श्रीः अध्यायः 016

युयुत्सूलूकयोर्युद्धम् ॥ 1 ॥ शकुनिसुतसोमयोर्युद्धम् ॥ 2 ॥

सञ्जय उवाच । 001
युयुत्सुं तव पुत्रस्य द्रावयन्तं बलं महत् । 001a
उलूको न्यपतत्तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ॥ 001c
युयुत्सुश्च ततो राजञ्शितधारेण पत्रिणा । 002a
उलूकं ताडयामास वज्रेणेव महाबलम् ॥ 002c
उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे । 003a
क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना ॥ 003c
तदपास्य धनुश्छिन्नं युयुत्सुर्वेगवत्तरम् । 004a
अन्यदादत्त सुमहच्चापं संरक्तलोचनः ॥ 004c
शाकुनिं तु ततः षष्ट्या विव्याध भरतर्षभ । 005a
सारथिं त्रिभिरानर्च्छत्तं च भूयो व्यविध्यत ॥ 005c
उलूकस्तं तु विंशत्या विद्व्वा स्वर्णविभूषितैः । 006a
अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम् ॥ 006c
स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजः । 007a
पपात प्रमुखे राजन्युयुत्सोः काञ्चनध्वजः ॥ 007c
ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्च्छितः । 008a
उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे ॥ 008c
उलूकस्तस्य समरे तैलधौतेन मारिष । 009a
शिरश्चिच्छेद भल्लेन यन्तुर्भरतसत्तम ॥ 009c
तच्छिन्नमपतद्भूमौ युयुत्सोः सारथेस्तदा । 010a
तारारूपं यथा चित्रं निपपात महीतले ॥ 010c
जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः । 011a
सोऽतिविद्धो बलवता प्रत्यपायाद्रथान्तरम् ॥ 011c
तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ । 012a
पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः ॥ 012c
शतानीकं महाराज श्रुतकर्मा सुतस्तव । 013a
व्यश्वसूतरथं चक्रे निमेषार्धादसम्भ्रमः ॥ 013c
हताश्वे तु रथे तिष्ठञ्शतानीको महारथः । 014a
गदां चिक्षेप सङ्क्रुद्धस्तव पुत्रस्य मारिष ॥ 014c
सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन् । 015a
पपात धरणीं तूर्णं दारयन्तीव भारत ॥ 015c
तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ । 016a
व्यपाक्रमेतां युद्धात्तु प्रेक्षमाणौ परस्परम् ॥ 016c
पुत्रस्तु तव सम्भ्रान्तो विविंशो रथमारुहत् । 017a
शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः ॥ 017c
सुतसोमं तु शकुनिर्विद्ध्वा तु निशितैः शरैः । 018a
नाकम्पयत सङ्क्रुद्धो वार्योघ इव पर्वतम् ॥ 018c
सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम् । 019a
शरैरनेकसाहस्रैश्छादयामास भारत ॥ 019c
ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः । 020a
लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे ॥ 020c
निवार्य समरे चापि शरांस्तान्निशितैः शरैः । 021a
आजघान सुसङ्क्रुद्धः सुतसोमं त्रिभिः शरैः ॥ 021c
'नाकम्पयत सङ्क्रुद्धो वार्योघ इव पर्वतम्' । 022a
तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः । 022c
श्यालस्तव महाराज तत उच्चुक्रुशुर्जनाः ॥ 022e
हताश्वो विरथश्चैव छिन्नकेतुश्च मारिष । 023a
धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत ॥ 023c
व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान् । 024a
छादयामासुरथ ते तव श्यालस्य तं रथम् । 024c
शलभानामिव व्राताः शरव्राता महारथम् ॥ 024e
सञ्छाद्यमानोऽपि दृढं विव्यथे नैव सौबलः । 025a
प्रममाथ शरांस्तस्य शरव्रातैर्महायशाः ॥ 025c
तत्रातुष्यन्त योधाश्च सिद्वाश्चापि दिवि स्थिताः । 026a
सुतसोमस्य तत्कर्म दृष्ट्वाऽश्रद्धेयमद्भुतम् । 026c
रथस्थं शकुनिं यत्तु पदातिः समयोधयत् ॥ 026e
तस्य तीक्ष्णैर्महावेगैर्भल्लैः सन्नतपर्वभिः । 027a
व्यहनत्कार्मुकं राजंस्तूणीरांश्चैव सर्वशः ॥ 027c
स च्छिन्नधन्वा विरथः खड्गमुद्यम्य चानदत् । 028a
वैदूर्योत्पलवर्णाभं दन्तिदन्तमयत्सरुम् ॥ 028c
भ्राम्यमाणं ततस्तं तु विमलाम्बरवर्चसम् । 029a
कालदण्डोपमं मेने सुतसोमस्य धीमतः ॥ 029c
सोऽचरत्सहसा खड्गी मण्डलानि सहस्रशः । 030a
चतुर्दश महाराज शिक्षाबलसमन्वितः ॥ 030c
भ्रान्तमुद्भ्रान्तमाविद्धमाप्लुतं विप्लुतं सृतम् । 031a
सम्पातसमुदीर्णे च दर्शयामास संयुगे ॥ 031c
सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान् । 032a
तानापतत एवाशु चिच्छेद परमासिना ॥ 032c
ततः क्रुद्धो महाराज सौबलः परवीरहा । 033a
प्राहिणोत्सुतसोमाय शरानाशीविषोपमान् ॥ 033c
चिच्छेद तांस्तु खड्गेन शिक्षया च बलेन च । 034a
दर्शयल्ँलाघवं युद्धे तार्क्ष्यतुल्यपराक्रमः ॥ 034c
तस्य सञ्चरतो राजन्मण्डलावर्तने तदा । 035a
क्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम् ॥ 035c
स च्छिन्नः सहसा भूमौ निपपात महानसिः । 036a
अधर्मस्य स्थितं हस्ते सुत्सरोस्तत्र भारत ॥ 036c
छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् । 037a
प्राविध्यत ततः शेषं सुतसोमो महारथः ॥ 037c
तच्छित्त्वा सगुणं चापं रणे तस्य महात्मनः । 038a
पपात धरणीं तूर्णं स्वर्णवज्रविभूषितम् ॥ 038c
सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम् । 039a
सौबलोऽपि धनुर्गृह्य घोरमन्यत्सुदुर्जयम् ॥ 039c
अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून् । 040a
तत्र नादो महानासीत्पाण्डवानां विशाम्पते ॥ 040c
सौबलं समरे दृष्ट्वा विचरन्तमभीतवत् । 041a
तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च । 041c
द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना ॥ 041e
यथा दैत्यचमूं राजन्देवराजो ममर्द ह । 042a
तथैव पाण्डवीं सेनां सौबलेयो व्यनाशयत् ॥ ॥ 042c

इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे षोडशोऽध्यायः ॥ 16 ॥

8-16-35 मण्डलानामावर्तने अनुलोमविलोमाभ्यासे ॥ 8-16-36 असेः सुत्सरोः शोभनमुष्टेः ॥ 8-16-16 षोडशोऽध्यायः ॥