अध्यायः 004

सञ्जयेन धृतराष्ट्रम्प्रति हतावशिष्टानां नामकथनम् ॥ 1 ॥

धृतराष्ट्र उवाच । 001
मामकस्यास्य सैन्यस्य हृतोत्सेकस्य सञ्जय । 001a
अवशेषं न पश्यामि ककुदे मृदिते सति ॥ 001c
तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ । 002a
भीष्मद्रोणौ हतौ श्रुत्वा कोन्वर्थो जीवितेन मे ॥ 002c
न च मृष्यामि राधेयं हतमाहवशोभिनम् । 003a
यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम् ॥ 003c
हतप्रवरसैन्यं मे यथा शंससि सञ्जय । 004a
अहतानपि मे शंस येऽत्र जीवन्ति केचन ॥ 004c
एतेषु हि मृतेष्वद्य ये त्वया परिकीर्तिताः । 005a
येऽपि जीवन्ति ते सर्वे मृता इति मतिर्मम ॥ 005c
सञ्जय उवाच । 006
यस्मिन्महास्त्राणि समर्पितानि चित्राणि शुभ्राणि चतुर्विधानि । 006a
दिव्यानि राजन्विहितानि चैव द्रोणेन वीरे द्विजसत्तमेन ॥ 006c
महारथः कृतिमान्क्षिप्रहस्तो दृढायुधो दृढमुष्टिर्दृढेषुः । 007a
स वीर्यवान्द्रोणपुत्रस्तरस्वी व्यवस्थितो योद्वुकामस्त्वदर्थे ॥ 007c
आनर्तवासी हृदिकात्मजोऽसौ महारथः सात्वतानां वरिष्ठः । 008a
स्वयं भोजः कृतवर्मा कृतास्त्रो व्यवस्थितो योद्वुकामस्त्वदर्थे ॥ 008c
आर्तायनिः समरे दुष्प्रकम्प्यः सेनाग्रणीः प्रथमस्तावकानाम् । 009a
यः स्वस्रीयान्पाण्डवेयान्विसृज्य सत्यां वाचं स्वां चिकीर्षुस्तरस्वी ॥ 009c
तजोवधं सूतपुत्रस्य सङ्ख्ये प्रतिश्रुत्याजातशत्रोः पुरस्तात् । 010a
दुराधर्षः शक्रसमानवीर्यः शल्यः स्थितो योद्वुकामस्त्वदर्थे ॥ 010c
शारद्वतो गौतमश्चापि राजन्महाबाहुर्बहुचित्रास्त्रयोधी । 011a
धनुश्चित्रं सुमहद्भारसाहं व्यवस्थितो योद्वुकामः प्रगृह्य ॥ 011c
गान्धारराजः ससुतश्च राजन्दुर्द्यूतदेवी कलहप्रियश्च । 012a
गान्धारमुख्यैर्यवनैश्च राजन्व्यवस्थितो योद्वुकामस्त्वदर्थे ॥ 012c
महारथः केकयराजपुत्रः सदश्वयुक्तं च पताकिनं च । 013a
रथं समारुह्य कुरुप्रवीर व्यवस्थितो योद्वुकामस्त्वदर्थे ॥ 013c
तथा सुतस्ते ज्वलनार्कवर्णं रथं समास्थाय कुरुप्रवीरः । 014a
व्यवस्थितः पुरुमित्रो नरेन्द्र व्यभ्रे सूर्यो भ्राजमानो यथा खे ॥ 014c
दुर्योधनो नागकुलस्य मध्ये व्यवस्थितः सिंह इवाबभासे । 015a
रथेन जाम्बूनदभूषणेन व्यवस्थितः समरे योत्स्यमानः ॥ 015c
स राजमध्ये पुरुषप्रवीरो रराज जाम्बूनदचित्रवर्मा । 016a
पद्मप्रभो वह्निरिवाल्पधूमो मेघान्तरे सूर्य इव प्रकाशः ॥ 016c
तथा सुषेणोऽप्यसिचर्मपाणिस्तवात्मजः सत्यसेनश्च वीरः । 017a
व्यवस्थितौ चित्रसेनेन सार्धं हृष्टात्मानौ समरे योद्धकामौ ॥ 017c
ह्रीनिषेवो भारतराजपुत्र उग्रायुधः श्रुतवर्मा जयश्च । 018a
शलश्च सत्यव्रतदुःशलौ च व्यवस्थिताः सहसैन्या नराग्र्याः ॥ 018c
कैतव्यानामधिपः शूरमानी रणेरणे शत्रुहा राजपुत्रः । 019a
रथी हयी नागपत्तिप्रयायी व्यवस्थितो योद्धुकामस्त्वदर्थे ॥ 019c
वीरः श्रुतायुश्च धृतायुधश्च चित्राङ्गदश्चित्रसेनश्च वीरः । 020a
व्यवस्थिता योद्धुकामा नराग्र्याः प्रहारिणो मानिनः सत्यसन्धाः ॥ 020c
कर्णात्मजः सत्यसन्धो महात्मा व्यवस्थितः समरे योद्वुकामः ॥ 021ac
अथापरौ कर्णसुतौ वरास्त्रौ व्यवस्थितौ लघुहस्तौ नरेन्द्र । 022a
बले महत्युल्बणसत्ववीर्यौ समास्थितौ योद्धुकामौ त्वदर्थे ॥ 022c
एतैश्च मुख्यैरपरैश्च राजन्योधप्रवीरैरमितप्रभावैः । 023a
व्यवस्थितो नागकुलस्य मध्ये यथा महेन्द्रः कुरुराजो जयाय ॥ 023c
धृतराष्ट्र उवाच । 024
आख्याता जीवमाना ये परे सैन्या यथायथम् । 024a
इतीदमवगच्छामि व्यक्तमर्थाभिपत्तितः ॥ 024c
वैशम्पायन उवाच । 025
एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः । 025a
हतप्रवीरं भूयिष्ठं किञ्चिच्छेषं स्वकं बलम् । 025c
श्रुत्वा व्यामोहमागच्छच्छोकव्याकुलितेन्द्रियः ॥ 025e
मुह्यमानोऽब्रवीच्चापि मुहूर्तं तिष्ठ सञ्जय । 026a
व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम् ॥ 026c
मनो मुह्यति चाङ्गानि न च शक्नोमि धावितुम् । 027a
इत्येवमुक्त्वा वचनं धृतराष्ट्रोऽम्बिकासुतः । 027c
भ्रान्तचित्तस्ततः सोऽथ बभूव जगतीपतिः ॥ ॥ 027e

