श्रीः अध्यायः 007
अश्वत्थामवचनाद्दुर्योधनेन सैनापत्येऽभिषिक्तेन कर्णेन रणाय सेनानियोजनम् ॥ 1 ॥
सञ्जय उवाच । 001
हते द्रोणे महेष्वासे तस्मिन्नहनि भारत । 001a
कृते च मोघसङ्कल्पे द्रोणपुत्रे महारथे ॥ 001c
द्रवमाणे महाराज कौरवाणां बलार्णवे । 002a
व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद्भातृभिर्वृतः ॥ 002c
तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ । 003a
विद्रुतं स्वबलं दृष्ट्वा पौरुषेण न्यवारयत् ॥ 003c
स्वमनीकमवस्थाप्य बाहुवीर्यमुपाश्रितः । 004a
युद्धा च सुचिरं कालं पाण्डवैः सह भारत ॥ 004c
लब्धलक्षैः परैर्हष्टैर्व्यायच्छद्भिश्चिरं तदा । 005a
सन्ध्याकालं समासाद्य प्रत्याहारमकारयत् ॥ 005c
'निवेश्य बलवद्घोरं क्षुत्पिपासाबलैर्युतम् । 006a
श्रमेण महता युक्तं तथा द्रोणवधेन च ॥ 006c
दीनरूपा रणे कर्म कृत्वा घोरं च शर्वरीम् । 007a
निवेशं प्राप्य सा सेना विश्रम्य मुदिताऽभवत्' ॥ 007c
कृत्वाऽवहारं सैन्यानां प्रविश्य शिबिरं स्वकम् । 008a
कुरवः सहिता मन्त्रं मन्त्रयाञ्चक्रिरे मिथः ॥ 008c
पर्यङ्केषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च । 009a
वरासनेषूपविष्टाः सुखशय्यास्विवामराः ॥ 009c
ततो दुर्योधनो राजा साम्ना परमवल्गुना । 010a
तानाभाष्य महेष्वासान्प्राप्तकालमभाषत ॥ 010c
मतं मतिमतां श्रेष्ठाः सर्वे प्रब्रूत मा चिरम् । 011a
एवङ्गतेन यत्कार्यं भवेत्कार्यतरं नृपाः ॥ 011c
सञ्जय उवाच । 012
एवमुक्ते नरेन्द्रेण नरसिंहा युयुत्सवः । 012a
चक्रुर्नानाविधाश्चेष्टाः सिंहासनगतास्तदा ॥ 012c
तेषां निशाम्येङ्गितानि युद्धे प्राणाञ्जुहूषताम् । 013a
समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसम् । 013c
आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे ॥ 013e
रागो योगस्तथा दाक्ष्यं नयश्चेत्यर्थसाधकाः । 014a
उपायाः पण्डितैः प्रोक्तास्ते तु दैवमुपाश्रिताः ॥ 014c
लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः । 015a
नीतिमन्तस्तथा युक्ता दक्षा रक्ताश्च ते हताः ॥ 015c
न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति । 016a
सुनीतैरिह सर्वार्थैर्दैवमप्यनुलोम्यते ॥ 016c
ते वयं प्रवरं नॄणां सर्वैर्योधगुणैर्युतम् । 017a
कर्णमेवाभिषेभ्यामः सैनापत्येन भारत ॥ 017c
कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून् ॥ 018ac
एष ह्यतिबलः शूरः कृतास्त्रो युद्धदुर्मदः । 019a
वैवस्वत इवासह्यः शक्तो जेतुं रणे निपून् ॥ 019c
एतदाचार्यतनयाच्छ्रुत्वा राजंस्तवात्मजः । 020a
'दुर्योधनो महाराज भृशं प्रीतमनास्तदा' ॥ 020c
आशां बहुमतीं चक्रे कर्णं प्रति स वै तदा । 021a
हते भीष्मे च द्रोणे च कर्णो जेष्यति पाण्डवान् ॥ 021c
तामाशां हृदये कृत्वा समाश्वस्य च भारत । 022a
[ततो दुर्योधनः प्रीतः प्रियं श्रुत्वाऽस्य तद्वचः । 022c
प्रीतिसत्कारसंयुक्तं तथ्यमात्महितं शूभम् ॥] 022e
स्वं मनः समवस्थाप्य बाहुवीर्यमुपाश्रितः ॥ 023ac
'प्रियसत्कारसंयुक्तं तथ्यमात्महिते रतम्' । 024a
दुर्योधनो महाराज राधेयमिदमब्रवीत् ॥ 024c
कर्ण जानामि ते वीर्यं सौहृदं परमं मयि । 025a
