अध्यायः 011
प्रतिविन्ध्यश्रुतकर्मक्ष्यां चित्रचित्रसेनयोः संहारः ॥ 1 ॥
सञ्जय उवाच । 001
श्रुतकर्मा ततो राजंश्चित्रसेनं महीपतिम् । 001a
आजघ्ने समरे क्रुद्धः पञ्चाशद्भिः शिलीमुखैः ॥ 001c
चित्रसेनस्तु तं राजन्नवभिर्नतपर्वभिः । 002a
श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः ॥ 002c
श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे । 003a
नाराचेन सुतीक्ष्णेन मर्मदेशे समार्पयत् ॥ 003c
सोऽतिविद्धो महाराज नाराचेन महात्मना । 004a
मूर्च्छामभिययौ वीरः कश्मलं चाविवेश ह ॥ 004c
एतस्मिन्नन्तरे चैनं श्रुतकीर्तिर्महायशाः । 005a
नवत्या जगतीपालं छादयामास पत्रिभिः ॥ 005c
प्रतिलभ्य ततः सञ्ज्ञां चित्रसेनो महारथः । 006a
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ॥ 006c
सोऽन्यत्कार्मुकमादाय वेगघ्नं रुक्मभूषितम् । 007a
चित्ररूपधरं चक्रे चित्रसेनं शरोर्मिभिः ॥ 007c
स शरैश्चित्रितो राजा चित्रमाल्यधरो युवा । 008a
अशोभत महारङ्गे श्वाविच्छललो यथा ॥ 008c
श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे । 009a
बिभेद तरसा शूरस्तिष्ठतिष्ठेति चाब्रवीत् ॥ 009c
श्रुतकर्मापि समरे नाराचेन समर्पितः । 010a
सुस्राव रुधिरं तत्र गैरिकाम्बु यथाऽचलः ॥ 010c
ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः । 011a
रराज समरे वीरः सपुष्प इव किंशुकः ॥ 011c
श्रुतकर्मा ततो राजञ्शत्रुणा समभिद्रुतः । 012a
शत्रुसंवारणं क्रुद्धो द्विधा चिच्छेद कार्मुकम् ॥ 012c
अथैनं छिन्नधन्वानं नाराचानां शतैस्त्रिभिः । 013a
छादयन्समरे राजन्विव्याध च सुपत्रिभिः ॥ 013c
ततोऽपरेण भल्लेन तीक्ष्णेन निशितेन च । 014a
जहार सशिरस्त्राणं शिरस्तस्य महात्मनः ॥ 014c
तच्छिरो न्यपतद्भूमौ चित्रसेनस्य दीप्तिमत् । 015a
यदृच्छया यथा चन्द्रश्च्युतः स्वर्गान्महीतलम् ॥ 015c
राजानं निहतं दृष्ट्वा तेऽभिसारं तु मारिष । 016a
अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः ॥ 016c
ततः क्रुद्धो महेष्वासस्तत्सैन्यं प्राद्रवच्छरैः । 017a
अन्तकाले यथा क्रुद्धः सर्वभूतानि प्रेतराट् ॥ 017c
ते वध्यमानाः समरे तव पौत्रेण धन्विना । 018a
व्यद्रवन्त दिशस्तूर्णं दावदग्धा इव द्विपाः ॥ 018c
तांस्तु विद्रवतो दृष्ट्वा निरुत्साहान्द्विषज्जये । 019a
द्रावयन्निषुभिस्तीक्ष्णैः श्रुतकर्मा व्यरोचत ॥ 019c
प्रतिविन्ध्यस्ततश्चित्रं भित्त्वा पञ्चभिराशुगैः । 020a
सारथिं च त्रिभिर्विद्व्वा ध्वजमेकेषुणापि च ॥ 020c
तं चित्रो नवभिर्भल्लैर्बाह्वोरुरसि चार्पयत् । 021a
