अध्यायः 003
सञ्जयेन धृतराष्ट्रम्पति युद्धे निहतानां परेषां नामकथनम् ॥ 1 ॥
धृतराष्ट्र उवाच । 001
आख्याता मामकास्तात निहता युधि पाण्डवैः । 001a
हतांश्च पाण्डवेयानां मामकैर्ब्रूहि सञ्जय ॥ 001c
सञ्जय उवाच । 002
कृतिनो युधि विक्रान्ता महासत्वा महाबलाः । 002a
सानुबन्धाः सहामात्या गाङ्गेयेन निपातिताः ॥ 002c
नारायणा वल्लवाश्च रामाश्च शतशो परे । 003a
अनुरक्ताश्च वीरेण भीष्मेण युधि पातिताः ॥ 003c
समः किरीटिना सङ्ख्ये वीर्येण च बलेन च । 004a
सत्यजित्सत्यसन्धेन द्रोणेन निहतो युधि ॥ 004c
पाञ्चालानां महेष्वासाः सर्वे युद्वविशारदाः । 005a
द्रोणेन सह सङ्गम्य गता वैवस्वतक्षयम् ॥ 005c
तथा विराटद्रुपदौ वृद्वौ सहसुतौ नृपौ । 006a
पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे ॥ 006c
यो बाल एव समरे सम्मितः सव्यसाचिना । 007a
केशवेन च दुर्धर्षो बलदेवेन चाभिभूः ॥ 007c
परेषां कदनं कृत्वा महद्रणविशारदः । 008a
परिवार्य मदामात्रैः षड्भिः परमकै रथैः । 008c
अशक्नुवद्भिर्बीभत्सुमभिमन्युर्निपातितः ॥ 008e
कृतं तं विरथं वीरं क्षत्रधर्मे व्यवस्थितम् । 009a
दौःशासनिर्महाराज सौभद्रं हतवान्रणे ॥ 009c
पटच्चरनिहन्ता च महत्या सेनया वृतः । 010a
अम्बष्ठस्य सुतः श्रीमान्मित्रहेतोः पराक्रमन् ॥ 010c
आसाद्य लक्ष्मणं वीरं दुर्योधनसुतं रणे । 011a
सुमहत्कदनं कृत्वा गतो वैवस्वतक्षयम् ॥ 011c
बृहन्तः सुमहेष्वासः कृतास्त्रो युद्वदुर्मदः । 012a
दुःशासनेन विक्रम्य गमितो यमसादनम् ॥ 012c
मणिमान्दण्डधारश्च राजानौ युद्धदुर्मदौ । 013a
पराक्रमन्तौ मित्रार्थे द्रोणेन युधि पातितौ ॥ 013c
अंशुमान्भोजराजस्तु सहसैन्यो महारथः । 014a
भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥ 014c
सामुद्रश्चित्रसेनश्च सह पुत्रेण भारत । 015a
समुद्रसेनेन बलाद्गमितो यमसादनम् ॥ 015c
अनूपवासी नीलश्च व्याघ्रदत्तश्च वीर्यवान् । 016a
अश्वत्थाम्ना विकर्णेन गमितौ यमसादनम् ॥ 016c
चित्रायुधश्चित्रयोधी कृत्वा च कदनं महत् । 017a
चित्रमार्गेण विक्रम्य विकर्णेन हतो मृधे । 017c
वृकोदरसमो युद्धे वृतः केकयजो युधि । 018a
केकयेन च विक्रम्य भ्राता भ्रात्रा निपातितः ॥ 018c
जनमेजयो गदायोधी पार्वतीयः प्रतापवान् । 019a
दुर्मुखेन महाराज तव पुत्रेण पातितः ॥ 019c
रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाविव । 020a
द्रोणेन युगपद्राजन्दिवं सम्प्रापितौ शरैः ॥ 020c
नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशाम्पते । 021a
कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ॥ 021c
पुरुजित्कुन्तिभोजश्च मातुलौ सव्यसाचिनः । 022a
सङ्ग्रामनिर्जिताल्ँलोकान्गमितौ द्रोणसायकैः ॥ 022c
अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः । 023a
वसुदानस्य पुत्रेण त्याजितो देहमाहवे ॥ 023c
अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान् । 024a
निहत्य शतशः शूरानस्मदीयैर्निपातिताः ॥ 024c
मित्रवर्मा च पाञ्चाल्यः क्षत्रधर्मा च भारत । 025a
द्रोणेन परमेष्वासौ गमितौ यमसादनम् ॥ 025c
शिखण्डितनयो युद्धे क्षत्रदेवो युधाम्पतिः । 026a
लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत ॥ 026c
सुचित्रश्चित्रवर्मा च पितापुत्रौ महारथौ । 027a
प्रचरन्तौ महावीरौ द्रोणेन निहतौ रणे ॥ 027c
वार्धक्षेमिर्महाराज समुद्र इव पर्वणि । 028a
आयुधक्षयमासाद्य प्रशान्तिं परमां गतः ॥ 028c
सेनाबिन्दुसुतः श्रेष्ठः शास्त्रवान्प्रहरन्युधि । 029a
बाह्लिकेन महाराज कौरवेन्द्रेण पातितः ॥ 029c
धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः । 030a
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥ 030c
तथा सत्यधृतिर्वीरः कृत्वा कदनमाहवे । 031a
पाण्डवार्थे पराक्रान्तो गमितो यमसादनम् ॥ 031c
पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपतिः । 032a
निहत्य शात्रवान्सङ्ख्ये द्रोणेन निहतो युधि ॥ 032c
तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान् । 033a
सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः ॥ 033c
'मात्स्यादवरजः श्रीमाञ्शतानीको निपातितः । 034a
श्रेणिमांश्च महाराज युध्यमानः पराक्रमी । 034c
कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ॥ 034e
तथैव युधि विक्रान्तो मागधः परमास्त्रवित् । 035a
भीष्मेण निहतो राजञ्शेतेऽद्य परवीरहा ॥ 035c
विराटपुत्रः शङ्खस्तु उत्तरश्च महारथः । 036a
कुर्वन्तौ सुमहत्कर्म गतौ वैवस्वतक्षयम् ॥ 036c
वसुदानश्च कदनं कुर्वाणोऽतीव संयुगे । 037a
भारद्वाजेन विक्रम्य गमितो यमसादनम् ॥ 037c
एते चान्ये च बहवः पाण्डवानां महारथाः । 038a
हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि ॥ ॥ 038c
इति श्रीमन्महाभारते कर्णपर्वणि तृतीयोऽध्यायः ॥ 3 ॥
8-3-20 रोचमानौ एकानामानौ भ्रातरौ ॥