अध्यायः 006
कर्णवधश्रवणानन्तरीयकधृतराष्ट्रप्रवृत्तिं पृष्टेन वैशम्पायनेन कर्णदुर्योधनस्तुतिनिन्दापूर्वकं सञ्जयम्प्रति कर्णार्जुनयुद्धकथनचोदनारूपधृतराष्ट्रप्रवृत्तिकथनम् ॥ 1 ॥
सञ्जय उवाच । 001
श्रिया कुलेन यशसा तपसा च श्रुतेन च । 001a
त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम् ॥ 001c
श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव । 002a
पर्यवस्थापयात्मानं मा विषादे मनः कृथाः ॥ 002c
धृतराष्ट्र उवाच । 003
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् । 003a
यत्र सालप्रतीकाशः कर्णोऽहन्यत संयुगे ॥ 003c
हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान् । 004a
प्रताप्य शरवर्षेण दिशः सर्वा महारथः ॥ 004c
मोहयित्वा रणे पार्थान्वज्रहस्त इवासुरान् । 005a
स कथं निहतः शेते वायुरुग्ण इव द्रुमः ॥ 005c
शोकस्यान्तं न पश्यामि पारं जलनिधेरिव । 006a
चिन्ता मे वर्धतेऽतीव मुमूर्षा चापि जायते ॥ 006c
कर्णस्य निधनं श्रुत्वा विजयं फल्गुनस्य च । 007a
अश्रद्धेयमहं मन्ये वधं कर्णस्य सञ्जय ॥ 007c
वज्रसारमिदं नूनं हृदयं दुर्भिदं मम । 008a
यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते ॥ 008c
आयुर्नूनं सुदीर्घं मे विहितं दैवतैः पुरा । 009a
यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः ॥ 009c
धिग्जीवितमिदं चैव सुहृद्धीनस्य सञ्जय । 010a
अद्य चाहं दशामेतां गतः सञ्जय गर्हिताम् । 010c
कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः ॥ 010e
अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः । 011a
परिभूतः कथं सूत परैः शक्ष्यामि जीवितुम् ॥ 011c
दुःखाद्दुःखतरं मन्ये प्राप्तवानस्मि सञ्जय । 012a
भीष्मद्रोणवधेनैव कर्णस्य च महात्मनः ॥ 012c
नावशेषं प्रपश्यामि सूतपुत्रे हते युधि । 013a
सहि पारं महानासीत्पुत्राणां मम सञ्जय ॥ 013c
युद्धे हि निहतः शूरो विसृजन्सायकान्बहून् । 014a
को हि मे जीवितेनार्थस्तमृते पुरुषर्षभम् ॥ 014c
रथादाधिरथिर्नूनं न्यपतत्सायकार्दितः । 015a
पर्वतस्येव शिखरं वज्रपाताद्विदारितम् ॥ 015c
स शेते पृथिवीं नूनं शोभयन्रुधिरोक्षितः । 016a
मातङ्ग इव मत्तेन मातङ्गेन निपातितः ॥ 016c
यो बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम् । 017a
सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम् ॥ 017c
स हि वीरो महेष्वासो मित्राणामभयङ्करः । 018a
शेते विनिहतो वीरः शक्रेणेव पुरा बलः ॥ 018c
पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम् । 019a
दुर्योधनस्य लोभश्च समान्येतानि सञ्जय ॥ 019c
अन्यथा चिन्तितं कार्यमन्यथा तत्तु जायते । 020a
अहो नु बलवद्दैवं कालश्च दुरतिक्रमः ॥ 020c
पलायमानः कृपणो दीनात्मा दीनपौरुषः । 021a
कच्चिद्विनिहतः सूत पुत्रो दुःशासनो मम ॥ 021c
कच्चिन्न दीनाचरितं कृतवांस्तात संयुगे । 022a
कच्चिन्न निहतः शूरा यथाऽन्ये क्षत्रियर्षभाः ॥ 022c
युधिष्ठिरस्य वचनं मा युद्धमिति सर्वदा । 023a
दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम् ॥ 023c
शरतल्पे शयानेन भीष्मेण सुमहात्मना । 024a
पानीयं याचितः पार्थः सोविध्यन्मेदिनीतलम् ॥ 024c
जलस्य धारां जनितां दृष्ट्वा पाण्डुसुतेन च । 025a
अब्रवीत्स महाबाहुस्तात संशाम्य पाण्डवैः ॥ 025c
