अध्यायः 015

कर्णनकुलयोर्युद्धम् ॥ 1 ॥ कर्णेन नकुलस्य पराभावनपूर्वकं सोपहासमधिक्षेपः ॥ 2 ॥

सञ्जय उवाच । 001
नकुलं रभसं युद्धे द्रावयन्तं वरूथिनीम् । 001a
कर्णो वैकर्तनो राजन्वारयामास वै रुषा ॥ 001c
नकुलस्तु ततः कर्णं प्रहसन्निदमब्रवीत् ॥ 002a
चिरस्य बत दृष्टोऽहं दैवतैः सौम्यचक्षुषा । 002c
यस्य मे त्वं रणे पाप चक्षुर्विषयमागतः ॥ 003a
त्वं हि मूलमनर्थानां वैरस्य कलहस्य च । 003c
त्वद्दोषात्कुरवः क्षीणाः समासाद्य परस्परम् । 004a
त्वामद्य समरे हत्वा कृतकृत्योऽस्मि विज्वरः ॥ 004c
एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः । 005a
सदृशं राजपुत्रस्य धन्विनश्च विशेषतः ॥ 005c
प्रहरस्व च मे वीर पश्यामस्तव पौरुषम् । 006a
कर्म कृत्वा रणे शूर ततः कत्थितुमर्हसि ॥ 006c
अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः । 007a
प्रयुध्यस्व मया शक्त्या हनिष्ये दर्पमेव ते ॥ 007c
इत्युक्त्वा प्राहरत्तूर्णं पाण्डुपुत्राय सूतजः । 008a
विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः ॥ 008c
नकुलस्तु ततो विद्धः सूतपुत्रेण भारत । 009a
अशीत्याऽऽशीविषप्रख्यैः सूतपुत्रमविध्यत ॥ 009c
तस्य कर्णो धनुश्छित्त्वा स्वर्णपुङ्खैः शिलाशितैः । 010a
त्रिंशता परमेष्वासः शरैः पाण्डवमर्दयत् ॥ 010c
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे । 011a
आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः ॥ 011c
अथान्यद्वनुरादाय हेमपृष्ठं दुरासदम् । 012a
कर्णं विव्याध सप्तत्या सारथिञ्च त्रिभिः शरैः ॥ 012c
ततः क्रुद्धो महाराज नकुलः परवीहा । 013a
क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुराच्छिनत् ॥ 013c
अथैनं छिन्नधन्वानं सायकानां शतैस्त्रिभिः । 014a
आजघ्ने प्रहसन्वीरः सर्वलोकमहारथम् ॥ 014c
कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष । 015a
विस्मयं परमं जग्मुर्ऋषयः सह दैवतैः ॥ 015c
अथान्यद्वनुरादाय कर्णो वैकर्तनस्तदा । 016a
नकुलं पञ्छभिर्बाणैर्जत्रुदेशे समार्पयत् ॥ 016c
उरस्थैरथ तैर्बाणैर्माद्रीपुत्रो व्यरोचत । 017a
स्वरश्मिभिरिवादित्यो भुवने विसृजन्प्रभाम् ॥ 017c
नकुलस्तु ततः कर्णं विद्व्वा सप्तभिराशुगैः । 018a
अथास्य धनुषः कोटिं पुनश्चिच्छेद मारिष ॥ 018c
सोऽन्यत्कार्मुकमादाय समरे वेगवत्तरम् । 019a
नकुलस्य ततो बाणैः समन्ताच्छादयद्दिशः ॥ 019c
