अध्यायः 009

सङ्कुलयुद्धम् ॥ 1 ॥ भीमेन क्षेमधूर्तिवधः ॥ 2 ॥

सञ्जय उवाच । 001
ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे । 001a
बृहत्यौ सम्प्रजह्राते देवासुरचमूसमे ॥ 001c
ततो नानारथाश्वेभाः पत्तयश्चोग्रविक्रमाः । 002a
सम्प्रहारान्भृशं चक्रुर्देहपाप्मविनाशनान् ॥ 002c
पूर्णचन्द्रार्कपद्मानां कान्तित्विड्गन्धतः समैः । 003a
उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम् ॥ 003c
अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टसैः । 004a
परश्वथैश्चापहृतान्युत्तमाङ्गानि युध्यताम् ॥ 004c
व्यायतायतबाहूनां व्यायतायतबाहुभिः । 005a
बाहवः पातिता रेजुर्धरण्यां सायुधाङ्गदैः ॥ 005c
तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तथा । 006a
गरुडप्रहितैरुग्रैः पञ्चास्यैरुरगैरिव ॥ 006c
द्विरदस्यन्दनाश्वेभ्यः पेतुर्वीरा द्विषद्धताः । 007a
विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गसदस्तथा ॥ 007c
गदाभिरन्ये गुर्वीभिः परिघैर्मुसलैरपि । 008a
पोथिताः शतशः पेतुर्वीरा वीरतरै रणे ॥ 008c
रथा रथैर्विमथिता मत्ता मत्तैर्द्विपा द्विपैः । 009a
सादिनः सादिभिश्चैव तस्मिन्परमसङ्कुले ॥ 009c
रथैर्नरा रथा नागैरश्वारोहाश्च पत्तिभिः । 010a
अश्वारोहैः पदाताश्च निहता युधि शेरते ॥ 010c
रथाश्वपत्तयो नागै रथाश्वेभाश्च पत्तिभिः । 011a
रथपत्तिद्विपाश्चाश्चै रथैश्चापि नरद्विपाः ॥ 011c
रथाश्वेभनराणां तु नराश्वेभरथैः कृतम् । 012a
पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत् ॥ 012c
तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च । 013a
अस्मानभ्याययुः पार्था वृकोदरपुरोगमाः ॥ 013c
धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः । 014a
सात्यकिश्चेकितानश्च द्राविडैः सैनिकैः सह ॥ 014c
वृता व्यूहेन महता पाण्ड्याश्चोलाः सकेरलाः । 015a
व्यूढोरस्का दीर्घभुजाः प्रांशवः पृथुलोचनाः ॥ 015c
आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः । 016a
नानाविरागवसाना गन्धचूर्णावचूर्णिताः ॥ 016c
बद्धासयः पाशहस्ता वारणप्रतिवारणाः । 017a
समानमृत्यवो राजन्नात्यजन्त परस्परम् ॥ 017c
कलापिनश्चापहस्ता दीर्घकेशाः प्रियंवदाः । 018a
पत्तयः सायकैर्विद्धा घोररूपपराक्रमाः ॥ 018c
अथापरे पुनः शूराश्चेदिपाञ्चालकेकयाः । 019a
कारूशाः कोसलाः काञ्च्या मागधाश्चापि दुद्रुवुः ॥ 019c
तेषां रथाश्वनागाश्च प्रवराश्चोग्रपत्तयः । 020a
नानाबाणरवैर्हृष्टा नृत्यन्ति च हसन्ति च ॥ 020c
तस्य सैन्यस्य महतो महामात्रवरैर्वृतः । 021a
मध्ये वृकोदरोऽभ्यायात्त्वदीयान्नागधूर्गतः ॥ 021c
स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ । 022a
उदयाग्राद्रिभवनं यथाऽभ्युदितभास्करम् ॥ 022c
तस्यायसं वर्मवरं वररत्नविभूषितम् । 023a
ताराव्याप्तस्य नभसः शारदस्य समं त्विषा ॥ 023c
स तोमरव्यग्रकरश्चारुमौलिः स्वलङ्कृतः । 024a
शरन्मध्यन्दिनार्काभस्तेजसा प्रादहद्रिपून् ॥ 024c
तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थितः । 025a
आह्वयन्नभिदुद्राव प्रहसन्पृतनामुखे ॥ 025c
तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः । 026a
यदृच्छया द्रुतवतोर्महापर्वतयोरिव ॥ 026c
संसक्तनागौ तौ वीरौ तोमरैरितरेतरम् । 027a
बलवत्सूर्यरश्म्याभैर्भित्त्वाऽन्योन्यं विनेदतुः ॥ 027c
व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः । 028a
प्रगृह्य चोभौ धनुषी जघ्नतुर्वै परस्परम् ॥ 028c
क्ष्वेडितास्फोटितरवैर्बाणशब्दैस्तु सर्वतः । 029a
तौ जनं हर्षयन्तौ च सिंहनादं प्रचक्रतुः ॥ 029c
समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ । 030a
वातोद्धूतपताकाभ्यां युयुधाते महाबलौ ॥ 030c
तावन्योन्यस्य धनुषी छित्त्वाऽन्योन्यं विनेदतुः । 031a
शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः ॥ 031c
क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे । 032a
निर्बिभेदातिवेगेन षड्भिश्चाप्यपरैर्नदन् ॥ 032c
स भीमसेनः शुशुभे तोमरैरङ्गमाश्रितैः । 033a
क्रोधदीप्तवपुर्मेघैः सप्तसप्तिरिवांशुमान् ॥ 033c
ततो भास्करवर्णाभमञ्जोगतिमयस्मयम् । 034a
ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान् ॥ 034c
ततः करूशाधिपतिश्चापमानम्य सायकैः । 035a
दशभिस्तोमरं भित्त्वा षष्ट्या विव्याध पाण्डवम् ॥ 035c
अथ कार्मुकमादाय भीमो जलदनिः स्वनम् । 036a
रिपोरभ्यर्दयन्नागमुन्नदन्पाण्डवाः शरैः ॥ 036c
स शरौघार्दितो नागो भीमसेनेन संयुगे । 037a
गृह्यमाणोऽपि नातिष्ठद्वातोद्धूत इवाम्बुदः ॥ 037c
तमभ्यधावद्द्विरदं भीमो भीमस्य नागराट् । 038a
महावातेरितं मेघं वातोद्धूत इवाम्बुदः ॥ 038c
सन्निवार्यात्मनो नागं क्षेमधूर्तिः प्रतापवान् । 039a
विव्याधाभिद्रुतं बाणैर्भीमसेनस्य कुञ्जरम् ॥ 039c
ततः साधुविसृष्टेन क्षुरेणानतपर्वणा । 040a
छित्त्वा शरासनं शत्रोर्नागं चापि प्रमार्दयत् ॥ 040c
ततः क्रुद्धो रणे भीमं क्षेमधूर्तिः पराभिनत् । 041a
जघान चास्य द्विरदं नाराचैः सर्वमर्मसु ॥ 041c
स पपात महानागो भीमसेनस्य भारत । 042a
पुरा नागस्य पतनादवप्लुत्य स्थितो महीम् ॥ 042c
भीमसेनोऽपि तन्नागं गदया समपोथयत् । 043a
तस्मात्प्रमथितान्नागात्क्षेमधूर्तिरवप्लुतः ॥ 043c
'उद्धृत्य खड्गं निशितमभ्यधावत्स पाण्डवम्' । 044a
उद्यतायुधमायान्तं गदयाऽहन्वृकोदरः ॥ 044c
स पपात हतः सासिर्व्यसुस्तमभितो द्विपम् । 045a
वज्रप्रभग्नमचलं सिंहो वज्रहतो यथा ॥ 045c
तं हतं नृपतिं दृष्ट्वा करूशानां यशस्करम् । 046a
प्राद्रावद्व्यथिता सेना त्वदीया भरतर्षभ ॥ ॥ 046c

इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे नवमोऽध्यायः ॥ 9 ॥

8-9-3 तस्तरुः आस्तीर्णवन्तः ॥ 8-9-5 व्यायताः पुष्टाः आयताः दीर्घाः ॥ 8-9-6 प्रहितैः निरस्तैः । ओहाक् त्यागे ॥ 8-9-16 आपीडिनः भूषावन्तः । नाना पृथक् विविधरागाणि वसनानि येषां ते विरागवसनाः ॥ 8-9-21 नागधूर्गतः गजस्कन्धगतः ॥ 8-9-22 उदयाग्राद्रिभवनं उदयाद्रेरग्रभवनम् । अग्राद्रीत्यग्रशब्दस्य पूर्वनिपात आर्षः । उदयनामा अग्राद्रिः पूर्वपर्वतः स एव भवनमिति वा ॥ 8-9-23 शारदस्य शरदा उपलक्षितस्य ॥ 8-9-24 चारुमौलिः रम्यकिरीटः ॥ 8-9-33 स भीमसेनः मेघैः सप्तसप्तिरिवांशुमान् । यथा मेघान्तर्हितस्य सूर्यस्य मरीचयः रश्मिरूपेण सर्वतः प्रचरन्ति एवं रश्मिस्थानीयास्तोमराः ॥ 8-9-34 अञ्जोगतिं ऋजुगतिम् ॥ 8-9-37 गृह्यमाणः निगृह्यमाणः क्षेमधूर्तिना ॥ 8-9-44 अहन्हतवान् ॥ 8-9-45 हतः गदया शकलीकृतः । अतएव अभितोद्विपं द्विपस्याभितः पपात ॥