अध्यायः 013
शल्येन श्रुतकीर्तिपराजयः ॥
'सञ्जय उवाच । 001
श्रुतकीर्तिमथायान्तं किरन्तं निशिताञ्शरान् । 001a
मद्रराजो महाराज वारयामास हृष्टवत् ॥ 001c
मद्रराजं समासाद्य श्रुतकीर्तिर्महारथः । 002a
विव्याध भल्लैर्विंशत्या कार्तस्वरविभूषितैः ॥ 002c
प्रतिविव्याध तं शल्यं त्रिभिस्तूर्णमजिह्मगैः । 003a
सारथिं चास्य भल्लेन भृशं विव्याध भारत ॥ 003c
स शल्यं शरवर्षेण च्छादयामास संयुगे । 004a
मुमोच निशितान्बाणान्मद्रराजरथं प्रति ॥ 004c
ततः शल्यो महाराज श्रुतकीर्तिभुजच्युतान् । 005a
चिच्छेद समरे बाणासन्बणैः सन्नतपर्वभिः ॥ 005c
श्रुतकीर्तिस्ततः शल्यं भित्त्वा नवभिरायसैः । 006a
सारथिं त्रिभिरानर्च्छत्पुनः शल्यं च पञ्चभिः ॥ 006c
तस्य शल्यो धनुश्छित्त्वा हस्तावापं निकृत्य च । 007a
विव्याध समरे तूर्णं सप्तभिस्तं शरोत्तमैः ॥ 007c
अथान्यद्धनुरादाय श्रुतकीर्तिर्महारथः । 008a
भद्रेश्वरं चतुःषष्ट्या बाह्वोरुरसि चार्पयत् ॥ 008c
ततस्तु समरे राजंस्तेन विद्धः शिलीमुखैः । 009a
प्रतिविव्याध तं चापि नवत्या निशितैः शरैः ॥ 009c
तस्य मद्रेश्वरश्चापं पुनश्चिच्छेद मारिष । 010a
स च्छिन्नधन्वा समरे गदां चिक्षेप सत्वरः ॥ 010c
पट्टैर्जाम्बूनदैर्बद्धां रुप्यपट्टैश्च भारत । 011a
भ्राजमानां यथा नारीं दिव्यवस्त्रविभूषिताम् ॥ 011c
तामापतन्तीं सहसा दीप्यमानाशनिप्रभाम् । 012a
शरैरनेकसाहस्रैर्व्यष्टम्भयत मद्रराट् ॥ 012c
विष्टभ्य च गदां वीरः पातयित्वा च भूतले । 013a
श्रुतकीर्तिमथायत्तो राजन्विव्याध पञ्चभिः ॥ 013c
तस्य शक्तिं रणे भूयश्चिक्षेप भुजोपमाम् । 014a
तां द्विधा चाच्छिनच्छल्यो मेदिन्यां सा त्वशीर्यत ॥ 014c
तस्य शल्यः क्षुरप्रेण यन्तुः कायाच्छिरोऽहरत् । 015a
बालहस्ताद्यथा श्येन आमिषं वै नरोत्तम ॥ 015c
स पपात रथोपस्थात्सारथिस्तस्य भारत । 016a
ततस्ते प्राद्रवन्सङ्ख्ये हयास्तस्य महात्मनः ॥ 016c
पलायमानैस्तैरश्वैः सोपनीतो रणाजिरात् । 017a
श्रुतकीर्तिर्महाराज पश्यतां सर्वयोधिनाम् ॥ 017c
ततो मद्रेश्वरो राजा पाण्डवानामनीकिनीम् । 018a
व्यगाहत मुदा युक्तो नलिनीं द्विरदो यथा ॥ 018c
लोलयामास स बलं सिंहः पशुगणानिव । 019a
शल्यस्तत्र महारङ्गे पाण्डवानां महात्मनाम् ॥ 019c
निपात्य पाण्डुपाञ्चालान्पृतनासु व्यवस्थितः । 020a
अशोभत रणे शल्यो विधूमोऽग्निरिव ज्वलन् ॥ 020c
सेनाकक्षं महद्दग्ध्वा कक्षमग्निरिवोत्थितः । 021a
स्थितो रराज समरे पुरं दग्ध्वेव शङ्करः ॥ ॥ 021c
इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे त्रयोदशोऽध्यायः ॥ 13 ॥