प्रशमाद्वि भवेच्छान्तिर्मदन्तं युद्धमस्तु वः । 026a
भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह ॥ 026c
अकुर्वन्वचनं तस्य नूनं शोचति पुत्रकः । 027a
तदिदं समनुप्राप्त वचनं दीर्घदर्शिनः ॥ 027c
अहं तु निहतामात्यो हतपुत्रश्च सञ्जय । 028a
द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः ॥ 028c
यथा हि शकुनिं गृह्य छित्त्वा पक्षौ च सञ्जय । 029a
विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः ॥ 029c
लूनपक्षतया तस्य गमनं नोपपद्यते । 030a
तथाहमपि सम्प्राप्तो लूनपक्ष इव द्विजः ॥ 030c
क्षीणः सर्वार्थहीनश्च निर्ज्ञातिर्बन्धुवर्जितः । 031a
कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः ॥ 031c
वैशम्पायन उवाच । 032
इत्येवं धृतराष्ट्रोऽथ विलप्य बहुदुःखितः । 032a
प्रोवाच सञ्जयं भूयः शोकव्याकुलमानसः ॥ 032c
धृतराष्ट्र उवाच । 033
योऽजयत्सर्वकाम्भोजानम्बष्ठान्कैकयैः सह । 033a
गान्धारांश्च विदेहांश्च जित्वा कार्यार्थमाहवे ॥ 033c
दुर्योधनस्य वृद्ध्यर्थं योऽजयत्पृथिवीं प्रभुः । 034a
स जितः पाण्डवैः शूरैः समरे बाहुशालिभिः ॥ 034c
तस्मिन्हते महेष्वासे कर्णे युधि किरीटिना । 035a
के वीराः पर्यतिष्ठन्त तन्ममाचक्ष्व सञ्जय ॥ 035c
कच्चिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे । 036a
उक्तं त्वया पुरा तात यथा वीरो निपातितः ॥ 036c
भीष्ममप्रतियुध्यन्तं शिखण्डी सायकोत्तमैः । 037a
पातयामास समरे सर्वशस्त्रभृतां वरम् ॥ 037c
तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि । 038a
'धर्मराजवचः श्रुत्वा अश्वत्थामा हतस्त्विति' ॥ 038c
युक्तयोगो महेष्वासः शरैर्बहुभिराचितः । 039a
निहतः खड्गमुद्यम्य धृष्टद्युम्नेन सञ्जय ॥ 039c
अन्तरेण हतावेतौ छलेन च विशेषतः । 040a
अश्रौषमहमेतद्वै भीष्मद्रोणौ निपातितौ ॥ 040c
भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम् । 041a
न्यायेन युध्यन्समरे तद्वै सत्यं ब्रवीमि ते ॥ 041c
कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च । 042a
कथमिन्द्रोपमं वीरं मृत्युर्युद्धे समस्पृशत् ॥ 042c
यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम् । 043a
प्रायच्छद्द्विषतां हन्त्रीं कुण्डलाभ्यां पुरन्दरः ॥ 043c
यस्य सर्पमुखो दिव्यः शरः काञ्चनभूषणः । 044a
अशेत निशितः पत्री समरेष्वरिसूदनः ॥ 044c
भीष्मद्रोणमुखान्वीरान्योऽवमत्य महारथान् । 045a
जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत ॥ 045c
यश्च द्रोणमुखान्दृष्ट्वा विमुखानर्दिताञ्शरैः । 046a
सौभद्रस्य महाबाहुर्व्यधमत्कार्मुकं शितैः ॥ 046c
यश्च नागायुतप्राणं वज्ररंहसमच्युतम् । 047a
विरथं सहसा कृत्वा भीमसेनमपाहसत् ॥ 047c
सहदेवं च निर्जित्य शरैः सन्नतपर्वभिः । 048a
कृपया विरथं कृत्वा नाहनद्धर्मचिन्तया ॥ 048c
यश्च मायासहस्राणि विकुर्वाणं जयैषिणम् । 049a
घटोत्कचं राक्षसेन्द्रं शक्रशक्त्या निजघ्निवान् ॥ 049c
एतांश्च दिवसान्यस्य युद्धे भीतो धनञ्जयः । 050a
नागमद्द्वैरथं वीरः स कथं निहतो रणे ॥ 050c
[संशप्तकानां योधा ये आह्वयन्त सदाऽन्यतः । 051a
एतान्हत्वा हनिष्यामि पश्चाद्वैकर्तनं रणे ॥ 051c
इति व्यपदिशन्पार्थो वर्जयन्सूतजं रणे । 052a
स कथं निहतो वीरः पार्थेन परवीरहा ॥] 052c
