श्रीः अध्यायः 021

सङ्कुलयुद्धम् ॥ 1 ॥ षोडशदिवसयुद्धोपसंहारः ॥ 2 ॥

सञ्जय उवाच । 001
ततः कर्णं पुरस्कृत्य त्वदीया युद्धदुर्मदाः । 001
पुनरावृत्य सङ्ग्रामं चक्रुर्देवासुरोपमम् ॥ 001
द्विरदरथपदातिसादिसङ्घाः परिकुपिताभिमुखाः प्रजघ्निरे ते ॥ 002 द्विरदनररथाश्वशङ्खशब्दैः परिहृषिता विविधैश्च शस्त्रपातैः ।002
शितपरश्वथसासिपट्टसै रिषुभिरनेकविधैश्च सूदिताः । 003
द्विरदरथहया महाहवे वरपुरुषैः पुरुषाश्च वाहनैः ॥ 003
कमलदिनकरेन्दुसन्निभैः सितदशनैः सुमुखाक्षिनासिकैः । 004
रुचिरमकुटकुण्डलैर्मही पुरुषशिरोभिरुपस्तृता बभौ ॥ 004
परिघमुसलशक्तितौमरैर्नखरभुशुण्डिगदाशतैर्हताः । 005
द्विरदनरहयाः सहस्रशो रुधिरनदीप्रवहास्तदाऽभवन् ॥ 005
प्रहतरथनराश्वकुञ्जरं प्रतिभयदर्शनमुल्बणव्रणम् । 006
तदहितहतमाबभौ बलं पितृपतिराष्ट्रमिव प्रजाक्षये ॥ 006
अथ तव नरदेव सैनिकास्तव च सुताः सुरसूनुसन्निभाः । 007
अमितबलपुरःसरा रणे कुरुवृषभाः शिनिपुत्रमभ्ययुः ॥ 007
तदतिरुधिरभीममाबभौ पुरुषवराश्वरथद्विपाकुलम् । 008
लवणजलसमुद्धतस्वनं बलमसुरामरसैन्यसप्रभम् ॥ 008
सुरपतिसमविक्रमस्तत स्त्रिदशवरावरजोपमं युधि । 009
दिनकरकिरणप्रभैः पृषत्कै रवितनयोऽभ्यहनच्छिनिप्रवीरम् ॥ 009
तमपि सरथवाजिसारथिं शिनिवृषभो विविधैः शरैस्त्वरन् । 010
भुजगविषसमप्रभै रणे पुरुषवरं समवास्तृणोत्तदा ॥ 010
शिनिवृषभशरैर्निपीडितं तव सुहृदो वसुषेणमभ्ययुः । 011
त्वरितमतिरथा रथर्षभं द्विरदरथाश्वपदातिभिः सह ॥ 011
तदुदधिनिभमाद्रवद्बलं त्वरिततरैः समभिद्रुतं परैः । 012
द्रुपदसुतमुखैस्तदाऽभवत्पुरुषरथाश्वगजक्षयो महान् ॥ 012
अथ पुरुषवरौ कृताह्निकौ भवमभिपूज्य यथाविधि प्रभुम् । 013
अरिवधकृतनिश्चयौ द्रुतं तव बलमर्जुनकेशवौ सृतौ ॥ 013
जलदनिनदनिःस्वनं रथं पवनविधूतपताककेतनम् । 014
सितहयमुपयान्तमन्तिकं कृतमनसो ददृशुस्तदाऽरयः ॥ 014
अथ विष्फार्य गाण्डीवं रथे नृत्यन्निवार्जुनः । 015
शरसम्बाधमकरोत्खं दिशः प्रदिशस्तथा ॥ 015
रथान्विमानप्रतिमान्मज्जयन्सायुधध्वजान् । 016
ससारथींस्तदा बाणैरभ्राणीवानिलोऽवधीत् ॥ 016
गजान्गजप्रयन्तॄंश्च वैजयन्त्यायुधध्वजान् । 017
सादिनोऽश्वांश्च पत्तींश्च शरैर्निन्ये यमक्षयम् ॥ 017
तमन्तकमिव क्रुद्धमनिवार्यं महारथम् । 018
दुर्योधनोऽभ्ययादेको निघ्नन्बाणैरजिह्मगैः ॥ 018
तस्यार्जुनो धनुः सूतमश्वान्केतुं च सायकैः । 019
हत्वा सप्तभिरेकेन च्छत्रं चिच्छेद पत्रिणा ॥ 019
नवमं च समाधाय व्यसृजत्प्राणघातिनम् । 020
दुर्योधनायेषुवरं तं द्रौणिः सप्तधाऽच्छिनत् ॥ 020
ततो द्रौणेर्धनुश्छित्वा हत्वा चाश्वरथाञ्शरैः । 021
कृपस्यापि तदत्युग्रं धनुश्चिच्छेद पाण्डवः ॥ 021
हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वांस्तदाऽवधीत् । 022
दुःशासनस्येष्वसनं छित्त्वा राधेयमभ्ययात् ॥ 022
अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः । 023
