श्रीः अध्यायः 002

धृतराष्ट्रेण निजसेनायां निहतानां नामनिवेदनं चोदितेन सञ्जयेन तत्कथनम् ॥ 1 ॥

'जनमेजय उवाच । 001
तच्छ्रुत्वा कर्णहननं पुत्रांश्चैव पलायितान् । 001a
धृतराष्ट्रो नृपश्चैव द्विजश्रेष्ठ किमब्रवीत् ॥ 001c
प्राप्तवान्व्यसनं घोरं पुत्रव्यसनजं महत् । 002a
काले यदुक्तवांस्तस्मिंस्तन्ममाचक्ष्व तत्त्वतः' ॥ 002c
वैशम्पायन उवाच । 003
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः । 003a
अब्रवीत्सञ्जयं सूतं शोकसंविग्नमानसः ॥ 003c
दुष्प्रणीतेन मे तात पुत्रस्यादीर्घजीविनः । 004a
हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति ॥ 004c
तस्य मे संशयं छिन्धि दुःखपारं तितीर्षतः । 005a
कुरूणां सृञ्जयानां च के च जीवन्ति के मृताः ॥ 005c
सञ्जय उवाच । 006
हतः शान्तनवो राजन्दुराधर्षः प्रतापवान् । 006a
हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः ॥ 006c
तथा द्रोणो महेष्वासः पाञ्चालानां रथव्रजान् । 007a
निहत्य युधि दुर्धर्षः पञ्चाद्रुक्मरथो हतः ॥ 007c
हतशेषस्य भीष्मेण द्रोणेन च महात्मना । 008a
अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः ॥ 008c
विविंशतिर्महाराज राजपुत्रो महाबलः । 009a
आनर्तयोधाञ्शतशो निहत्य निहतो रणे ॥ 009c
तथा पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन् । 010a
क्षीणबाणो हतः शूरः स्थितो ह्यभिमुखः परैः ॥ 010c
घोररूपान्परिक्लेशान्दुर्योधनकृतान्बहून् । 011a
प्रतिज्ञां स्मरता तेन भीमसेनेन पातितः ॥ 011c
विन्दानुविन्दावावन्त्यौ राजपुत्रौ महारथौ । 012a
कृत्वा त्वसुकरं कर्म गतौ वैवस्वतक्षयम् ॥ 012c
सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यानिह । 013a
यस्य तिष्ठन्ति वचने यः स्थितस्तव शासने ॥ 013c
अक्षौहिणीर्दशैकां च विनिर्जित्य शितैः शरैः । 014a
सोऽर्जुनेन हतो राजन्महावीर्यो जयद्रथः ॥ 014c
तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः । 015a
वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः ॥ 015c
तथा दौःशासनिः शूरो बाहुशाली रणोत्कटः । 016a
द्रौपदेयेन सङ्गम्य गमितो यमसादनम् ॥ 016c
किरातानामधिपतिः सागरानूपवासिनाम् । 017a
देवराजस्य धर्मात्मा प्रियो बहुमतः सखा ॥ 017c
भगदत्तो महीपालः क्षत्रधर्मरतः सदा । 018a
धनञ्जयेन विक्रम्य गमितो यमसादनम् ॥ 018c
तथा कौरवदायादो न्यस्तशस्त्रो महायशाः । 019a
हतो भूरिश्रवा राजञ्शूरः सात्यकिना युधि ॥ 019c
श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धुरन्धरः । 020a
चरन्नभीतवत्सङ्ख्ये निहतः सव्यसाचिना ॥ 020c
तव पुत्रः सदामर्षी कृतास्त्रो युद्धदुर्मदः । 021a
दुःशासनो महाराज भीमसेनेन पातितः ॥ 021c
यस्य राजन्गजानीकं बहुसाहस्रमद्भुतम् । 022a
सुदक्षिणः स सङ्ग्रामे निहतः सव्यसाचिना ॥ 022c
कोसलानामधिपतिर्हत्वा बहुमतान्परान् । 023a
सौभद्रेणेह विक्रम्य गमितो यमसादनम् ॥ 023c
बहुशो योधयित्वा तु भीमसेनं महारथम् । 024a
चित्रसेनस्तव सुतो भीमसेनेन पातितः ॥ 024c
मद्रराजात्मजः शूरः परेषां भयवर्धनः । 025a
असिचर्मधरः श्रीमान्सौभद्रेण निपातितः ॥ 025c
समः कर्णस्य समरे यः स कर्णस्य पश्यतः । 026a
वृषसेनो महातेजाः शीघ्रास्त्रो दृढविक्रमः ॥ 026c
अभिमन्योर्वधं स्मृत्वा प्रतिज्ञामपि चात्मनः । 027a
धनञ्जयेन विक्रम्य गमितो यमसादनम् ॥ 027c
नित्यं प्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः । 028a
विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः ॥ 028c
शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष । 029a
हतो रुक्मरथो राजञ्श्यालो मातुलजो युधि ॥ 029c
राजा भागीरथो वृद्धो बृहत्क्षत्रश्च केकयः । 030a
पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ ॥ 030c
भगदत्तसुतो राजन्कृतप्रज्ञो महाबलः । 031a
श्येनवच्चरता सङ्ख्ये नकुलेन निपातितः ॥ 031c
पितामहस्तव तथा बाह्लीकः सह बाह्लिकैः । 032a
निहतो भीमसेनेन महाबालपराक्रमः ॥ 032c
