श्रीः अध्यायः 012
भीमाश्वत्थाम्नोर्युद्धम् ॥ 1 ॥
सञ्जय उवाच । 001
भीमसेनं ततो द्रौणी राजन्विव्याध पत्रिणा । 001a
परया त्वरया युक्तो दर्शयन्नस्त्रलाघवम् ॥ 001c
अथैनं पुनराजघ्ने नवत्या निशितैः शरैः । 002a
सर्वमर्माणि सम्प्रेक्ष्य मर्मज्ञो लघुहस्तवत् ॥ 002c
भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः । 003a
रराज समरे राजन्रश्मिवानिव भास्करः ॥ 003c
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः । 004a
द्रोणपुत्रमवच्छाद्य सिंहनादममुञ्चत ॥ 004c
शरैः शरांस्ततो द्रौणिः संवार्य युधि पाण्डवम् । 005a
ललाटेऽभ्याहनद्राजन्नाराचेन स्मयन्निव ॥ 005c
ललाटस्थं ततो बाणं धारयामास पाण्डवः । 006a
यथा शृङ्गं वने दृप्तः खड्गो धारयते नृप ॥ 006c
ततो द्रौणिं रणे भीमो यतमानं पराक्रमी । 007a
त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव ॥ 007c
ललाटस्थैस्ततो बाणैर्ब्राह्मणोऽसौ व्यशोभत । 008a
प्रावृषीव यथा सिक्तस्त्रिशृङ्गः पर्वतोत्तमः ॥ 008c
ततः शरशतैर्द्रौणिरर्दयामास पाण्डवम् । 009
न चैनं कम्पयामास मातरिश्वेव पर्वतम् ॥ 009
तथैव पाण्डवो युद्धे द्रौणिं शरशतैः शितैः । 010
नाकम्पयत संहृष्टो वार्योध इव पर्वतम् ॥ 010
तावन्योन्यं शरैर्घोरैश्छादयानौ महारथौ । 011
रथवर्यगतौ वीरौ शुशुभाते बलोत्कटौ ॥ 011
आदित्याविव सन्दीप्तौ लोकक्षयकरावुभौ । 012
स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः ॥ 012
ततः प्रविकृते यत्नं कुर्वाणौ तौ महारणे । 013
कृतप्रतिकृते यत्तौ शरसङ्घैरभीतवत् ॥ 013
व्याघ्राविव च सङ्ग्रामे चेरतुस्तौ नरोत्तमौ । 014
शरदंष्ट्रौ दुराधर्षौ चापवक्रौ भयङ्करौ ॥ 014
अभूतां तावदृश्यौ च शरजालैः समन्ततः । 015
मेघजालैरिव च्छनौ गगने चन्द्रभास्करौ ॥ 015
चकाशेते मुहूर्तेन ततस्तावप्यरिन्दमौ । 016
विमुक्तावभ्रजालेन अङ्गारकबुधाविव ॥ 016
अथ तत्रैव सङ्ग्रामे वर्तमाने सुदारुणे । 017
अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम् ॥ 017
किरञ्छरशतैरुग्रैर्धाराभिरिव पर्वतम् । 018
न तु तन्ममृषे भीमः शत्रोर्विजयक्षणम् ॥ 018
प्रतिचक्रे ततो राजन्पाण्डवोऽप्यपसव्यतः । 019
मण्डलानां विभागेन गतप्रत्यागतेन च ॥ 019
बभूव तुमुलं युद्धं तयोः पुरुषसिंहयोः । 020
चरित्वा विविधान्मार्गान्मण्डलस्थानमेव च ॥ 020
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः । 021
अन्योन्यस्य वधे चैव चक्रतुर्यत्नमुत्तमम् ॥ 021
ईषतुर्विरथं चैव कर्तुमन्योन्यमाहवे । 022
ततो द्रौणिर्महास्त्राणि प्रादुश्चक्रे महारथः ॥ 022
तान्यस्त्रैरेव समरे प्रतिजघ्नेऽथ पाण्डवः । 023
ततो घोरं महाराज अस्त्रयुद्धमवर्तत ॥ 023
ग्रहयुद्वं यथा घोरं प्रजासंहरणे ह्यभूत् । 024