तथाऽपि त्वां महाबाहो प्रवक्ष्यामि हितं वचः ॥ 025c
श्रुत्वा यथेष्टं च कुरु वीर यत्तव रोचते । 026a
भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः ॥ 026c
भीष्मद्रोणावतिरथौ हतौ सेनापती मम । 027a
सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः ॥ 027c
वृद्धौ च तौ महेष्वासौ सापेक्षो च धनञ्जये । 028a
मानितौ च मया वीरौ राधेय वचनात्तव ॥ 028c
पितामहत्वं सम्प्रेक्ष्य पाण्डुपुत्रा महारणे । 029a
रक्षितास्तात भीष्मेण दिवसानि दशैव तु ॥ 029c
न्यस्तशस्त्रे तु भवति हतो भीष्मः पितामहः । 030a
शिखण्डिनं पुरुस्कृत्य फल्गुनेन महाहवे ॥ 030c
हते तस्मिन्महेष्वासे शरतल्पगते तथा । 031a
त्वयोक्ते पुरुषव्याघ्र द्रोणो ह्यासीत्पुरःसरः ॥ 031c
तेनापि रक्षिताः पार्थाः शिष्यत्वादिति मे मतिः । 032a
स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम् ॥ 032c
निहताभ्यां प्रधानाभ्यां ताभ्यामतुलविक्रम । 033a
त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन् ॥ 033c
भवानेव तु नः शक्तो विजयाय न संशयः । 034a
पूर्वं मध्ये च पश्चाश्च तथैव विहितं हितम् ॥ 034c
स भवान्धुर्यवत्सङ्ख्ये धुरमुद्वोऽढुमर्हति । 035a
अभिषेचय सैनान्ये स्वयमात्मानमात्मना ॥ 035c
देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः । 036a
तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु वै ॥ 036c
जहि शत्रुगणान्सर्वान्महेन्द्रो दानवानिव । 037a
अवस्थितं रमे दृष्ट्वा पाण्डवास्त्वां महारथाः । 037c
द्रविष्यन्ति च पाञ्चाला विष्णुं दृष्ट्वेव दानवाः ॥ 037e
तस्मात्त्वं पुरुषव्याघ्र प्रकर्षैतां महाचमूम् ॥ 038ac
भवत्यवस्थिते यत्ते पाण्डवा मन्दचेतसः । 039a
द्रविष्यन्ति सहामात्याः पाञ्चालाः सृञ्जयाश्च ह ॥ 039c
यथा ह्यभ्युदितः सूर्यः प्रतपन्स्वेन तेजसा । 040a
व्यपोहति तमस्तीव्रं तथा शत्रून्प्रतापय ॥ 040c
सञ्जय उवाच । 041
एवमुक्तस्तु राधेयो राज्ञा दुर्योधनेन ह । 041a
राज्ञां मध्ये महाबाहुः प्रीतात्मा स महाबलः । 041c
हर्षयन्नब्रवीत्कर्णो दुर्योधनमिदं वचः ॥ 041e
कर्ण उवाच । 042
उक्तमेतन्मया पूर्वं गान्धारे तव सन्निधौ । 042a
जेष्यामि पाण्डवान्सर्वान्सपुत्रान्सजनार्दनान् ॥ 042c
सेनापतिर्भविष्यामि तवाहं नात्र संशयः । 043a
स्थिरो भव महाराज जितान्विद्वि च पाण्डवान् ॥ 043c
सञ्जय उवाच । 044
एवमुक्तो महाराज ततो दुर्याधनो नृपः । 044a
उत्तस्थौ राजभिः सार्धं देवैरिव शतक्रतुः ॥ 044c
सैनापत्येन सत्कर्तुं कर्णं स्कन्दमिवामराः । 045a
ततोऽभिषिषिचुः कर्णं विधिदृष्टेन कर्मणा ॥ 045c
दुर्योधनमुखा राजन्राजानो विजयैषिणः । 046a
शातकुम्भमयैः कुम्भेर्माहेयैश्चाभिमन्त्रितैः ॥ 046c
तोयपूर्णैर्विषाणैश्च द्विपखड्गमहर्षभैः । 047a
मणिमुक्तायुतैश्चान्यैः पुण्यगन्धैस्तथौषधैः ॥ 047c
औदुम्बरे सुखासीनमासने क्षौमसंवृते । 048a
शास्त्रदृष्टेन विधिना सम्भारैश्च सुसम्भृतैः ॥ 048c
ब्राह्मणाः क्षत्रिया वैश्यास्तथा शूद्राश्च सम्मताः । 049a
तुष्टुवुस्तं महात्मानमभिषिक्तं वरासने ॥ 049c
ततोऽभिषिक्ते राजेन्द्र निष्कैर्गोभिर्धनेन च । 050a
