अध्यायः 014

सहदेवेन दुःशासनपराजयः ॥ 1 ॥

सञ्जय उवाच । 001
सहदेवं तथा क्रुद्धं निघ्नन्तं तव वाहिनीम् । 001a
दुःशासनो महाराज भ्राता भ्रातरमभ्ययात् ॥ 001c
तौ समेतौ महाराज दृष्ट्वा तत्र महारथाः । 002a
सिंहनादरवांश्चक्रुर्वासांस्यादुधुवुश्च ह ॥ 002c
ततो भारत रुष्टेन तव पुत्रेण धन्विना । 003a
पाण्डुपुत्रस्त्रिभिर्बाणैर्वक्षस्यभिहतो बली ॥ 003c
सहदेवस्ततो राजन्नाराचेन तवात्मजम् । 004a
विद्व्वा विव्याध सप्तत्या सारथिं च त्रिभिः शरैः ॥ 004c
दुःशासनस्ततश्चापं छित्त्वा राजन्महाहवे । 005a
सहदेवं त्रिसप्तत्या बाहोरुरसि चार्पयत् ॥ 005c
सहदेवस्तु सङ्क्रुद्धः खड्गं गृह्य महाहवे । 006a
आविध्य प्रासृजत्तूर्णं तव पुत्ररथं प्रति ॥ 006c
समार्गणगुणं चापं छित्त्वा तस्य महानसिः । 007a
निपपात ततो भूमौ च्युतः सर्प इवाम्बरात् ॥ 007c
अथान्यद्धनुरादाय सहदेवः प्रतापवान् । 008a
दुःशासनाय चिक्षेप बाणमन्तकरं ततः ॥ 008c
तमापतन्तं विशिखं यमदण्डोपमत्विषम् । 009a
खड्गेन शितधारेण द्विधा चिच्छेद कौरवः ॥ 009c
ततस्तं निशितं खड्गमाविध्य युधि सत्वरः । 010a
धनुश्चान्यत्समादाय शरं जग्राह वीर्यवान् ॥ 010c
तमापतन्तं सहसा निस्त्रिंशं निशितैः शरैः । 011a
पातयामास समरे सहदेवो हसन्निव ॥ 011c
ततो बाणांश्चतुः षष्टिं तव पुत्रो महारणे । 012a
सहदेवरथं तूर्णं प्रेषयामास भारत ॥ 012c
ताञ्छरान्समरे राजन्वेगेनापततो बहून् । 013a
एकैकं पञ्चभिर्बाणैः सहदेवो न्यकृन्तत ॥ 013c
सन्निवार्य महाबाणान्सहदेवः प्रतापवान् । 014a
अथास्मै सुबहून्बाणान्प्रेषयामास संयुगे ॥ 014c
तान्बाणांस्तव पुत्रोऽपि छित्त्वैकैकं त्रिभिः शरैः । 015a
ननाद सुमहानादं नादयानो वसुन्धराम् ॥ 015c
ततो दुःशासनो राजन्द्वाभ्यां पाण्डुसुतं रणे । 016a
सारथिं नवभिर्बाणैर्माद्रोयस्य समाचिनोत् ॥ 016c
ततः क्रुद्धो महाराज सदहेवः प्रतापवान् । 017a
समाधत्त शरं घोरं मृत्युकालान्तकोपमम् ॥ 017c
विकृष्य बलवच्चापं तव पुत्राय सोऽसृजत् । 018a
स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत् ॥ 018c
प्राविशद्वरणीं राजन्वल्मीकमिव पन्नगः । 019a
ततः सम्मुमुहे राजंस्तव पुत्रो महारथः ॥ 019c
मूढं चैनं समालोक्य सारथिस्त्वरितो रथम् । 020a
अपोवाह भृशं त्रस्तो वध्यमानं शितैः शरैः ॥ 020c
पराजित्य रणे तं तु कौरव्यं पाण्डुनन्दनः । 021a
दुर्योधनबलं दृष्ट्वा प्रममाथ समन्ततः ॥ 021c
पिपीलिकपुटं राजन्यथा मृद्गन्नरो रुषा । 022a
तथा सा कौरवी सेना मृदिता तेन भारत ॥ ॥ 022c

इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे चतुर्दशोऽध्यायः ॥ 14 ॥

8-14-1 आदुधुवुः भ्रामितवन्तः ॥ 8-14-22 पिपीलिकपुटं पिपीलिकावासपटलम् ॥ 8-14-14 चतुर्दशोऽध्यायः ॥