अध्यायः 018

अर्जुनेन संशप्तकपराजयः ॥ 1 ॥

सञ्जय उवाच । 001
श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम् । 001a
यथा वायुः समासाद्य तूलराशिं समन्ततः ॥ 001c
प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह । 002a
वसातयोऽथ साल्वाश्च गोपालाश्च यशस्विनः ॥ 002c
सत्यदेवः सत्यकीर्तिर्मित्रदेवः श्रुतञ्जयः । 003a
सौश्रुतिश्चन्द्रदेवश्च मित्रवर्मा च भारत ॥ 003c
त्रिगर्तराजः समरे भ्रातृभिः परिवारितः । 004a
पुत्रैश्चैव महेष्वासैर्नानाशस्त्रविशारदैः ॥ 004c
व्यसृजन्त शरव्रातान्किरन्तोऽर्जुनमाहवे । 005a
अभ्यवर्तन्त सहसा वार्योघा इव सागरम् ॥ 005c
ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः । 006a
अगच्छन्विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः ॥ 006c
ते हन्यमानाः समरे न जहुः पाण्डवं रणे । 007a
हन्यमाना महाराज शलभा इव पावकम् ॥ 007c
सत्यदेवस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम् । 008a
मित्रदेवस्त्रिषष्ट्या तु चन्द्रदेवस्तु सप्तभिः ॥ 008c
मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि सप्तभिः । 009a
श्रुतञ्जयस्तु विंशत्या सुशर्मा नवभिः शरैः ॥ 009c
स विद्धो बहुभिः सङ्ख्ये प्रतिविव्याध तान्नृपान् । 010a
सौश्रुतिं सप्तभिर्विद्ध्वा चन्द्रदेवं त्रिभिः शरैः ॥ 010c
श्रुतञ्जयं च विंशत्या चन्द्रदेवं तथाऽष्टभिः । 011a
मित्रदेवं शतेनैव सत्यदेवं त्रिभिः शरैः ॥ 011c
नवभिर्मित्रवर्माणं सुशर्माणं तथाऽष्टभिः । 012a
श्रुतञ्जयं च राजानं हत्वा तत्र शिलाशितैः ॥ 012c
सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत् । 013a
त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम् ॥ 013c
तथेतरान्महाराज यतमानान्महारथान् । 014a
पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत् ॥ 014c
सत्यदेवस्तु सङ्क्रुद्धस्तोमरं व्यसृजन्महत् । 015a
समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च ॥ 015c
स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः । 016a
अयस्मयः स्वर्णदण्डो जगाम धरणीं तदा ॥ 016c
माधवस्य तु विद्धस्य तोमरेण महारणे । 017a
प्रतोदः प्रापतद्धस्ताद्रश्मयश्च विशाम्पते ॥ 017c
वासुदेवं विभिन्नाङ्गं दृष्ट्वा पार्थो धनञ्जयः । 018a
क्रोधमाहारयत्तीव्रं कृष्णं चेदमुवाच ह ॥ 018c
प्रापयाश्वान्महाबाहो सत्यदेवं प्रति प्रभो । 019a
यावदेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् ॥ 019c
प्रतोदं गृह्य सोऽन्यत्तु रश्मीन्सङ्गृह्य च द्रुतम् । 020a
वाहयामास तानश्वान्सत्यदेवरथं प्रति ॥ 020c
विष्वक्सेनं सुनिर्विद्धं दृष्ट्वा पार्थो धनञ्जयः । 021a
सत्यदेवं शरैस्तीक्ष्णैर्वारयित्वा महारथः ॥ 021c
ततः सुनिशितैर्भल्लै राज्ञस्तस्य महच्छिरः । 022a