स्वर्णपुङ्खैः प्रसन्नाग्रैः कङ्कबर्हिणवाजितैः ॥ 021c
प्रतिविन्ध्यो धनुश्छित्त्वा तस्य भारत सायकैः । 022a
पञ्चभिर्निशितैर्बाणैरथैनं स हि जघ्निवान् ॥ 022c
ततः शक्तिं महाराज स्वर्णघण्टां दुरासदाम् । 023a
प्राहिणोत्प्रतिविन्ध्याय विचिन्वन्तीमसूनिव ॥ 023c
तामापतन्तीं सहसा शक्तिमुल्कामिवाम्बरे । 024a
द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्निव ॥ 024c
सा पपात द्विधा छिन्ना प्रतिविन्ध्यशरैः शितैः । 025a
युगान्ते सर्वभूतानि त्रासयन्ती यथाऽशनिः ॥ 025c
शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम् । 026a
प्रतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम् ॥ 026c
सा जघान हयांस्तस्य सारथिं च महारणे । 027a
रथं प्रमृद्य वेगेन धरणीमन्वपद्यत ॥ 027c
एतस्मिन्नेव काले तु रथादाप्लुत्य भारत । 028a
शक्तिं चिक्षेप चित्राय स्वर्णदण्डामलङ्कृताम् ॥ 028c
तामापतन्तीं जग्राह चित्रो राजन्महामनाः । 029a
ततस्तामेव चिक्षेप प्रतिविन्ध्याय पार्थिवः ॥ 029c
समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा । 030a
पतिताऽभासयश्चैव तं देशमशनिर्यथा ॥ 030c
प्रतिविन्ध्यस्ततो राजंस्तोमरं हेमभूषितम् । 031a
प्रेषयामास सङ्क्रुद्धश्चित्रस्य वधकाङ्क्षया ॥ 031c
स तस्य गात्रावरणं भित्त्वा हृदयमेव च । 032a
जगाम धरणीं तूर्णं महोरग इवाशयम् ॥ 032c
स पपात तदा राजा तोमरेण समाहतः । 033a
प्रसार्य विपुलौ बाहू पीनौ परिघसन्निभौ ॥ 033c
चित्रं सम्प्रेक्ष्य निहतं तावका रणशोभिनः । 034a
अभ्यद्रवन्त वेगेन प्रतिविन्ध्यं समन्ततः ॥ 034c
सृजन्तो विविधान्बाणाञ्शतघ्नीश्च सकिङ्किणीः । 035a
तमवच्छादयामासुः सूर्यमभ्रगणा इव ॥ 035c
तान्विधम्य महाबाहुः शरजालेन संयुगे । 036a
व्यद्रावयत्तव चमूं वज्रहस्त इवासुरीम् ॥ 036c
ते वध्यमानाः समरे तावकाः पाण्डवैर्नृप । 037a
विप्रकीर्यन्त सहसा वातनुन्ना घना इव ॥ 037c
विप्रद्रुते बले तस्मिन्वध्यमाने समन्ततः । 038a
द्रौणिरेकोऽभ्ययात्तूर्णं भीमसेनं महाबलम् ॥ 038c
तः समागमो घोरो बभूव सहसा तयोः । 039a
यथा दैवासुरे युद्धे वृत्रवासवयोरिव ॥ ॥ 039c
इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे एकादशोऽध्यायः ॥ 11 ॥
8-11-2 आहत्य सन्ताड्य ॥ 8-11-4 मूर्च्छां अर्धनिद्राम् । कश्मलमचि त्तत्वम् ॥ 8-11-5 एनं श्रुतकर्माणम् ॥ 8-11-6 तं श्रुतकर्माणम् ॥ 8-11-11 कृतच्छविः आहितशोभः ॥ 8-11-13 सुपत्रिभिः शोभनपुङ्खवद्भिर्नाराचानां शतैः ॥ 8-11-17 प्रेतराट् यमः ॥ 8-11-18 दावो दावाग्निस्तेन दग्धाः ॥ 8-11-32 गात्रावरणं कवचम् ॥