जयत्सेनस्तथा राजञ्जारासन्धिर्महाबलः । 033a
मागधो निहतः सङ्ख्ये सौभद्रेण महात्मना ॥ 033c
पुत्रस्ते दुर्मुखो राजन्दुःसहश्च महारथः । 034a
गदया भीमसेनेन निहतौ शूरमानिनौ ॥ 034c
दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः । 035a
कृत्वा त्वसुकरं कर्म गता वैवस्वतक्षयम् ॥ 035c
उभौ कलिङ्गवृषकौ भ्रातरौ युद्धदुर्मदौ । 036a
कृत्वा चासुकरं कर्म गतौ वैवस्वतक्षयम् ॥ 036c
सचिवो वृषपर्वा ते शूरः परमवीर्यवान् । 037a
भीमसेनेन विक्रम्य गमितो यमसादनम् ॥ 037c
तथैव पौरवो राजा नागायुतबलो महान् । 038a
समरे पाण्डुपुत्रेण निहतः सव्यसाचिना ॥ 038c
वसातयो महाराज द्विसाहस्राः प्रहारिणः । 039a
शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः ॥ 039c
अभीषाहाः कवचिनः प्रहरन्तो रणोत्कटाः । 040a
शिबयश्च रथोदाराः कालिङ्गसहिता हताः ॥ 040c
गोकुले नित्यसंवृद्धा युद्धे परमकोपनाः । 041a
गोपालाः कृतवीरास्ते निहताः सव्यसाचिना ॥ 041c
श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये । 042a
ते सर्वे पार्थमासाद्य गदा वैवस्वतक्षयम् ॥ 042c
श्यालौ तव महाराज राजानौ वृषकाचलौ । 043a
त्वदर्थमतिविक्रान्तौ निहतौ सव्यसाचिना ॥ 043c
उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा । 044a
साल्वराजो महाबाहुर्भीमसेनेन पातितः ॥ 044c
ओघवांश्च महाराज बृहन्तः सहितौ रणे । 045a
पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम् ॥ 045c
तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशाम्पते । 046a
निहतो गदया राजन्भीमसेनेन संयुगे ॥ 046c
तथा राजन्महेष्वासो जलसन्धो महाबलः । 047a
सुमहत्कदनं कृत्वा हतः सात्यकिना रणे ॥ 047c
अलम्बुसो राक्षसेन्द्रः खरबन्धुरयानवान् । 048a
घटोत्कचेन विक्रम्य गमितो यमसादनम् ॥ 048c
राधेयः सूतपुत्रश्च भ्रातरश्च महारथाः । 049a
केकयाः सर्वशश्चापि निहताः सव्यसाचिना ॥ 049c
मालवा मद्रकाश्चैव द्राविडाश्चोग्रकर्मिणः । 050a
यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः ॥ 050c
मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाश्च ये । 051a
प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष ॥ 051c
पत्तीनां निहताः सङ्घा हयानां प्रयुतानि च । 052a
रथव्रजाश्च निहता हताश्च वरवारणाः ॥ 052c
सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः । 053a
कालेन महताऽऽयस्ताः कुशलैर्ये च वर्धिताः ॥ 053c
ते हताः समरे राजन्पार्थेनाक्लिष्टकर्मणा । 054a
अन्ये तथाऽमितबलाः परस्परवधैषिणः ॥ 054c
एते चान्ये च बहवो राजानः सगणा रणे । 055a
हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि ॥ 055c
एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे । 056a
महेन्द्रेण यथा वृत्रो यथा रामेण रावणः ॥ 056c
यथा कृष्णेन नरको मुरुश्च निहतो रणे । 057a
कार्तवीर्यश्च रामेण भार्गवेण यथा हतः ॥ 057c
सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः । 058a
रणे कृत्वा महद्युद्धं घोरं त्रैलोक्यमोहनम् ॥ 058c
यथा स्कन्देन महिषो यथा रुद्रेण चान्धकः । 059a
तथाऽर्जुनेन स हतो द्वैरथे युद्धदुर्मदः ॥ 059c
सामात्यबान्धवो राजन्कर्णः प्रहरतां वरः । 060a
जयाशा धार्तराष्ट्राणां वैरस्य च मुखं नृपः ॥ 060c
तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे । 061a
उच्यमानो महाराज बन्धुभिर्हितकाङ्क्षिभिः ॥ 061c
'न कृतं च त्वया पूर्वं दैवेन विधिना बलात्' । 062a
तदिदं समनुप्राप्तं व्यसनं सुमहात्ययम् ॥ 062c
पुत्राणां राज्यकामानां त्वया राजन्हितैषिणा । 063a
अहितान्येव चीर्णानि तेषां ते फलमागतम् ॥ ॥ 063c

इति श्रीमन्महाभारते कर्णपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥

8-2-35 दुर्मनाश्च महारथः इति क.ख.ङ.पाठः । विकर्णश्च महाबलः इति ङ. पाठः ॥ 8-2-48 खरबन्धुरयानवान् गर्दभसंयुतरथवान् । अलायुधो राक्षसेन्द्रो बकबन्धुरयानवान् इति क.ख.ङ.पाठः ॥ 8-2-59 कर्णस्तथा हत इत्यनुकृष्यते ॥