कुम्डलोपचितं कायाच्चकर्त पृतनान्तरे ॥ 022c
तन्निकृत्य शितैर्बाणैर्मित्रवर्माणमाक्षिपत् । 023a
वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष ॥ 023c
ततः शरशतैर्भूयः संशप्तकगणान्बली । 024a
पातयामास सङ्क्रुद्वः शतशोऽथ सहस्रशः ॥ 024c
ततो रजतपुङ्खेन राजञ्शीर्षं महात्मनः । 025a
मित्रदेवस्य चिच्छेद क्षुरप्रेण महारथः । 025c
सुशर्माणं सुसङ्क्रुद्धो जत्रुदेशे समाहनत् ॥ 025e
ततः संशप्तकाः सर्वे परिवार्य धनञ्जयम् । 026a
शस्त्रौघैर्ममृदुः क्रुद्धा नादयन्तो दिशो दश ॥ 026c
अभ्यर्दितस्तु तज्जिष्णुः शक्रतुल्यपराक्रमः । 027a
ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः ॥ 027c
ततः शरसहस्राणि प्रादुरासन्विशाम्पते । 028a
'कार्मुकात्पाण्डुपुत्रस्य पार्थस्यामिततेजसः' ॥ 028c
ततस्तु च्छिद्यमानानां ध्वजानां धनुषां तथा । 029a
रथानां सपताकानां तूणीराणां युगैः सह ॥ 029c
अक्षाणामथ चक्राणां योक्त्राणां रश्मिभिः सह । 030a
कूबराणां वरूथानां पृषत्कानां च संयुगे ॥ 030c
अश्वानां पततां चापि प्रासानामृष्टिभिः सह । 031a
गदानां परिघानां च शक्तितोमरपट्टसैः ॥ 031c
शतघ्नीनां सचक्राणां भुजानां चोरुभिः सह । 032a
कण्ठसूत्राङ्गदानां च केयूराणां च मारिष ॥ 032c
हाराणामथ निष्काणां तनुत्राणां च भारत । 033a
छत्राणां व्यजनानां च शिरसां कुमुटैः सह । 033c
राशयश्चात्र दृश्यन्ते पतितानां महीतले ॥ 033e
सकुण्डलानि स्वक्षीणि पूर्णचन्द्रनिभानि च । 034a
शिरांस्युर्व्यामदृश्यन्त ताराजालमिवाम्बरे ॥ 034c
सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च । 035a
शरीराणि व्यदृश्यन्त निहतानां महीतले ॥ 035c
रुद्रस्याक्रीडसदृशं घोरमायोधनं तदा ॥ 036ac
निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः । 037a
'अर्जुनेन महाराज तत्रतत्र महारणे' ॥ 037c
हस्तिभिः पतितैश्चैव तुरङ्गैश्चाभवन्मही । 038a
अगम्यरूपा समरे विशीर्णैरिव पर्वतैः ॥ 038c
नासीद्रथपथस्तस्य पाण्डवस्य महात्मनः । 039a
निघ्नतः शात्रवान्भल्लैर्हस्त्यश्वं चास्यतो महत् ॥ 039c
स्वानुगा इव सीदन्ति रथचक्राणि मारिष । 040a
चरतस्तस्य सङ्ग्रामे तस्मिंल्लोहितकर्दमे ॥ 040c
सीदमानानि चक्राणि समूहुस्तुरगा भृशम् । 041a
श्रमेण महता युक्ता मनोमारुतरंहसः ॥ 041c
वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना । 042a
प्रायशो विमुखं सर्वं नावतिष्ठत भारत ॥ 042c
ताञ्जित्वा समरे जिष्णुः संशप्तकगणान्बहून् । 043a
विरराज तदा पार्थो विधूमोऽग्निरिव ज्वलन् ॥ ॥ 043c

इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे अष्टादशोऽध्यायः ॥ 18 ॥

8-18-39 आसीद्रथपथस्तस्य इति घ.ङ. पाठः । आसादितस्ततो रान्रथचक्रे विशाम्पते इति क.पाठः । आच्छादितं ततो राजन्रथचक्रं च मारिष इति ख.पाठः ॥ 8-18-41 सीदमानानि पङ्कमज्जनात् ॥