अध्यायः 020
युधिष्ठिरेण दुर्योधनपराजयः ॥ 1 ॥
धृतराष्ट्र उवाच । 001
अतितीव्राणि दुःखानि दुःसहानि बहूनि च । 001a
त्वत्तोऽहं सञ्जयाश्रौषं पुत्राणां चैव सङ्क्षयम् ॥ 001c
यथा त्वं मे कथयसे यथा युद्वमवर्तत । 002a
न सन्ति सूत कौरव्या इति मे निश्चिता मतिः ॥ 002c
दुर्योधनश्च विरथः कृतस्तत्र महारथः । 003a
धर्मपुत्रः कथं चक्रे तस्य वा नृपतिः कथम् ॥ 003c
अपराह्णे कथं युद्धमभवद्रोणहर्षणम् । 004a
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय ॥ 004c
सञ्जय उवाच । 005
संसक्तेषु तु सैन्येषु वध्यमानेषु भागशः । 005a
रथमन्यं समास्थाय पुत्रस्तव विशाम्पते ॥ 005c
क्रोधेन महता युक्तः सविषो भुजगो यथा । 006a
दुर्योधनः समालक्ष्य धर्मराजं युधिष्ठिरम् । 006c
प्रोवाच सूतं त्वरितो याहियाहीति भारत ॥ 006e
तत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः । 007a
ध्रियमाणातपत्रेण राजा राजति दंशितः ॥ 007c
स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम् । 008a
युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे ॥ 008c
ततो युधिष्ठिरः क्रुद्धः प्रभिन्न इव कुञ्जरः । 009a
सारथिं चोदयामास याहि यत्र सुयोधनः ॥ 009c
तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौ ॥ 010ac
समेत्य च महावीरौ संरब्धौ युद्धदुर्मदौ । 011a
ववर्षतुर्महेष्वासौ शरैरन्योन्यमाहवे ॥ 011c
ततो दुर्योधनो राजा धर्मशीलस्य मारिष । 012a
शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे ॥ 012c
तं नामृष्यत सङ्क्रुद्धो ह्यवमानं युधिष्ठिरः । 013a
अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः ॥ 013c
अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे । 014a
दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च ॥ 014c
अथान्यद्धनुरादाय पुत्रस्ते भरतर्षभ । 015a
'युधिष्ठिरस्य चिक्षेप शरान्कनकभूषणान् । 015c
रुक्मपुङ्खान्प्रसन्नाग्रान्सविषानिव पन्नगान्' ॥ 015e
तावन्योन्यं सुसङ्क्रुद्धौ शस्त्रवर्षाण्यमुञ्चताम् । 016a
सिंहाविव सुसंरब्धौ परस्परजिगीषया ॥ 016c
जघ्नतुस्तौ रणेऽन्योन्यं नर्दमानौ वृषाविव । 017a
अन्तरं मार्गमाणौ च चेरतुस्तौ महारथौ ॥ 017c
ततः पूर्णायतोत्सृष्टैः शरैस्तौ तु कृतव्रणौ । 018a
विरेजतुर्महाराज किंशुकाविव पुष्पितौ ॥ 018c
ततो राजन्विमुञ्चन्तौ सिंहनादान्मुहुर्मुहुः । 019a
तलयोश्च तथा शब्दान्धनुषश्च महाहवे ॥ 019c
शङ्खशब्दवरांश्चैव चक्रतुस्तौ नरेश्वरौ । 020a
अन्योन्यं तौ महाराज पीडयाञ्चक्रतुर्भृशम् ॥ 020c
ततो युधिष्ठिरो राजा पुत्रं तव शरैस्त्रिभिः । 021a
आजघानोरसि क्रुद्धो वज्रवेगैर्दुरासदैः ॥ 021c
प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिः । 022a
पञ्चभिर्निशितैर्बाणैः स्वर्णपुङ्खैः शिलाशितैः ॥ 022c
ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत । 023a
सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा ॥ 023c
तामापतन्तीं सहसा धर्मराजः शितैः शरैः । 024a
त्रिभिश्चिच्छेद सहसा तं च विव्याध पञ्चभिः ॥ 024c
निपपात ततः साऽथ स्वर्णदण्डा महास्वना । 025a
निपतन्ती महोल्केव व्यराजच्छिखिसन्निभा ॥ 025c
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशाम्पते । 026a
नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम् ॥ 026c
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः । 027a
दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः ॥ 027c
समाधत्त च तं बाणं धनुर्मध्ये महाबलः । 028a
चिक्षेप च महाराज ततः क्रुद्धः पराक्रमी ॥ 028c
स तु बाणः समासाद्य तव पुत्रं महारथम् । 029a
व्यामोहयत राजानं धरणीं च ददार ह ॥ 029c
ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः । 030a
विधित्सुः कलहस्यान्तं धर्मराजमुपाद्रवत् ॥ 030c
तमुद्यतगदं दृष्ट्वा दण्डहस्तमिवान्तकम् । 031a
धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे ॥ 031c
दीप्यमानां महावेगां महोल्कां ज्वलितामिव । 032a
यमदण्डनिभां घोरां कालरात्रिमिवापराम् ॥ 032c
रथस्थः स तया विद्धो वर्म भित्त्वा स्तनान्तरे । 033a
भृशं संविग्नहृदयः पपात च मुमोह च ॥ 033c
नभस्तमाह च ततः प्रतिज्ञामनुपालय । 034a
नायं वध्यस्तव नृप इत्युक्तः स न्यवर्तत ॥ 034c
ततस्त्वरितमागम्य कृतवर्मा तवात्मजम् । 035a
प्रत्यपद्यत राजानं निमग्नं व्यसनार्णवे ॥ 035c
गदामादाय भीमोऽपि हेमपट्टपरिष्कृताम् । 036a
अभिदुद्राव वेगेन कृतवर्माणमाहवे ॥ 036c
एवं तदभवद्युद्धं त्वदीयानां परैः सह । 037a
अपराह्णे महाराज काङ्क्षतां विजयं युधि ॥ ॥ 037c
इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे विंशोऽध्यायः ॥ 20 ॥
8-20-1 अतितीव्राणि युद्धानीति क.ट.ड.पाठः ॥ 8-20-3 तस्य तं च नृपतिर्दुर्योधनः कथमयुध्यत इति शेषः ॥ 8-20-13 अपविध्य त्यक्त्वा ॥ 8-20-23 सर्वपारशवीं सर्वपारशवीं सर्वविनाशिनीं गौरादिः । तिरस्कारे विनाशे च पुंसि पारशवः इति मेदिनी ॥३ 8-20-25 दीपयन्ती महोल्काभा राजञ्शक्तिर्दिशो दश इति ड.पाठः ॥ 8-20-34 भीमस्तमाह च ततः प्रतिज्ञामनुचिन्तयन् इति झ.पाठः ॥