कर्णपर्व
अध्यायः 001
शिबिराद्धास्तिनपुरमुपगतवता सञ्जयेन धृतराष्ट्रम्प्रति कर्णादिनिधनकथनम् ॥ 1 ॥ तच्छ्रवणेन मूर्च्छामुपगतवतो धृतराष्ट्रस्य सञ्जयादिभिराश्वासनम् ॥ 2 ॥
श्रीवेदव्यासाय नमः । 000
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । 001a
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ 001c
'वैशम्पायन उवाच । 001
शिबिराद्धास्तिनपुरं प्राप्य भारत सञ्जयः । 001a
प्रविवेश महाबाहुर्धृतराष्ट्रनिवेशनम् ॥ 001c
शोकेनापहतः सूतो विलपन्भृशदुःखितः । 002a
चिन्तयन्निधनं घोरं सूतपुत्रस्य पाण्डवैः ॥ 002c
अन्तःपुरं प्रविश्यैव सञ्जयो राजसत्तमम् । 003a
अश्रुपूर्णो भृशं त्रस्तो राजानमुपजग्मिवान् ॥ 003c
उपस्थाय च राजानं विनिश्वस्य च सूतजः । 004a
नातिहृष्टमना राजन्निदं वचनमब्रवीत् ॥ 004c
सञ्जय उवाच । 005
सञ्जयोऽहं महाराज नमस्ते भरतर्षभ । 005a
हतो वैकर्तनः कर्णः कृत्वा कर्म सुदुष्करम् ॥ 005c
चेदिकाशिकरूशानां मत्स्यानां सोमकैः सह । 006a
कृत्वाऽसौ कदनं शेते वातनुन्न इव द्रुमः ॥ 006c
गोष्ठमध्येव ऋषभो गोव्रजैः परिवारितः । 007a
व्यालेन निहतो यद्वत्तथाऽसौ निहतः परैः ॥ 007c
निराशान्पाण्डवान्कृत्वा दृढं राजन्ससात्यकान् । 008a
पाञ्चालानां रथांश्चैव विनिहत्य सहस्रशः ॥ 008c
जित्वा शूरान्महेष्वासान्विद्राव्य च दिशोदश । 009a
हतो वैकर्तनः कर्णः पाण्डवेन किरीटिना ॥ 009c
वैरस्य गत आनृण्यं दुर्गमस्य दुरात्मभिः । 010a
हत्वा कर्णं महाराज विशल्यः पाण्डवोऽभवत् ॥ 010c
शोषणं सागराणां वा पतनं वा विवस्वतः । 011a
विशीर्णत्वं यथा मेरोस्तथा कर्णस्य पातनम् ॥ 011a
योधाश्च बहवो राजन्हतास्तत्र जयैषिणः । 012a
राजानो राजपुत्राश्च शूराः परिघबाहवः ॥ 012c
रथौघाश्च नरौघाश्च हता राजन्सहस्रशः । 013a
वारणा निहतास्तत्र वाजिनश्च महाहवे ॥ 013c
क्षत्रियाश्च महाराज सेनयोरुभयोर्हताः । 014a
परस्परं वै वीक्ष्यात्र परस्परकृतागसः ॥ 014c
किञ्चिच्छेषान्परान्कृत्वा तीर्त्वा पाण्डववाहिनीम् । 015a
पार्थवेलां समासाद्य हतो वैकर्तनो वृषा ॥ 015c
जयाशा धार्तराष्ट्राणां वैरस्य च मुखं नृप । 016a
तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे ॥ 016c
प्रोच्यमानं महाराज बन्धुभिर्हितबुद्धिभिः । 017a
तदिदं समनुप्राप्तं व्यसनं त्वां महाभयम् ॥ 017c
पुत्राणां राज्यकामेन त्वया राजन्हितैषिणा । 018a
चरितान्यहितान्येव तेषां ते फलमागतम् ॥ 018c
हतो दुःशासनो राजन्यथोक्तं पाण्डवेन तु । 019a
प्रतिज्ञा भीमसेनेन निस्तीर्णा सा चमूमुखे ॥ 019c