रथभङ्गो न चेत्तस्य धनुर्वा न व्यशीर्यत । 053a
न चेदस्त्राणि नष्टानि स कथं निहतः परैः ॥ 053c
को हि शक्तो रणे कर्णं विधुन्वानं महद्धनुः । 054a
विमुञ्चन्तं शरान्घोरान्दिव्यान्यस्त्राणि चाहवे । 054c
जेतुं पुरुषशार्दूलं शार्दूलमिव वेगिनम् ॥ 054e
ध्रुवं तस्य धनुश्छिन्नं रथो वाऽपि महीं गतः । 055a
अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम् । 055c
न ह्यन्यदपि पश्यामि कारणं तस्य नाशने ॥ 055e
न हन्मि फल्गुनं यावत्तावत्पादौ न धावये । 056a
इति यस्य महाघोरं व्रतमासीन्महात्मनः ॥ 056c
यस्य भीतो रणेनिद्रां धर्मराजो युधिष्ठिरः । 057a
त्रयोदशसमा नित्यं नाभजत्पुरुषर्षभः ॥ 057c
यस्य वीर्यवतो वीर्यमुपाश्रित्य महात्मनः । 058a
मम पुत्रः सभां भार्यां पाण्डूनां नीतवान्बलात् ॥ 058c
तत्रापि च सभामध्ये पाण्डवानां च पश्यताम् । 059a
दासभार्येति पाञ्चालीमब्रवीत्कुरुसन्निधौ ॥ 059c
[न सन्ति तपयः कृष्णे सर्वे षण्डतिलैः समाः । 060a
उपतिष्ठस्व भर्तारमन्यं वा वरवर्णिनि ॥ 060c
इत्येवं यः पुरा वाचो रूक्षाः संश्रावयन्रुषा । 061a
सभायां सूतजः कृष्णां स कथं निहतः परैः ॥ 061c
यदि भीष्मो रणश्लाघी द्रोणो वा युधि दुर्मदः । 062a
न हनिष्यति कौन्तेयान्पक्षपातात्सुयोधन । 062c
सर्वानेव हनिष्यामि व्येतु ते मानसो ज्वरः ॥ 062e
किं करिष्यति गाण्डीवमक्षय्यौ च महेषुधी । 063a
स्निग्धचन्दनदिग्धस्य मच्छरस्याभिधावतः । 063c
स नूनमृषभस्कन्धो ह्यर्जुनेन कथं हतः ॥] 063ec
यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन् । 064a
अपतिर्ह्यसि कृष्णेति ब्रुवन्पार्थानवैक्षत ॥ 064c
यस्य नासीद्भयं पार्थात्सपुत्रात्सजनार्दनात् । 065a
स्वबाहुबलमाश्रित्य मुहूर्तमपि सञ्जय ॥ 065c
तस्य नाऽहं वधं मन्ये देवैरपि सवासवैः । 066a
प्रतीपमभिधावद्भिः किं पुनस्तात पाण्डवैः ॥ 066c
न हि ज्यां संस्पृशानस्य तलत्रे वाऽपि गृह्णतः । 067a
पुमानाधिरथेः स्थातुं कश्चित्प्रमुखतोऽर्हति ॥ 067c
अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः । 068a
न वधः पुरुषेन्द्रस्य संयुगेष्वपलायिनः ॥ 068c
येन मन्दः सहायेन भ्रात्रा दुःशासनेन च । 069a
वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानमरोचत ॥ 069c
स नूनं वृषभस्कन्धं कर्णं दृष्ट्वा निपातितम् । 070a
दुःशासनं च निहतं मन्ये शोचति पुत्रकः ॥ 070c
हतं वैकर्तनं दृष्ट्वा द्वैरथे सव्यसाचिना । 071a
जयतः पाण्डवान्दृष्ट्वा किंस्विद्दुर्योधनोऽब्रवीत् ॥ 071c
[दुर्मर्षणं हतं दृष्ट्वा वृषसेनं च संयुगे । 072a
प्रभग्रं च बलं दृष्ट्वा वध्यमानं महारथैः ॥ 072c
पराङ्मुखांश्च राज्ञस्तु पलायनपरायणान् । 073a
विद्रुतान्रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः ॥ 073c
अनेयश्चाभिमानी च दुर्बुद्धिरजितेन्द्रियः । 074a
हतोत्साहं बलं दृष्ट्वा किंस्विदुर्योधनोऽब्रवीत् ॥ 074c
स्वयं वैरं महत्कृत्वा वार्यमाणः सुहृद्गणैः । 075a
प्रधने हतभूयिष्ठैः किंस्विद्दुर्योधनोऽब्रवीत् ॥ 075c
भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे । 076a
रुधिरे पीयमाने च किंस्विद्द्रुर्योधनोऽब्रवीत् ॥] 076c
सह गान्धारराजेन सभायां यदभाषत । 077a
कर्णोऽर्जुनं रणे हन्ता हते तस्मिन्किमब्रवीत् ॥ 077c
द्यूतं कृत्वा पुरा हृष्ठो वञ्चयित्वा च पाण्डवान् । 078a