सञ्छाद्यमानः सहसा कर्णचाप्युतैः शरैः । 020a
चिच्छेद स शरांस्तूर्णं शरैरेव महारथः ॥ 020c
ततो बाणमयं जालं विततं व्योम्न्यदृश्यत । 021a
खद्योतानामिव व्रातैः सम्पतद्भिर्यथा नभः ॥ 021c
तैर्विमुक्तैः शरशतैश्छादितं गगनं तदा । 022a
शलभानां यथा व्रातैस्तद्वदासीद्विशाम्पते ॥ 022c
ते शरा हेमविकृताः सम्पन्तौ मुहुर्मुहुः । 023a
श्रेणीकृता व्यकाशान्त क्रौञ्चाः श्रेणीकृता इव ॥ 023c
बाणजालवृते व्योम्नि च्छादिते च दिवाकरे । 024a
न स्म सम्पतते भूतं किञ्चिदप्यन्तरिक्षगम् ॥ 024c
निरुद्धे तत्र मार्गे च शरसङ्घैः समन्ततः । 025a
व्यरोचेतां महात्मानौ कालसूर्याविवोदितौ ॥ 025c
कर्णचापच्युतैर्बाणैर्वध्यमानास्तु सोमकाः । 026a
अवालीयन्त राजेन्द्र वेदनार्ता भृशार्दिताः ॥ 026c
नकुलस्य तथा बाणैर्हन्यमाना चमूस्तव । 027a
व्यशीर्यत दिशो राजन्वातनुन्ना इवाम्बुदाः ॥ 027c
ते सेने हन्यमाने तु ताभ्यां दिव्यैर्महाशरैः । 028a
शरपातमपाक्रम्य तस्थतुः प्रेक्षिके तदा ॥ 028c
प्रोत्सारितजने तस्मिन्कर्णपाण्डवयोः शरैः । 029a
अविध्येतां महात्मानावन्योन्यं शरवृष्टिभिः ॥ 029c
विदर्शयन्तौ दिव्यानि शस्त्राणि रणमूर्धनि । 030a
छादयन्तौ च सहसा परस्परवधैषिणौ ॥ 030c
नकुलेन शरा मुक्ता कङ्कबर्हिणवाससः । 031a
सूतपुत्रमवच्छाद्य व्यतिष्ठन्त यथाऽम्बरे ॥ 031c
तथैव सूतपुत्रेण प्रेषिताः परमाहवे । 032a
पाण्डुपुत्रमवच्छाद्य व्यतिष्ठन्ताम्बरे शराः ॥ 032c
शरवेश्मप्रविष्टौ तौ ददृशाते न कैश्चन । 033a
सूर्याचन्द्रमसौ राजञ्छाद्यमानौ घनैरिव ॥ 033c
ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः । 034a
पाण्डवं छादयामास समन्ताच्छरवृष्टिभिः ॥ 034c
सोऽतिच्छन्नो महाराज सूतपुत्रेण पाण्डवः । 035a
न चकार व्यथां राजन्भास्करो जलदैर्यथा ॥ 035c
ततः प्रहस्याधिरथिः शरजालानि मारिष । 036a
प्रेषयामास समरे शतशोऽथ सहस्रशः ॥ 036c
एकच्छायमभूत्सर्वं तस्य बाणैर्महात्मनः ॥ 037a
अभ्रच्छायेव सञ्जज्ञे सम्पतद्भिः शरोत्तमैः ॥ 037c
ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः । 038a
सारथिं पातयामास रथनीडाद्धसन्निव ॥ 038c
ततोऽश्वांश्छतुरश्चास्य चतुर्भिर्निशितैः शरैः । 039a
यमस्य भवनं तूर्णं प्रेषयामास भारत ॥ 039c
अथास्य तं रथं दिव्यं तिलशो व्यधमच्छरैः । 040a
पताकां चक्ररक्षांश्च गदां खड्गं च मारिष ॥ 040 c
शतचन्द्रं च तच्चर्म सर्वाोपकरणानि च । 041a