पीतं च क्षतजं तस्य धार्तराष्ट्रस्य संयुगे । 020a
पाण्डवेन महाराज कर्म कृत्वा सुदुष्करम्' ॥ 020c
वैशम्पायन उवाच । 021
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः । 021a
शोकस्यान्तमपश्यन्वै हतं मत्वा सुयोधनम् । 021c
विह्वलः पतितो भूमौ नष्टचेता इव द्विपः ॥ 021e
तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे । 022a
आर्तनादो महानासीत्स्त्रीणां भरतसत्तम ॥ 022c
श शब्दः पृथिवीं कृत्स्नां पूरयामास सर्वशः ॥ 023ac
शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः । 024a
रुरुदुर्दुःखशोकार्ता भृशमुद्विग्नचेतसः ॥ 024c
राजानं च समासाद्य गान्धारी भरतर्षभ । 025a
निःसञ्ज्ञा पतिता भूमौ सर्वाण्यन्तः पुराणि च ॥ 025c
ततस्ताः सञ्जयो राजन्समाश्वासयदातुराः । 026a
मुह्यमानाः सुबहुशो मुञ्चन्तीर्वारि नेत्रजम् ॥ 026c
समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः । 027a
कदल्य इव वातेन धूयमानाः समन्ततः ॥ 027c
राजानं विदुरश्चापि प्रज्ञाचक्षुषमीश्वरम् । 028a
आश्वासयामास तदा सिञ्चंस्तोयेन कौरवम् ॥ 028c
स लब्ध्वा सनकैः सञ्ज्ञां ताश्च दृष्ट्वा स्त्रियो नृपः । 029a
उन्मत्त इव राजेन्द्र स्थितस्तूष्णीं विशाम्पते ॥ 029c
ततो ध्यात्वा चिरं कालं निःश्वस्य च पुनःपुनः । 030a
स्वान्पुत्रान्गर्हयामास बहुमेने च पाण्डवान् ॥ 030c
गर्हयंश्चात्मनो बुद्धिं शकुनेः सौबलस्य च । 031a
ध्यात्वा तु सुचिरं कालं वेपमानो मुहुर्मुहुः ॥ 031c
संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः । 032a
पुनर्गावल्गणिं सूतं पर्यपृच्छत सञ्जयम् ॥ 032c
न त्वया कथितं वाक्यं श्रुतं सञ्जय तन्मया ॥ 033ac
कच्चिद्दुर्योधनः सूत न गतो वै यमक्षयम् । 034a
जये निराशः पुत्रो मे सततं जयकामुकः । 034c
ब्रूहि सञ्जय तत्त्वेन पुनरुक्तां कथामिमाम् ॥ 034e
वैशम्पायन उवाच । 035
एवमुक्तोऽब्रवीत्सूतो राजानं जनमेजय । 035a
हतो वैकर्तनो राजन्सहपुत्रैर्महारथः । 035c
भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः ॥ 035e
दुःशासनश्च निहतः पाण्डवेन यशस्विना । 036a
पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे ॥ 036c
'वैशम्पायन उवाच । 037
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः । 037a
दह्यमानोऽब्रवीत्सूतं मुहूर्तं तिष्ठ सञ्जय । 037c
व्याकुलं मे मनस्तात मा तावत्किञ्चिदुच्यताम् ॥ 037e
राजापि नाब्रवीत्किञ्चित्सञ्जयो विदुरस्तथा । 038a
तूष्णीम्भूतस्तदा सोऽथ बभूव जगतीपतिः ॥ ॥' 038c
इति श्रीमन्महाभारते कर्णपर्वणि प्रथमोऽध्यायः ॥ 1 ॥