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयते नरः । 033a
तच्चास्य न भवेत्कार्यं चिन्तया च विनश्यति ॥ 033c
तदिदं तव कार्यं तु दूरप्राप्तं विजानता । 034a
न कृतं यत्त्वया पूर्वं प्राप्ताप्राप्तविचारणम् ॥ 034c
उक्तोऽसि बहुधा राज्ञन्मा युध्यस्वेति पाण्डवैः । 035a
न च तत्त्वग्रहीर्द्वेषात्पाण्डवेषु विशाम्पते ॥ 035c
त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु । 036a
त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः ॥ 036c
तत्त्विदानीमतिक्रान्तं मा शुचो भरतर्षभ । 037a
शृणु सर्वं यथावृत्तं घोरं वैशसमुच्यते ॥ 037c
प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात् । 038a
समेत्य च महाबाहुर्दुर्योधनमथाब्रवीत् ॥ 038c
कर्ण उवाच । 039
अद्य राजन्समेष्यामि पाण्डवेन यशस्विना । 039a
निहनिष्यामि तं वीरं स वा मां निहनिष्यति ॥ 039c
बहुत्वान्मम कार्याणां तथा पार्थस्य भारत । 040a
नाभूत्समागमो राजन्मम चैवार्जुनस्य च ॥ 040c
इदं तु मे यथाप्रज्ञं शृणु वाक्यं विशाम्पते । 041a
अनिहत्य रणे पार्थं नाहमेष्यामि भारत ॥ 041c
हतप्रवीरे सैन्येऽस्मिन्मयि चावस्थिते युधि । 042a
अभियास्यति मां पार्थः शक्रशक्तिविनाकृतम् ॥ 042c
ततः श्रेयस्करं यच्च तन्निबोध जनेश्वर । 043a
आयुधानां च मे वीर्यं दिव्यानामर्जुनस्य च ॥ 043c
कार्यस्य महतो भेदे लाघवे दूरपातने । 044a
सौष्ठवे चास्त्रपाते च सव्यसाची न मत्समः ॥ 044c
प्राणे शौर्येऽथ विज्ञाने विक्रमे चापि भारत । 045a
निमित्तज्ञानयोगे च सव्यसाची न मत्समः ॥ 045c
सर्वायुधमहामात्रं विजयं नाम तद्धनुः । 046a
इन्द्रार्थं प्रियकामेन निर्मितं विश्वकर्मणा ॥ 046c
येन दैत्यगणान्राजञ्जितवान्वै शतक्रतुः । 047a
यस्य घोषेण दैत्यानां व्यामुह्यन्त दिशो दश ॥ 047c
तद्भार्गवाय प्रायच्छच्छक्रः परमसम्मतम् । 048a
तद्दिव्यं भार्गवो मह्यमददद्धनुरत्तमम् ॥ 048c
तेन योत्स्ये महाबाहुमर्जुनं जयतां वरम् । 049a
यथेन्द्रः समरे सर्वान्दैतेयान्वै समागतान् । 049a
'निजघान तथा सर्वाञ्जेष्यामि युधि पाण्डवान्' ॥ 049e
धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते । 050a
त्रिस्सप्तकृत्वः पृथिवी धनुषा येन निर्जिता ॥ 050c
धनुषो ह्यस्य कर्माणि दिव्यानि प्राह भार्गवः । 051a
तद्रामो ह्यददन्मह्यं तेन योत्स्यामि पाण्डवम् ॥ 051c
अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम् । 052a
निहत्य समरे वीरमर्जुनं जयतां वरम् ॥ 052c
सपर्वतवनद्वीपा हतवीरा ससागरा । 053a
पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव ॥ 053c
नाशक्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः । 054a
सम्यग्धर्मानुरक्तस्य सिद्धिरात्मवतो यथा ॥ 054c
न हि मे विक्रमं सोढुं स शक्तोऽग्निं तरुर्यथा । 055a
अवश्यं तु मया वाच्यं येन हीनोऽस्मि फल्गुनात् ॥ 055c
ज्या तस्य धनुषो दिव्या तथाऽक्षय्ये महेषुधी । 056a
सारथिस्तस्य गोविन्दो मम तादृङ्न विद्यते ॥ 056c
तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजितं युधि । 057a
विजयं च महद्दिव्यं ममापि धनुरुत्तमम् ॥ 057c
तत्राहमधिकः पार्थाद्धनुषा तेन पार्थिव । 058a
येन चाप्यधिको वीरः पाण्डवस्तन्निबोध मे ॥ 058c
रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः । 059a
अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः ॥ 059c
अच्छेद्याः सर्वतो वीर वाजिनश्च मनोजवाः । 060a
ध्वजश्च दिव्यो द्युतिमान्वानरोपि भयङ्करः ॥ 060c
कृष्णश्च जगतः स्रष्टा रथं तमभिरक्षति । 061a
एभिस्त्रिभिरहं हीनो योद्धुमिच्छामि पाण्डवम् ॥ 061c