'सुवर्णविकृतं तच्च धनुः सशरमाहवे' ॥ 041c
हताश्वो विरथश्चैव विवर्मा च विशाम्पते । 042a
अवतीर्य रथात्तूर्णं परिघं गृह्य धिष्ठितः ॥ 042c
तमुद्यतं महाघोरं परिघं तस्य सूतजः । 043a
व्यहनत्सायकै राजन्सुतीक्ष्णैर्भारसाधनैः ॥ 043c
व्यायुधं चैनमालक्ष्य शरैः सन्नतपर्वभिः । 044a
आर्पयद्बहुभिः कर्णो न चैनं समपीडयत् ॥ 044c
स हन्यमानः समरे कृतास्त्रेण बलीयसा । 045a
प्राद्रवत्सहसा राजन्नकुलो व्याकुलेन्द्रियः ॥ 045c
तमभिद्रुत्य राधेयः प्रहसन्वै पुनःपुनः । 046a
सज्यमस्य धनुः कण्ठे व्यवासृजत भारत ॥ 046c
ततः स शुशुभे राजन्कण्ठासक्तमहाधनुः । 047a
परिवेषमनुप्राप्तो यथा स्याद्व्योम्नि चन्द्रमाः ॥ 047c
यथैव चासितो मेघः शक्रचापेन शोभितः । 048a
'अशोभत महाराज पाण्डुपुत्रस्तथा रणे' ॥ 048c
तमब्रवीत्ततः कर्णो व्यर्थं व्याहृतवानसि । 049a
वदेदानीं पुनर्हृष्टो वध्यमानः पुनःपुनः ॥ 049c
मा योत्सीः कुरुभिः सार्धं बलवद्भिश्च पाण्डव । 050a
सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव ॥ 050c
गृहं वा गच्छ माद्रेय यत्र वा कृष्णफल्गुनौ । 051a
एवमुक्त्वा महाराज विससर्ज स तं तदा ॥ 051c
वधप्राप्तं तु तं शूरो नाहनद्धर्मवित्तदा । 052a
स्मृत्वा कुन्त्या वचो राजंस्तत एनं व्यसर्जयत् ॥ 052c
विसृष्टः पाण्डवो राजन्सूतपुत्रेण धन्विना । 053a
व्रीडन्निव जगामाथ युधिष्ठिररथं प्रति ॥ 053c
आरुरोह रथं चापि सूतपुत्रप्रतापितः । 054a
निःश्वसन्दुःखसन्तप्तः कुम्भक्षिप्त इवोरगः ॥ 054c
तं विजित्याथ कर्णोऽपि पाञ्चालांस्त्वरितो ययौ । 055a
रथेनातिपताकेन चन्द्रवर्णहयेन च ॥ 055c
तत्राक्रन्दो महानासीत्पाण्डवानां विशाम्पते । 056a
दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान् ॥ 056c
तत्राकरोन्महाराज कदनं सूतनन्दनः । 057a
मध्यं प्राप्ते दिनकरे चक्रवद्विचरन्प्रभुः ॥ 057c
भग्नचक्रै रथैः कैश्चिच्छिन्नध्वजपताकिभिः । 058a
हताश्वैर्हतसूतैश्च भग्नाक्षैश्चैव मारिष । 058c
यमाणानपश्याम पाञ्चालानां रथव्रजान् ॥ 058e
तत्रतत्र च सम्भ्रान्ता विचेरुरथ कुञ्जराः । 059a
दावाग्न्यभिपरीताङ्गा यथैव स्युर्महावने ॥ 059c
भिन्नकुम्भाः सरुधिराश्छिन्नहस्ताश्च वारणाः । 060a
छिन्नगात्रावराश्चैव च्छिन्नवालधयोऽपरे । 060c
छिन्नाभ्राणीव सम्पेतुर्हन्यमाना महात्मना ॥ 060e
अपरे त्रासिता नागा नाराचशरतोमरैः । 061a
तमेवाभिमुखं जग्मुः शलभा इव पावकम् ॥ 061c
