अध्यायः 017

कृपकृतवर्मभ्यां धृष्टद्युम्नशिखण्डिनोः पराजयः ॥ 1 ॥

सञ्जय उवाच । 001
धृष्टद्युम्नं कृपो राजन्वारयामास संयुगे । 001a
यथा दृष्ट्वा वने सिंहं शरभो वारयेद्युधि ॥ 001c
निरुद्धः पार्षतस्तेन गौतमेन बलीयसा । 002a
पदात्पदं विचलितुं नाशकत्तत्र भारत ॥ 002c
गौतमस्य रथं दृष्ट्वा धृष्टद्युम्नरथं प्रति । 003a
वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे ॥ 003c
तदा जल्पन्ति पाण्डूनां रथिनः सादिनस्तथा । 004a
द्रोणस्य निधनान्नूनं सङ्क्रुद्धो द्विपदां वरः ॥ 004c
शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः । 005a
अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात् ॥ 005c
अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात् । 006a
अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान् ॥ 006c
यादृशं दृश्यते रूपमन्तकप्रतिमं रणे । 007a
गमिष्यत्यद्य पदवीं भारद्वाजस्य गौतमः ॥ 007c
आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि । 008a
अस्त्रवान्वीर्यसम्पन्नः क्रोधेन च समन्वितः ॥ 008c
पार्षतश्च महायुद्धे विमुखोऽद्याभिलक्ष्यते । 009a
इत्येवं विविधा वाचस्तावकानां परैः सह । 009c
व्यश्रूयन्त महाराज तयोस्तत्र समागमे ॥ 009e
विनिःश्वस्य ततः क्रोधात्कृपः शारद्वतो नृप । 010a
पार्षतं चार्दयामास निश्चेष्टं सर्वमर्मसु ॥ 010c
स हन्यमानः समरे गौतमेन महात्मना । 011a
कर्तव्यं न स्म जानाति मोहेन महता वृतः ॥ 011c
तमब्रवीत्ततो यन्ता कञ्चित्क्षेमं तु पार्षत । 012a
ईदृशं व्यसनं युद्धे न ते दृष्टं मया क्वचित् ॥ 012c
दैवयोगात्तु ते बाणा नापतन्मर्मभेदिनः । 013a
प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वतः ॥ 013c
व्यावर्तये रथं तूर्णं नदीवेगमिवार्णवात् । 014a
अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः ॥ 014c
धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः । 015a
मुह्यते मे मनस्तात गात्रस्वेदश्च जायते ॥ 015c
वेपथुश्च शरीरे मे रोमहर्षश्च सारथे । 016a
वर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽर्जुनः ॥ 016c
अर्जुनं भीमसेनं वा समरे प्राप्य सारथे । 017a
क्षेममद्य भवेन्मह्यमिति मे नैष्ठिकी मतिः ॥ 017c
ततः प्रायान्महाराज सारथिस्त्वरयन्हयान् । 018a
यतो भीमो महेष्वासो युयुधे तव सैनिकैः ॥ 018c
प्रद्रुतं च रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष । 019a
किरञ्शरशतान्येव गौतमोऽनुययौ तदा ॥ 019c
शङ्खं च पूरयामास मुहुर्मुहुररिन्दमः । 020a
पार्षतं त्रासयामास महेन्द्रो नमुचिं यथा ॥ 020c
शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम् । 021a
हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः ॥ 021c
शिखण्डी तु समासाद्य हृदिकानां महारथम् । 022a
पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समाहनत् ॥ 022c
कृतवर्मा तु सङ्क्रद्धो भित्त्वा षष्ट्या पतत्रिभिः । 023a
धनुरेकेन चिच्छेद हसन्राजन्महारथः ॥ 023c
अथान्यद्धनुरादाय द्रुपदस्यात्मजो बली । 024a
तिष्ठतिष्ठेति सङ्क्रुद्धो हार्दिक्यं प्रत्यभाषत ॥ 024c
ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान् । 025a
प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः ॥ 025c
वितथांस्तान्समालक्ष्य पतितांश्च महीतले । 026a
क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे भृशम् ॥ 026c
अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम् । 027a
अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्पयत् ॥ 027c
कृतवर्मा तु सङ्क्रुद्धो मार्गणैः क्षतविक्षतः । 028a
ववाम रुधिरं गात्रैः कुम्भवक्रादिवोदकम् ॥ 028c
रुधिरेण परिक्लिन्नः कृतवर्मा त्वराजत । 029a
वर्षेण क्लेदितो राजन्यथा गैरिकपर्वतः ॥ 029c
अथान्यद्धनुरादाय समार्गणगुणं प्रभुः । 030a
शिखण्डिनं बाणगणैः स्कन्धदेशे व्यताडयत् ॥ 030c
स्कन्धदेशस्थितैर्बाणैः शिखण्डी तु व्यराजत । 031a
शाखाप्रशाखाविपुलः सुमहान्पादपो यथा ॥ 031c
तावन्योन्यं भृशं विद्ध्वा रुधिरेण समुक्षितौ । 032a
'पोप्लूयमानौ हि यथा महान्तौ शोणितह्रदे । 032c
तद्वद्विरेजतुर्वीरौ शोणितेन परिप्लुतौ ॥ 032e
यथा च किंशुकौ फुल्लौ पुष्पमासे समागते । 033a
रुधिरोक्षितसर्वाङ्गौ रक्तचन्दनरूषितौ । 033c
भुजगाविव सङ्क्रुद्धौ रेजतुस्तौ नरोत्तमौ ॥ 033e
तावुभौ शरवनुन्नाङ्गौ परस्परशरक्षतौ' । 034a
अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव ॥ 034c
अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ । 035a
रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः ॥ 035c
कृतवर्मा महाराज पार्षतं निशितैः शरैः । 036a
रणे विव्याध सप्तत्या स्वर्णपुङ्गैः शिलाशितैः ॥ 036c
ततोऽस्य समरे बाणं भोजः प्रहरतां वरः । 037a
जीवितान्तकरं घोरं व्यसृजत्त्वरयाऽन्वितः ॥ 037c
स तेनाभिहतो राजन्मूर्च्छामाशु समाविशत् । 038a
ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः ॥ 038c
अपोवाह रणात्तूर्णं सारथी रथिनां वरम् । 039a
हार्दिक्यशरसन्तप्तं निःश्वसन्तं पुनःपुनः ॥ 039c
पराजिते ततः शूरे द्रुपदस्यात्मजे प्रभो । 040a
व्यद्रवत्पाण्डवी सेना व्यधमाना समन्ततः ॥ ॥ 040c

इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे सप्तदशोऽध्यायः ॥ 17 ॥

8-17-1 शरभोऽष्टपादः सिंहघाती पशुपक्षिशरीरो नृसिंहवत् व्यात्मा ॥ 8-17-12 ईदृशं व्यसनं यद्धे न मे दृष्टं कदाचन । दैवयोगादिमे बाणा न जघ्नुर्मम चाहवे इति क.ख.ट.पाठः ॥ 18-17-25 अभ्रश्यन्त भ्रष्टाः । वर्म न चिच्छिदुरित्यर्थः ॥ 8-17-28 ववाम वान्तवान् ॥ 8-17-36 पार्षतं शिखण्डिनं ॥