अध्यायः 019
सङ्कुलयुद्धम् ॥ 1 ॥
सञ्जय उवाच । 001
युधिष्ठिरं महाराज विसृजन्तं शरान्बहून् । 001a
स्वयं दुर्योधनो राजा प्रत्यगृह्णादभीतवत् ॥ 001c
तमापतन्तं सहसा तव पुत्रं महारथम् । 002a
धर्मराजो द्रुतं विद्ध्वा तिष्ठतिष्ठेति चाब्रवीत् ॥ 002c
स तु तं प्रतिविव्याध नवभिर्निशितैः शरैः । 003a
सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत् ॥ 003c
ततो युधिष्ठिरो राजन्स्वर्णपुङ्खाञ्शिलीमुखान् । 004a
दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान् ॥ 004c
चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः । 005a
पञ्चमेन शिरः कायात्सारथेश्च समाक्षिपत् ॥ 005c
षष्ठेन तु ध्वजं राज्ञः सप्तमेन तु कार्मुकम् । 006a
अष्टमेन तथा खड्गं पातयामास भूतले । 006c
पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद्भृशम् ॥ 007a
हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव । 007c
उत्तमं व्यसनं प्राप्तो भूमावेवावतिष्ठत ॥ 008a
तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः । 008c
अभ्यवर्तन्त सहसा परीप्सन्तो नराधिपम् ॥ 009a
अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम् । 009c
अन्वयुः समरे राजंस्ततो युद्धमवर्तत ॥ 010a
ततस्तूर्यसहस्राणि प्रावाद्यन्त महामृधे ॥ 010c
क्ष्वेलाः किलकिलाशब्दाः प्रादुरासन्महीपते । 011a
यत्राभ्यगच्छन्समरे पाञ्चालाः कौरवैः सह ॥ 011c
नरा नरैः समाजग्मुर्वारणा वरवारणैः । 012a
रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः ॥ 012c
द्वन्द्वान्यासन्महाराज प्रेक्षणीयानि संयुगे । 013a
विविधान्यप्यचिन्त्यानि शस्त्रवन्त्युत्तमानि च ॥ 013c
ते शूराः समरे सर्वे चित्रं लघु च सुष्ठु च । 014a
अयुध्यन्त महावेगाः परस्परवधैषिणः ॥ 014c
अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः । 015a
न हि ते समरं चक्रुः पृष्ठतो वै कथञ्चन ॥ 015c
मुहूर्तमेव तद्युद्धमासीन्मधुरदर्शनम् । 016a
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ॥ 016c
रथी नागं समासाद्य दारयन्निशितैः शरैः । 017a
प्रेषयामास कालाय शरैः सन्नतपर्वभिः ॥ 017c
नागा हयान्समासाद्य विक्षिपन्तो बहून्रणे । 018a
दारयामासुरत्युग्रं तत्रतत्र तदातदा ॥ 018c
हयारोहाश्च बहवः परिवार्य हयोत्तमान् । 019a
तलशब्दरवांश्चक्रुः सम्पतन्तस्ततस्ततः ॥ 019c
धावमानांस्ततस्तांस्तु द्रवमाणान्महागजान् । 020a
पार्श्वतः पृष्ठतश्चैव निजघ्नुर्हयसादिनः ॥ 020c
विद्राव्य च बहूनश्वान्नागा राजन्मदोत्कटाः । 021a
विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम् ॥ 021c
साश्वारोहांश्च तुरगान्विषाणैर्विव्यधू रुषा । 022a
अपरे चिक्षिपुर्वेगात्प्रगृह्यातिबलास्तदा ॥ 022c
पादातैराहता नागा विवरेषु समन्ततः । 023a
चक्रुरार्तस्वरं घोरं दुद्रुवुश्च दिशो दश ॥ 023c
पदातीनां तु सहसा प्रद्रुतानां महाहवे । 024a
उत्सृज्याभरणं तूर्णमववव्रू रणाजिरे ॥ 024c
निमित्तं मन्यमानास्तु परिणाम्य महागजाः । 025a
जगृहुर्बिभिदुश्चैव चित्राण्याभरणानि च ॥ 025c
तांस्तु तत्र प्रसक्तान्वै परिवार्य पदातयः । 026a
हस्त्यारोहान्निजघ्नुस्ते महावेगा बलोत्कटाः ॥ 026c
अपरे हस्तिभिर्हस्तैः खं विक्षिप्ता महाहवे । 027a