अपरे निष्टनन्तश्च व्यदृश्यन्त महाद्विपाः । 062a
क्षरन्तः शोणितं गात्रैर्नगा इव जलस्रवाः ॥ 062c
उरश्छदैर्वियुक्तांश्च वालबन्धैश्च वाजिनः । 063a
राजतैश्च तथा कांस्यैः सौवर्णैश्चैव भूषणैः ॥ 063c
हीनांश्चाभरणैश्चैव खलीनैश्च विवर्जितान् । 064a
चामरैश्च कुथाभिश्च तूणीरैः पतितैरपि ॥ 064c
निहतैः सादिभिश्चैव शूरैराहवशोभितैः । 065a
अपश्याम रणे तत्र भ्राम्यमाणान्हयोत्तमान् ॥ 065c
प्रासैः खड्गैश्च रहितानृष्टिभिश्चापि भारत । 066a
हयसादीनपश्याम कञ्चुकोष्णीषधारिणः ॥ 066c
निहतान्वध्यमानांश्च वेपमानांश्च भारत । 067a
नागाङ्गावयवैर्हीनांस्तत्रतत्रैव भारत ॥ 067c
रथान्हेमपरिष्कारान्संयुक्ताञ्जवनैर्हयैः । 068a
भ्राम्यमाणानपश्याम हतेषु रथिषु द्रुतम् ॥ 068c
भग्नाक्षकूबरान्कांश्चिद्भग्नचक्रांश्च भारत । 069a
विपताकध्वजांश्चान्याञ्छिन्नेषादण्डबन्धुरान् ॥ 069c
विहीनान्रथिनस्तत्र धावमानांस्ततस्ततः । 070a
सूतपुत्रशरैस्तीक्ष्णैर्हन्यमानान्विशाम्पते ॥ 070c
विशस्त्रांश्च तथैवान्यान्सशस्त्रांश्च हतान्बहून् । 071a
तारकाजालसञ्छन्नान्वरघण्टाविशोभितान् ॥ 071c
नानावर्णविचित्राभिः पताकाभिरलङ्कृतान् । 072a
वारणाननुपश्याम धावमानान्समन्ततः ॥ 072c
शिरांसि बाहूनूरूंश्च च्छिन्नानन्यांस्तथैव च । 073a
कर्णचापच्युतैर्बाणैरपश्याम समन्ततः ॥ 073c
महान्व्यतिकरो रौद्रो योधानामन्वपद्यत । 074a
कर्णसायकनुन्नानां युध्यतां च शितैः शरैः ॥ 074c
ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः । 075a
तमेवाभिमुखं यान्ति पतङ्गा इव पावकम् ॥ 075c
तं दहन्तमनीकानि तत्रतत्र महारथम् । 076a
क्षत्रिया वर्जयामासुर्युगान्ताग्निमिवोल्बणम् ॥ 076c
हतशेषास्तु ये वीराः पाञ्चालानां महारथाः । 077a
तान्प्रभग्रान्दुतान्वीरः पृष्ठतो विकिरञ्छरैः । 077c
अभ्यधावत तेजस्वी विशीर्णकवचध्वजान् ॥ 077e
तापयामास तान्बाणैः सूतपुत्रो महाबलः । 078a
मध्यन्दिनमनुप्राप्तो भूतानीव तमोनुदः ॥ ॥ 078c

इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे पञ्चदशोऽध्यायः ॥ 15 ॥

8-15-1 रभसं रणोत्सुकम् ॥ 8-15-11 आशीविषा यथा राजन्भित्त्वा गां सलिलं भृशम् । इति क.ख.ट.पाठः ॥ 8-15-25 बालसूर्याविवोदितौ इति ख.पाठः ॥ 8-15-37 एकबाणमभूत्सर्वं इति क.ट.पाठः ॥ 8-15-58 म्रियमाणान्पश्याम इति क.ख.ट.पाठः ॥ 8-15-67 नागाङ्गावयवैरित्यर्धं झ.पुस्तकएव दृश्यते ॥