ते बाणाः समसज्जन्त मुक्तास्ताभ्यां तु भारत ॥ 024
द्योतयन्तो दिशः सर्वास्तव सैन्यं समन्ततः । 025
बाणसङ्घैर्वृतं घोरमाकाशं समपद्यत ॥ 025
उल्कापातावृतं युद्धं प्रजानां सङ्क्षये नृप । 026
बाणाभिघातात्सञ्जज्ञे तत्र भारत पावकः ॥ 026
सविस्फुलिङ्गो दीप्तार्चिर्योऽदहद्वाहिनीद्वयम् । 027
तत्र सिद्धा महाराज सम्पतन्तोऽब्रुवन्वचः ॥ 027
युद्धानामति सर्वेषां युद्धमेतदिति प्रभो । 028
सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम् ॥ 028
नेदृशं च पुनर्युद्धं भविष्यति कदाचन । 029
अहो ज्ञानेन सम्पन्नावुभ ब्राह्मणक्षत्रियौ ॥ 029
अहो शौर्येण सम्पन्नावुभौ चोग्रपराक्रमौ । 030
अहो भीमबलो भीम एतस्य च कृतास्त्रता ॥ 030
अहो वीर्यस्य सारत्वमहो सौष्ठवमेतयोः । 031
स्थितावेतौ हि समरे कालान्तकयमोपमौ ॥ 031
रुद्रौ द्वावि सम्भूतौ यथा द्वाविव भास्करौ । 032
यमौ वा पुरुषव्याघ्रौ घोररूपावुभौ रणे ॥ 032
इति वाचः स्म श्रूयन्ते सिद्धानां वै मुहुर्मुहुः । 033
सिंहनादश्च सञ्जज्ञे समेतानां दिवौकसाम् ॥ 033
अद्भुतं चाप्यचिन्त्यं च दृष्ट्वा कर्म तयो रणे । 034
सिद्वचारणसङ्घानां विस्मयः समपद्यत ॥ 034
प्रशंसन्ति तदा देवाः सिद्धाश्च परमर्षयः । 035
साधु द्रौणे महाबाहो साधु भीमेति चाब्रुवन् ॥ 035
तौ शूरौ समरे राजन्परस्परकृतागसौ । 036
परस्परमुदीक्षेतां क्रोधादुद्वृत्य चक्षुषी ॥ 036
क्रोधरक्तेक्षणौ तौ तु क्रोधात्प्रस्फुरिताधरौ । 037
क्रोधात्सन्दष्टदशनौ तथैव दशनच्छदौ ॥ 037
अन्योन्यं छादयन्तौ स्म शरवृष्ट्या महारथौ । 038
शराम्बुधारो समरे शस्त्रविद्युत्प्रकाशिनौ ॥ 038
तावन्योन्यं ध्वजं विद्ध्वा सारथिं च महारणे । 039
अन्योन्यस्य हयान्विद्ध्वा बिभिदाते परस्परम् ॥ 039
ततः क्रुद्धौ महाराज बाणौ गृह्य महाहवे । 040
उभौ चिक्षिपतुस्तूर्ममन्योन्यस्य वधैषिणौ ॥ 040
तौ सायकौ महाराज द्योतमानौ चमूमुखे । 041
आजघ्नतुः समासाद्य वज्रवेगौ दुरासदौ ॥ 041
तौ परस्परवेगाच्च शराभ्यां च भृशाहतौ । 042
निपेततुर्महावीर्यौ रथोपस्थे तयोस्तदा ॥ 042
ततस्तु सारथिर्ज्ञात्वा द्रोणपुत्रमचेतनम् । 043
अपोवाह रणाद्राजन्सर्वसैन्यस्य पश्यतः ॥ 043
तथैव पाण्डवं राजन्विह्वलन्तं मुहुर्मुहुः । 044
अपोवाह रथेनाजौ विशोकः शत्रुतापनम् ॥ ॥ 044
*इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे द्वादशोऽध्यायः ॥ 12 ॥ *झ. पन्तके एतदनन्तरं स्थिताः सप्ताध्याया एतत्पाठे क्रमेण 52-53-54-55-56-59-60 तमाध्यायतया वर्तन्ते ।
8-12-6 खड्गः गण्डकः ॥ 8-12-13 कृतप्रतिकृते अन्योन्यास्रप्रतिघाते ॥ 8-12-22 ईषतुः इच्छां चक्रतुः ॥ 8-12-26 उल्कानामन्योन्या भिमुखं पातास्तैरावृतमिवेति लुप्तोपमा ॥ 8-12-37 तथैव दशनच्छदौ क्रोधात्सन्दष्टोष्टौ ॥