वाचयामास विप्राग्र्यान्राधेयः परवीरहा ॥ 050c
'स व्यरोचत राधेयः सूतमागधबन्दिभिः । 051a
स्तूयमानो यथा भानुरुदये ब्रह्मवादिभिः ॥ 051c
ततः पुण्याहघोषेण वादित्रनिनदेन च । 052a
जयशब्देन शूराणां तुमुलः सर्वतोऽभवत् ॥ 052c
जयेत्यूचुर्नृपाः सर्वे राधेयं तत्र सङ्गताः' ॥ 053ac
जय पार्थान्सगोविन्दान्सानुगांस्तान्महामृधे । 054a
इति तं बन्दिनः प्राहुर्द्विजाश्च पुरुषर्षभम् ॥ 054c
जहि पार्थान्सपाञ्चालान्राधेय विजयाय नः । 055a
उद्यन्निव सदा भानुस्तमांस्युग्रैर्गभस्तिभिः ॥ 055c
न ह्यलं त्वद्विसृष्टानां शराणां वै सकेशवाः । 056a
उलूकाः सूर्यरश्मीनां ज्वलतामिव दर्शने ॥ 056c
न हि पार्थाः सपाञ्चालाः स्थातुं शक्तास्तवाग्रतः । 057a
आत्तवज्रस्य समरे महेन्द्रस्येव दानवाः ॥ 057c
'सञ्जय उवाच । 058
स सत्कृतः स्तूयमानः सुहृद्गणवृतो रुषा । 058a
कर्णो दुर्योधनं वाक्यमब्रवीत्प्रहसन्प्रियम् ॥ 058c
दुर्योधनाद्य सगणं पाण्डूनां प्रवरैः सह । 059a
फल्गुनं सूदयिष्यामि त्वत्प्रियार्थं सबान्धवम् ॥ 059c
सपर्वतार्णवद्वीपां शाधि गां गतपाण्डवाम् । 060a
पुत्रपौत्रप्रपौत्रेषु प्रतिष्ठां गमयिष्यसि ॥ 060c
नासह्यं विद्यते मह्यं त्वत्प्रियार्थमरिन्दम । 061a
सत्यधर्मानुरक्तस्य सिद्धिरात्मवतो यथा ॥ 061c
अभिषिक्तस्तु राधेयः प्रभया सोऽमितप्रभः । 062a
अत्यरिच्यत रूपेण दिवाकर इवापरः ॥ 062c
सैनापत्ये तु राधेयमभिषिच्य सुतस्तव । 063a
अमन्यत तदात्मानं कृतार्थं कालचोदितः ॥ 063c
कर्णोऽपि राज्ञः सम्प्राप्य सैनापत्यमरिन्दमः । 064a
योगमाज्ञापयामास सूर्यस्योदयनं प्रति ॥ 064c
तव पुत्रैर्वृतः कर्णः शुशुभे तत्र भारत । 065a
देवैरिव यथा स्कन्दः सङ्ग्रामे तारकामये ॥ ॥ 065c
इति श्रीमन्महाभारते कर्णपर्वणि सप्तमोऽध्यायः ॥ 7 ॥
8-7-3 स्वबलम्प्रति विद्रुतं दृष्ट्वा ॥ 8-7-5 लब्धलक्षैः प्राप्तजयैः । व्यायच्छद्भिः यतमानैः । प्रत्याहारं प्रत्यवहारम् । प्रत्यहारमिति वा पाठः ॥ 8-7-9 पर्यङ्केष्वेव वरासनेषु ॥ 8-7-11 कार्यतरं आवश्यकतरं यत्कार्यं कर्तव्यं परं मतं सम्मतं तत् प्रब्रूत ॥ 8-7-12 चेष्टाः शौर्याभिनयरूपाः भुजास्फालनाद्याः ॥ 8-7-13 निशाम्य आलोच्य । वर्चसं छान्दसष्टच् ॥ 8-7-14 रागः स्वामिभक्तिः । योगो देशकालादिसम्पत्तिः । दाक्ष्यं बलम् । नयो नीतिः ॥ 8-7-16 सर्वार्थैः रागादिभिः सुनीतैः दैवमनुलोम्यतेऽनुकूलं क्रियते । न केवलं रागाद्यपेक्षया दैवस्य प्राबल्यमपितु दैवापेक्षयापि सुप्रणीता रागादयः प्रबला इत्यर्थः ॥ 8-7-21 बहुमतीं वाहुल्यवतीं अतिशयितामिति यावत् ॥ 8-7-22 शुभं वचः श्रुत्वा मनः समवस्थाप्य समाधायाब्रवीदिति द्वयोः सम्बन्धः ॥ 8-7-27 ताभ्यां सकाशात् द्रविणवत्तरः बलवत्तरः ॥ 8-7-34 विहितं त्वयेति शेषः ॥ 8-7-35 सैनान्ये सेनानीत्वे ॥ 8-7-46 शातकुम्भमयैः सौवर्णैर्माहेयैर्महीमयैश्च कुम्भैः ॥ 8-7-47 विषाणैः द्विपस्य गजस्य दन्तमयैः पात्रैः । खड्गस्य गण्डकस्य । महर्षभस्य गवयस्य च शृङ्गैः । विषाणं दन्तशृङ्गयोरिति विश्वः । द्विपखड्गमहर्षभीयैरिति तद्धितलोप आर्षः ॥ 8-7-56 शराणां दर्शनेपि नालं किमुत स्पर्शे इत्यर्थः ॥