निपतन्तो विषाणाग्रैर्भृशं विद्धा सुशिक्षितैः ॥ 027c
अपरे सहसा गृह्य विषाणैरेव सूदिताः । 028a
सेनान्तरं समासाद्य केचित्तत्र महागजैः ॥ 028c
क्षुण्णगात्रा महाराज विक्षिप्य च पुनःपुनः । 029a
अपरे व्यजनानीव विभ्राम्य निहता मृधे ॥ 029c
पुरःसराश्च नागानामपरेषां विशाम्पते । 030a
शरीराण्यतिविद्धानि तत्रतत्र रणाजिरे ॥ 030c
प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे । 031a
निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः ॥ 031c
निगृह्य च गजाः केचित् पार्श्वस्थैर्भृशदारुणैः । 032a
रथाश्वसादिभिस्तत्र सम्भिन्ना न्यपतन्भुवि ॥ 032c
सहयाः सादिनस्तत्र तोमरेण महामृधे । 033a
भूमावमृद्नन्वेगेन सचर्माणं पदातिनम् ॥ 033c
तथा सावरणान्कांश्चित्तत्रत्तत्र विशाम्पते । 034a
रथान्नागाः समासाद्य परिगृह्य च मारिष । 034c
व्याक्षिपन्सहसा तत्र घोररूपे भयानके ॥ 034e
नाराचैर्निहताश्चापि गजाः पेतुर्महाबलाः । 035a
पर्वतस्येव शिखरं वज्ररुग्णं महीतले ॥ 035c
योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्युधि । 036a
केशेष्वन्योन्यमाक्षिप्य चिक्षिपुर्बिभिदुश्च ह ॥ 036c
उद्यम्य च भुजानन्ये निक्षिप्य च महीतले । 037a
पदा चोरः समाक्रम्य स्फुरतोऽपाहरञ्छिरः ॥ 037c
पततश्चापरो राजन्विजहारासिना शिरः । 038a
'मृतमन्यो महाराज पदा ताडितवांस्तदा' ॥ 038c
जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत् । 039a
मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत । 039c
तथा केशग्रहश्चोग्रो बाहुयुद्धं च भैरवम् ॥ 049e
समासक्तस्य चान्येन अविज्ञातस्तथाऽपरः । 040a
जहार समरे प्राणान्नानाशस्त्रैरनेकधा ॥ 040c
संसक्तेषु च योधेषु वर्तमाने च सङ्कुले । 041a
कबन्धान्युत्थितानि स्युः शतशोऽथ सहस्रशः ॥ 041c
शोणितैः सिच्यमानानि शस्त्राणि कवचानि च । 042a
महारागानुरक्तानि वस्त्राणीव चकाशिरे ॥ 042c
एवमेतन्महद्युद्धं दारुणं शस्त्रसङ्कुलम् । 043a
उन्मत्तगङ्गाप्रतिमं शब्देनापूरयज्जगत् ॥ 043c
नैव स्वे न परे राजन्विज्ञायन्ते शरातुराः । 044a
योद्धव्यमिति युध्यन्ते राजानो जयगृद्धिनः ॥ 044c
स्वान्स्वे जघ्नुर्महराज परांश्चैव समागतान् । 045a
उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत ॥ 045c
रथैर्भग्नैर्महाराज वारणैश्च निपातितैः । 046a
हयैश्च पतितैस्तत्र नरैश्च विनिपातितैः ॥ 046c
अगम्यरूपा पृथिवी क्षणेन समपद्यत । 047a
क्षणेनासीन्महीपाल क्षतजौघप्रवर्तिनी ॥ 047c
पाञ्चालानहतत्कर्णस्त्रिगर्तांश्च धनञ्जयः । 048a
भीमसेनः कुरून्राजन्हस्त्यनीकं च सर्वशः ॥ 048c
एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः । 049a
अपराह्णे गते सूर्ये काङ्क्षतां विपुलं यशः ॥ ॥ 049c
इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे एकोनविंशोऽध्यायः ॥ 19 ॥
8-19-24 आभरणमववव्रुः अवगत्य वृतवन्तः ॥ 8-19-25 निमित्तं जयहेतुम् । महान्ताो गजा येषां ते महागजा गजारोहा जगृहुर्हस्तिभिर्ग्राहयामासुः । परिणाम्य हस्तिनमिति शेषः । बिभिदुश्च शत्रून्गजैरेव ॥ 8-19-31 प्रतिमानेषु गजदन्तान्तरालेषु । प्रासैः कुम्भेषु तोमरैर्दन्तवेष्टेषु शक्तिभिश्च निगृहीताः । प्रतिमानं प्रतिच्छाया गजदन्तान्तरालयोरिति मेदिनी ॥