विद्ध्वा विव्याध विंशत्या कृष्णं पार्थं पुनःपुनः ॥ 023
न ग्लानिरासीत्कर्णस्य क्षिपतः सायकान्बहून् । 024
रणे विनिघ्नतः शत्रून्क्रुद्धस्येव शतक्रतोः ॥ 024
अथ सात्यकिरागत्य कर्णं विद्ध्वा शितैः शरैः । 025
नवत्या नवभिश्चोग्रैः शतेन पुनरार्पयत् ॥ 025
ततः प्रवीराः पार्थानां सर्वे कर्णमपीडयन् । 026
युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ॥ 026
उत्तमौजा युयुत्सुश्च यमौ पार्षत एव च । 027
चेदिकारूशमात्स्यानां केकयानां च यद्बलं ॥ 027
चेकितानश्च बलवान्धर्मराजश्च सुव्रतः । 028
एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमैः ॥ 028
परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन् । 029
भाषन्तो वाग्भिरुग्राभिः सर्वे कर्णवधे धृताः ॥ 029
तां शस्त्रवृष्टिं बहुधा कर्णश्छित्त्वा शितैः शरैः । 030
अपोवाहास्त्रवीर्येण द्रुमं भङ्क्त्वेव मारुतः ॥ 030
रथिनः समहामात्रान्गजानश्वान्ससादिनः । 031
पत्तिव्रातांश्च सङ्क्रुद्धो निघ्नन्कर्णो व्यदृश्यत ॥ 031
तद्वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा । 032
विशस्त्रपत्रदेहासु प्राय आसीत्पराङ्मुखम् ॥ 032
अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्मयन् । 033
दिशं खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः ॥ 033
मुसलानीव सम्पेतुः परिघा इव चेषवः । 034
शतघ्न्य इव चाप्यन्ये वज्राण्युग्राणि चापरे ॥ 034
तैर्वध्यमानं तत्सैन्यं सपत्त्यश्वरथद्विपम् । 035
निमीलिताक्षमत्यर्थं बभ्राम च ननाद च ॥ 035
निष्कैवल्यं तदा युद्धं प्रापुरश्वनरद्विपाः । 036
हन्यमानाः शरैरार्तास्तदा भीताः प्रदुद्रुवुः ॥ 036
त्वदीयानां तदा युद्धे संसक्तानां जयैषिणाम् । 037
गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान् ॥ 037
तमसा च महाराज रजसा च विशेषतः । 038
न किञ्चित्प्रत्यपश्याम शुभं वा यदि वाऽशुभम् ॥ 038
ते त्रस्यन्तो महेष्वासा रात्रियुद्धस्य भारत । 039
अपयानं ततश्चक्रुः सहिताः सर्वयोधिभिः ॥ 039
कौरवेष्वपयातेषु तदा राजन्दिनक्षये । 040
जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः ॥ 040
वादित्रशब्दैर्विविधैः सिंहनादैः सगर्जितैः । 041
परानुपहसन्तश्च स्तुवन्तश्चाच्युतार्जुनौ ॥ 041
कृतेऽवहारे तैर्वीरैः सैनिकाः सर्व एव ते । 042
आशीर्वाचः पाण्डवेषु प्रायुञ्जन्त नरेश्वराः ॥ 042
ततः कृतेऽवहारे च प्रहृष्टास्तत्र पाण्डवाः । 043
निशायां शिबिरं गत्वा न्यवसन्त नरेश्वराः ॥ 043
ततो रक्षः पिशाचाश्च श्वापदाश्चैव सङ्घशः । 044
जग्मुरायोधनं घोरं रुद्रस्याक्रीडसन्निभम् ॥ ॥ 044

इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे एकविंशोऽध्यायः ॥ 21 ॥

8-21-8 लवणजलः क्षारसमुद्रः ॥ 8-21-9 त्रिदशवरावरजोपमं विष्णुतुल्यम् ॥ 8-21-13 सृतावागतौ ॥ 8-21-36 निष्कैवल्यं निश्चितं कैवल्यं मरणं यस्मिंस्तत्तथा ॥ 8-21-37 प्रत्यपद्यत प्रविष्टः ॥