इति श्रीमन्महाभारते कर्णपर्वणि चतुर्थोऽध्यायः ॥ 4001a श् ॥

8-4-1 ककुदे प्रधानपुरुषसमूहे भीष्मद्रोणकर्णरूपे मृदितेनाशिते सति ॥ 8-4-5 मृताः मृतप्रायाः ॥ 8-4-6 चतुर्विधानि दृढदूरसूक्ष्मशब्दवेधीनि । विहितानि धनुर्वेदोदितानि ॥ 8-4-7 कृतिमान् अवन्ध्ययत्नः ॥ 8-4-9 आर्तायनिः शल्यः । स्वस्रीयान् भागिनेयान् ॥ 8-4-19 नागपत्तिप्रयायी नागैः पत्तिभिश्च प्रयातुं शीलमस्य । नागरथप्रयायीति पाठान्तरम् ॥ 8-4-24 सैन्याः सेनामर्हन्ति ते राजानः । यथायथं पक्षद्वयेऽपि जीवमाना आख्याताः । इदं भाविजयपराजयादिकम् । इति अनेन पक्षद्वयबलतोलनेन व्यक्तं स्पष्टमभिगच्छामि जानामि । अर्थाभिपत्तितः फलोपपत्तितः । तेन जयो मदीयानां नास्तीति निश्चिनोमीति भावः । आख्याता वै जीवमानाः परेभ्योऽन्ये यथा ध्रुवम् । इतीदमवगच्छामि व्यक्तमर्थो व्यवस्थितः । इति क.ख.ड.पाठः ॥