अध्यायः 010

द्वन्द्वयुद्धम् ॥ 1 ॥ सात्यकिना विन्दानुविन्दवधः ॥ 2 ॥

सञ्चय उवाच । 001
ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम् । 001a
जघान समरे शूरः सन्नतपर्वभिः ॥ 001c
तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम् । 002a
कर्णस्य प्रमुखे क्रुद्धा निजघ्नुस्ते महारथाः ॥ 002c
कर्णोऽपि राजन्समरे व्यहनत्पाण्डवीं चमूम् । 003a
नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः ॥ 003c
तत्र भारत कर्णेन नाराचैस्ताडिता गजाः । 004a
नेदुः सेदुश्च मम्लुश्च बभ्रुमुश्च दिशो दश ॥ 004c
वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष । 005a
नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे ॥ 005c
भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम् । 006a
विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत् ॥ 006c
श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः । 007a
प्रतिविन्ध्यस्तथा चित्रं चित्रकेतनकार्मुकम् ॥ 007c
दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम् । 008a
संशप्तकगणा हृष्टा ह्यभ्यधावन्धनञ्जयम् ॥ 008c
धृष्टद्युम्नः कृपं चापि तस्मिन्वीरवरक्षये । 009a
शिखण्डी कृतवर्माणं समासादयदच्युतम् ॥ 009c
श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव । 010a
दुःशासनं महाराज सहदेवः प्रतापवान् ॥ 010c
कैकेयौ सात्यकिं युद्धे शरवर्षेण भास्वता । 011a
सात्यकिः केकयौ चापि च्छादयामास भारत ॥ 011c
तावेनं भ्रातरौ वीरौ जघ्नतुर्हृदये भृशम् । 012a
विषाणाभ्यां यथा नागौ प्रतिनागं महावने ॥ 012c
शरसम्बिन्नवर्माणौ तावुभौ भ्रातरौ रणे । 013a
सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः ॥ 013c
तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशः । 014a
छादयञ्छरवर्षेण वारयामास भारत ॥ 014c
वार्यमाणौ ततस्तौ हि शैनेयशरवृष्टिभिः । 015a
शैनेयस्य रथं तूर्णं छादयामासतुः शरैः ॥ 015c
तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महायशाः । 016a
अथ तौ सायकैस्तीक्ष्णैर्वारयामास सात्यकिः ॥ 016c
अथान्ये धनुषी चित्रे प्रगृह्य च महाशरान् । 017a
सात्यकिं छादयन्तौ तौ चेरतुर्लघु सुष्ठु च ॥ 017c
ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः । 018a
द्योतयन्तो दिशः सर्वाः सम्पेतुः स्वर्णभूषणाः ॥ 018c
बाणान्धकारमभवत्तयो राजन्महामृधे । 019a
अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः ॥ 019c
ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः । 020a
धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे ॥ 020c
क्षुरप्रेण सुतीक्ष्णेन ह्यनुविन्दशिरोऽहरत् । 021a
अपतत्तच्छिरो राजन्कुण्डलोपचितं महत् ॥ 021c
शम्बरस्य शिरो यद्वन्निहतस्य महारणे । 022a
शोचयन्केकयान्सर्वाञ्जगामाशु वसुन्धराम् ॥ 022c
तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः । 023a
सज्यमन्यद्धनुः कृत्वा शैनेयं पर्यवारयत् ॥ 023c
स षष्ट्या सात्यकिं विद्व्वा स्वर्णपुङ्खैः शिलाशितैः । 024a
ननाद बलवन्नादं तिष्ठतिष्ठेति चाब्रवीत् ॥ 024c
सात्यकिं च ततस्तूर्णं केकयानां महारथः । 025a
शरैरनेकसाहस्रैर्बाह्वोरुरसि चार्पयत् ॥ 025c
स शरैः क्षतसर्वाङ्गः सात्यकिः सत्यविक्रमः । 026a
रराज समरे राजन्सपुष्प इव किंशुकः ॥ 026c
सात्यकिः समरे विद्धः कैकेयेन महात्मना । 027a
कैकेयं पञ्चविंशत्या विव्याध प्रहसन्निव ॥ 027c
तावन्योन्यस्य समरे सञ्छिद्य धनुषी शुभे । 028a
हत्वा च सारथी तूर्णं हयांश्च रथिनां वरौ ॥ 028c
विरथावसियुद्धाय समाजग्मतुराहवे । 029a
शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तथा ॥ 029c
विरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ । 030a
यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ ॥ 030c
मण्डलानि ततस्तौ तु विचन्तौ महारणे । 031a
अन्योन्यमभितस्तूर्णं समाजग्मतुराहवे ॥ 031c
अन्योन्यस्य वधे चैव चक्रतुर्यत्नमुत्तमम् । 032a
कैकेयस्य द्विधा चर्म ततश्चिच्छेद सात्वतः ॥ 032c
सात्यकेस्तु तथैवासौ चर्म चिच्छेद पार्थिवः । 033a
चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम् । 033c
चचार मण्डलान्येव गतप्रत्यागतानि च ॥ 033e
तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम् । 034a
अपहस्तेन चिच्छेद शैनेयस्त्वरयाऽन्वितः ॥ 034c
सवर्मा केकयो राजन्द्विधा च्छिन्नो महारणे । 035a
निपपात महेष्वासो वज्राहत इवाचलः ॥ 035c
तं निहत्य रणे शूरः शैनेयो रथसत्तमः । 036a
युधामन्युरथं तूर्णमारुरोह परन्तपः ॥ 036c
ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः । 037a
केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः ॥ 037c
सा वध्यमाना समरे केकयानां महाचमूः । 038a
तमुत्सृज्य रणे शत्रुं प्रदुद्राव दिशो दश ॥ ॥ 038c

इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे दशमोऽध्यायः ॥ 10 ॥

8-10-6 द्रौणिमभ्यद्रवत् ॥ 8-10-9 कृपेण युयुधे इति शेषः ॥ 8-10-10 माद्रीपुत्रः सुतं तवेत्यस्य व्याख्या दुःशासनमिति ॥ 8-10-17 लघु शीघ्रम् । सुष्टु शोभनम् ॥ 8-10-21उपचितमलङ्कृतम् ॥ 8-10-34 अपहस्तेन तिर्यग्घस्तेन ॥