शकुनिः सौबलस्तात हते कर्णे किमब्रवीत् ॥ 078c
कृतवर्मा महेष्वासः सात्वतानां महारथः । 079a
हतं वैकर्तनं दृष्ट्वा हार्दिक्यः किमभाषत ॥ 079c
ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते । 080a
धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः ॥ 080c
युवा रूपेण सम्पन्नो दर्शनीयो महायशाः । 081a
अश्वत्थामा हते कर्णे किमभाषत सञ्जय ॥ 081c
आचार्यो यो धनुर्वेदे गौतमो रथसत्तमः । 082a
कृपः शारद्वतस्तात हते कर्णे किमब्रवीत् ॥ 082c
मद्रराजो महेष्वासः शल्यः समितिशोभनः । 083a
दृष्ट्वा विनिहतं कर्णं सारथ्ये रथिनां वरः । 083c
किमभाषत सौवीरो मद्राणामधिपो बली ॥ 083e
दृष्ट्वा विनिहतं सर्वे योधा वारणदुर्जयाः । 084a
ये च केचन राजानः पृथिव्यां योद्धुमागताः । 084c
वैकर्तनं हतं दृष्टवा कान्यभाषन्त सञ्जय ॥ 084e
द्रोणे तु निहते वीरे रथव्याघ्रे नरर्षभे । 085a
के वा मुखमनीकानामासन्सञ्जय भागशः ॥ 085c
मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः । 086a
वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व सञ्जय ॥ 086c
केऽरक्षन्दक्षिणं चक्रं सूतपुत्रस्य युध्यतः । 087a
वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः ॥ 087c
के कर्णं न जहुः शूराः के क्षुद्राः प्राद्रवंस्ततः । 088a
कथं च वः समेतानां हतः कर्णो महारथः ॥ 088c
पाण्डवाश्च स्वयं शूराः प्रत्युदीयुर्महारथाः । 089a
सृजन्तः शरवर्षाणि वारिधारा इवाम्बुदाः ॥ 089c
स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा । 090a
व्यर्थः कथं समभवत्तन्ममाचक्ष्व सञ्जय ॥ 090c
मामकस्यास्य सैन्यस्य हतोत्सेधस्य सञ्जय । 091a
अवशेषं न पश्यामि ककुदे मृदिते सति ॥ 091c
तौ हि वीरौ महेष्वासौ मदर्थे त्यक्तजीवितौ । 092a
भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे ॥ 092c
पुनः पुनर्न मृष्यामि वधं कर्णस्य पाण्डवैः । 093a
यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम् ॥ 093c
द्रोणे हते च यद्वृत्तं कौरवाणां परैः सह । 094a
सङ्ग्रामे नरवीराणां तन्ममाचक्ष्व सञ्जय ॥ 094c
यथा कर्णश्च कौन्तेयैः सह युद्धमयोजयत् । 095a
तथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम् ॥ ॥ 095c
इति श्रीमन्महाभारते कर्णपर्वणि षष्ठोऽध्यायः ॥ 6 ॥
8-6-37 अप्रतियुध्यन्तं शिखण्डिना प्रतियुद्धमनङ्गीकुर्वाणम् ॥ 8-6-38 द्रौपदिना द्रुपदपुत्रेण धृष्टद्युम्नेन ॥ 8-6-40 फलेन च विशेषतः इति क.ङ.पाठः । बलेन च विशेषतः इति ख. पाठः ॥ 8-6-43 कुण्डलाभ्यां सकवचाभ्यां । तादर्थ्ये चतुर्थी ॥ 8-6-44 अशेत निहतः पत्री समरेष्वरिसूदनः इति ख.पाठः । अशेत निहतः पत्री चन्दनेष्वरिसूदनः इति झ.पाठः ॥ 8-6-53 रथसङ्गो न चेत्तस्य इति क.ड.पाठः । अहङ्कारो न चेत्तस्य इति ख. पाठः ॥ 8-6-66 प्रातिभठ्येन अभिधावद्भिः सर्वदिग्भ्यः समागतैः ॥ 8-6-67 आधिरथेः अधिरथपुत्रस्य ॥ 8-6-68 सोमसूर्यसाहचर्यात्प्रकर्षेण भातीति योगाच्च प्रभो वह्निस्तेषां त्रयाणामंशुभिर्मयूखैः ॥ 8-6-69 मन्दो दुर्योधनः ॥ 8-6-74 अनेयः अशिक्षणीयः । यतोऽभिमानी विद्वत्त्वाभिमानी । एतएव दुर्बुद्धिः हितमजानन् ॥ 8-6-75 प्रधने रणे ॥ 8-6-84 कानि वाक्यानीति शेषः ॥ 8-6-89 प्रत्युदीयुः कथमिति शेषः ॥ 8-6-91 हतोत्सेधस्य विनष्टोत्कर्षस्य ॥