अयं तु सदृशः शौरेः शल्यः समितिशोभनः । 062a
सारथ्यं यदि मे कुर्याद्ध्रुवस्ते विजयो भवेत् ॥ 062c
तस्य मे सारथिः शल्यो भवत्वसुकरः परैः । 063a
नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु मे ॥ 063c
रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः । 064a
आयान्तु पश्चात्सततं मामेव भरतर्षभ ॥ 064c
एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम् । 065a
शल्योप्यभ्यधिकः कृष्णादर्जुनादपिचाप्यहम् ॥ 065c
यथाऽश्वहृदयं वेद दाशार्हः परवीरहा । 066a
तथा शल्यो विजानीते हयज्ञानं महारथः ॥ 066c
बाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन । 067a
तथाऽस्त्रे मत्समो नास्ति कश्चिदेव धनुर्धरः ॥ 067c
तथा शल्यसमो नास्ति हयज्ञाने हि कश्चन । 068a
सोऽयमभ्यधिकः कृष्णाद्भविष्यति रथो मम ॥ 068c
एवं कृते रथस्थोऽहं गुणैरभ्यधिकोऽर्जुनात् । 069a
विजयेयमहं सङ्ख्ये फल्गुनं कुरुसत्तम ॥ 069c
समुद्यातुं न शक्ष्यन्ति देवा अपि सवासवाः । 070a
एतत्कृतं महाराज त्वयेच्छामि परन्तप ॥ 070c
क्रियतामेष कामो मे मा वः कालोऽत्यगादयम् । 071a
एवं कृते कृतं मह्यं त्वया सर्वं भविष्यति ॥ 071c
ततो द्रक्ष्यसि सङ्ग्रामे यत्करिष्यामि भारत । 072a
सर्वथा पाण्डवान्सङ्ख्ये विजेष्ये वै समागतान् ॥ 072c
न हि मे समरे शक्ताः समुद्यातुं सुरासुराः । 073a
किमु पाण्डुसुता राजन्रणे मानुषयोनयः ॥ 073c
सञ्जय उवाच । 074
एवमुक्तस्तव सुतः कर्णेनाहवशोभिना । 074a
सम्पूज्य सम्प्रहृष्टात्मा ततो राधेयमब्रवीत् ॥ 074c
दुर्योधन उवाच । 075
एवमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे । 075c
सोपासङ्गा रथाः साश्वाः स्वनुयास्यन्ति संयुगे ॥ 075a
नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु ते । 076c
अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः ॥ 076a
सञ्जय उवाच । 077c
एवमुक्त्वा महाराज तव पुत्रः प्रतापवान् । 077a
अभिगम्याब्रवीद्राजा मद्रराजमिदं वचः ॥ ॥ 077c

इति श्रीमन्महाभारते कर्णपर्वणि द्वाविंशोऽध्यायः ॥ 22 ॥

8-22-1 स्वेन च्छन्देन इच्छया । आततायिनः शस्त्रपाणेः ॥ 8-22-2 भद्रां सुभद्राम् । बलिभृतः करदान् ॥ 8-22-4 अरक्षत घोषयात्रायाम् । भरतान्दुर्योधनादीन् ॥ 8-22-6 हतास्ताडिताः । प्रहताश्छिन्नावयवाः । विध्वस्ताः वाहनेभ्योऽधः पातिताः ॥ 8-22-10 सहसा अकस्मात् सहस्राक्षनिसृष्ट्या च शक्त्या तेन स्म वञ्चिताः इति ख. पाठः । सहस्राक्षनिसर्गेण शक्त्या तेन स्म वञ्चिताः इति ट.पाठः ॥ 8-22-12 बृहस्पत्युशनोमते इति झ.पाठः, तत्र स्थितेनेति शेषः ॥ 8-22-13 प्रतीपकर्तारं शत्रूणां छेत्तारम् । प्रवीरं प्रकृष्टं वीरम् ॥ 8-22-15 आत्ययिकेषु प्राणसङ्कटेषु ॥ 8-22-17 अप्यपश्यत । अपिः प्रश्ने ॥ 8-22-27 निष्ठा विपाकः ॥ 8-22-29 कर्णश्च नीतिमानिति मन्यत इति पूर्वेणान्वयः ॥ 8-22-31 स्त्रीमध्यमिव गाहन्ते निर्भयाः सेनां मृद्रन्तीत्यर्थः ॥ 8-22-32 निमित्तानि द्यूतादीनि धर्मिष्ठानीतिविपरीतलक्षणा । अधर्मिष्ठानीत्यर्थः ॥ 8-22-34 प्राप्ताप्राप्तविचरणं युक्तायुक्तपरीक्षणं न कृतमित्यन्वयः ॥ 8-22-43 जीवानामर्जुनस्य चेति ख.ड.पाठः ॥ 8-22-44 कार्यस्य कर्तव्यस्य परकीयस्य भेदे विनाशे । लाघवे शैघ्र्ये । सौष्ठवे कौशले ॥ 8-22-45 प्राणे शारीरबले । शौर्ये मानसबले विज्ञाने अस्त्रशिक्षायाम् । विक्रमे फलोपधानेऽस्त्राणाम् । निमित्तज्ञानयोगे लक्षसम्बन्धावधारणे । प्राणस्थैर्ये च वीर्ये च इति क.ख.ड.पाठः ॥ 8-22-46 महामात्रं श्रेष्ठम् ॥ 8-22-54 सिद्धिर्मोक्षः । आत्मवतो जितचित्तस्य ॥ 8-22-55 न भीमो विक्रमं सोढुं इति क.ड.पाठः ॥