अध्यायः 005
धृतराष्ट्रेण कर्णगुणानुवर्णनपूर्वकं शोचनम् ॥ 1 ॥
जनमेजय उवाच । 001
श्रुत्वा कर्णं हतं युद्वे पुत्रांश्चैव पलायिनः । 001a
नरेन्द्रः किञ्चिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत् ॥ 001c
प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत् । 002a
तस्मिन्यदुक्तवान्काले तन्ममाचक्ष्व पृच्छतः ॥ 002c
वैशम्पायन उवाच । 003
श्रुत्वा कर्णस्य निधनमश्रद्धेयमिवाद्भुतम् । 003a
भूतसम्मोहनं भीमं मेरोः संसर्पणं यथा ॥ 003c
चित्तमोहमिवायुक्तं भार्गवस्य महामतेः । 004a
पराजयमिवेन्द्रस्य द्विषद्भ्यो भीमकर्मणः ॥ 004c
दिवः प्रपतनं भानोरुर्व्यामिव महाद्युतेः । 005a
संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः ॥ 005c
महीवियद्दिगम्बूनां सर्वनाशमिवाद्भुतम् । 006a
कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः ॥ 006c
सञ्चिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः । 007a
नेदमस्तीति सञ्चिन्त्य कर्णस्य समरे वधम् ॥ 007c
प्राणिनामेवमात्मत्वात्स्यादपीति विचार्य च । 008a
शोकाग्निना दह्यमानो धम्यमान इवाशये ॥ 008c
विस्रस्ताङ्गः श्वसन्दीनो हाहेत्युक्त्वा सुदुःखितः । 009a
विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः ॥ 009c
धृतराष्ट्र उवाच । 010
सञ्जयाधिरथिर्वीरः सिंहद्विरदविक्रमः । 010a
वृषभप्रतिमस्कन्धो वृषभाक्षगतिस्वरः ॥ 010c
वृषभो वृषभस्येव यो युद्धे न निवर्तते । 011a
शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा ॥ 011c
यस्य ज्यातलशब्देन शरवृष्टिरवेण च । 012a
रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे ॥ 012c
यमाश्रित्य महाबाहुं द्विषत्सङ्घघ्नमच्युतम् । 013a
दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महारथैः ॥ 013c
स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे । 014a
निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः ॥ 014c
यो नामन्यत वै नित्यमच्युतं च धनञ्जयम् । 015a
न वृष्णीन्सहितानन्यान्स्वबाहुबलदर्पितः ॥ 015c
शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ । 016a
अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे ॥ 016c
इति यः सततं मन्दमवोचल्लोभमोहितम् । 017a
दुर्योधनमवाचीनं राज्यकामुकमातुरम् ॥ 017c
योऽजयत्सर्वकाम्भोजानावन्त्यान्केकयैः सह । 018a
गान्धारान्मद्रकान्मात्स्यांस्त्रिगर्तांस्तङ्कणाञ्शकान् ॥ 018c
पाञ्चालांश्च विदेहांश्च कुलिन्दान्काशिकोसलान् । 019a
सुह्मानङ्गांश्च वङ्गांश्च निषादान्पुण्ड्रकीकटान् ॥ 019c
वत्सान्कलिङ्गान्दरदानश्मकानृषिकानपि । 020a
'शबरान्हारहूणांश्च प्रघूणान्सरलानपि ॥ 020c
म्लेच्छराष्ट्राधिपांश्चैव दुर्गानाटविकांस्तथा' । 021a
जित्वैतान्समरे वीरः प्रदीप्तैः कङ्कपत्रिभिः ॥ 021c
करमाहारयामास जित्वा सर्वानरींस्तथा । 022a
दुर्योधनस्य वृद्ध्यर्थं राधेयो रथिनां वरः । 022c
दिव्यास्त्रविमन्हातेजाः कर्णो वैकर्तनो वृषः ॥ 022e
सेनागोपश्च स कथं शत्रुभिः परमास्त्रवित् । 023a
घातितः पाण्डवैः शूरैः समरे वीर्यशालिभिः ॥ 023c
वृषो महेन्द्रो देवेषु वृषः कर्णो नरेष्वपि । 024a
तृतीयमन्यं लोकेषु वृषं नैवानुशुश्रुम ॥ 024c
उच्चैः श्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः । 025a
वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः ॥ 025c
योऽजितः पार्थिवैः शूरैः समर्थैर्वीर्यशालिभिः । 026a
दुर्योधनस्य वृद्ध्यर्थं कृत्स्नामुर्वीमथाजयत् ॥ 026c
यं लब्ध्वा मागधो राजा सान्त्वमानोऽथ सौहृदैः । 027a
अरौत्सीत्पार्थिवं क्षत्रमृते यादवकौरवान् ॥ 027c
तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना । 028a
शोकार्णवे निमग्नोऽहं भिन्ना नौरिव सागरे ॥ 028c
तं वृषं निहतं श्रुत्वा द्वैरथे रथिनां वरम् । 029a
शोकार्णवे निमग्नोऽहमप्लवः सागरे यथा ॥ 029c
ईदृशैर्यद्यहं दुःखैर्न विनश्यामि सञ्जय । 030a
वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम् ॥ 030c
ज्ञातिसम्बन्धिमित्राणामिमं श्रुत्वा पराभवम् । 031a
को मदन्यः पुमाल्ँलोके न जह्यात्सूत जीवितम् ॥ 031c
विषमग्निं प्रपातं च पर्वताग्रादहं वृणे । 032a
'महाप्रस्थानगमनं जलं प्रायोपवेशनम्' । 032c
न हि शक्ष्यामि दुःखानि सोढुं कष्टानि सञ्जय ॥ ॥ 032e
इति श्रीमन्महाभारते कर्णपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥
8-5-1 पुत्रांश्चैव निपातितान् इति झ.पाठः ॥ 8-5-4 भार्गवस्य रामस्य शुक्रस्य वा ॥ 8-5-7 कर्णस्य वधं सञ्चिन्त्य मनस्यालोच्य इदं कृत्स्नं जगत्स्वसैन्यं वा नास्तीति सञ्चिन्त्य निश्चित्य विललापेति तृतीयेन सम्बन्धः ॥ 8-5-17 अवाचीनं चिन्तयाऽधोमुखम् ॥ 8-5-24 जलवर्षित्वाद्देवेषु महेन्द्रो वृषः । धनवर्षित्वान्मनुष्येषु कर्णोवृषः । तृतीयमेवमभितो वृष्टिकर्तारं वृषम् ॥ 8-5-29 अप्लवः नौकाहीनः ॥