श्रीः
अध्यायः 203
इतरालक्षितं पुरतः स्वानुकूलं युध्यमानं शूलपाणिं कञ्चन पुरुषप्रवरमवलोकयता पार्थेन स क इति यदृच्छासमागतं व्यासं प्रति प्रश्नः ॥ 1 ॥ तेन तं प्रति तस्य तस्य पशुपतित्वोक्त्या शतरुद्रीयपठनेन सविस्तरं तद्गुणगणवर्णनम् ॥ 2 ॥
धृतराष्ट्र उवाच 001
तस्मिन्नतिरथे द्रोणे निहते तत्र सञ्जय । 001a
मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम् ॥ 001c
सञ्जय उवाच 002
तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै । 002a
कौरवेषु च भग्नेषु कुन्तीपुत्रो धनञ्जयः ॥ 002c
दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम् । 003a
मुनिं स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम् । 003c
यदृच्छयाऽऽगतं व्यासं पप्रच्छ भरतर्षभ ॥ 003e
अर्जुन उवाच 004
सङ्ग्रामे न्यहनं शत्रूञ्शरौघैर्विमलैरहम् । 004a
अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् ॥ 004c
ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते । 005a
तस्यां दिशि विदीर्यन्ते शत्रवो मे महामुने ॥ 005c
तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः । 006a
तेन भग्नानि सैन्यानि पृष्ठतोऽनुव्रजाम्यहम् ॥ 006c
भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः । 007a
शूलपाणिर्मया दृष्टस्तेजसा सूर्यसन्निभः ॥ 007c
न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति । 008a
शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा ॥ 008c
व्यास उवाच 009
प्रजापतीनां प्रथमं तैजसं पुरुषं प्रभुम् । 009a
भुवनं भूर्भुवं देवं तेजसां प्रवरं प्रभुम् ॥ 009c
ईशानं वरदं पार्थ दृष्टवानसि शङ्करम् । 010a
तं गच्छ शरणं देवं वरदं भुवनेश्वरम् ॥ 010c
महादेवं महात्मानमीशानं जटिलं विभुम् । 011a
त्र्यक्षं महाभुजं रुद्रं शिखिनं चीवराससम् ॥ 011c
महादेवं हरं स्थाणुं वरदं भुवनेश्वरम् । 012a
जगत्प्रधानमजितं जगत्प्रीतिमधीश्वरम् ॥ 012c
जगद्योनिं जगद्बीजं जयिनं जगतो गतिम् । 013a
विश्वात्मानं विश्वसृजं विश्वमूर्तिं यशस्विनम् ॥ 013c
विश्वेश्वरं विश्वनरं कर्मणामीश्वरं प्रभुम् । 014a
शम्भुं स्वयम्भुं भूतेशं भूतभव्यभवोद्भवम् ॥ 014c
योगं योगेश्वरं सर्वं सर्वलोकेश्वरेश्वरम् । 015a
सर्वश्रेष्ठं जगच्छ्रेष्ठं वरिष्ठं परमेष्ठिनम् ॥ 015c
लोकत्रयविधातारमेकं लोकत्रयाश्रयम् । 016a
शुद्धात्मानं भवं भीमं शशाङ्ककृतशेखरम् ॥ 016c
शाश्वतं भूधरं देवं सर्ववागीश्वरेश्वरम् । 017a
सुदुर्जयं जगन्नाथं जन्ममृत्युजरातिगम् ॥ 017c
ज्ञानात्मानं ज्ञानगम्यं ज्ञानश्रेष्ठं सुदुर्विदम् । 018a
दातारं चैव भक्तानां प्रसादविहितान्वरान् ॥ 018c
तस्य पारिषदा दिव्या रूपैर्नानाविधैर्विभोः । 019a
वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः ॥ 019c
महाकाया महोत्साहा महाकर्णास्तथाऽपरे । 020a
आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः ॥ 020c
ईदृशैः स महादेवः पूज्यमानो महेश्वरः । 021a
स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ॥ 021c
तस्मिन्घोरे सदा पार्थ सङ्ग्रामे रोमहर्षणे । 022a
द्रौणिकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः ॥ 022c
कस्तां सेनां तदा पार्थ मनसाऽपि प्रधर्षयेत् । 023a
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥ 023c
स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते । 024a
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥ 024c
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः । 025a
विसञ्ज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥ 025c
तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि । 026a
ये चान्ये मानवा लोके ये च स्वर्गजितो नराः ॥ 026c
ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् । 027a
अनन्यभावेन सदा सर्वेशं समुपासते ॥ 027c
'सङ्ग्रामेषु जयं प्राप्य पालयन्ति महीमिमाम् ।' 028a
इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् ॥ 028c
नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा । 029a
रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ॥ 029c
कपर्दिने करालाय हर्यक्षवरदाय च । 030a
याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च ॥ 030c
काम्याय हरिनेत्राय स्थाणवे पुरुषाय च ॥ 031ac
'नमो वृक्षाय सेनान्ये मध्यमाय नमोनमः ।' 032a
हरिकेशाय मुण्डाय कृशायोत्तारणाय च । 032c
भास्कराय सुतीर्थाय देवदेवाय रंहसे ॥ 032e
बहुरूपाय सर्वाय प्रियाय प्रियवाससे । 033a
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ॥ 033c
गिरिशाय प्रशान्ताय पतये चीरवाससे । 034a
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ॥ 034c
पर्जन्यपतये चैव भूतानां पतये नमः । 035a
वृक्षाणां पतये चैव गवां च पतये नमः ॥ 035c
वृक्षैरावृतकायाय सेनान्ये मध्यमाय च । 036a
स्रुवहस्ताय देवाय धन्विने भार्गवाय च ॥ 036c
बहुरूपाय विश्वस्य पतये मुञ्जवाससे । 037a
सहस्रशिरसे चैव सहस्रचरणाय च । 037c
सहस्रबाहवे चैव सहस्रवदनाय च ॥ 037e
शरणं गच्छ कौन्तेय वरदं भुवनेश्वरम् । 038a
उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् ॥ 038c
प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् । 039a
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् ॥ 039c
वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् । 040a
वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् ॥ 040c
वृषायुधं वृषशरं वृषभूतं वृषेश्वरम् । 041a
महोदरं महाकायं द्वीपिचर्मनिवासिनम् ॥ 041c
लोकेशं वरदं पुण्यं ब्रह्मण्यं ब्राह्मणप्रियम् । 042a
त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम् ॥ 042c
पिनाकिनं खड्गधरं लोकानां पतिमीश्वरम् । 043a
प्रपद्ये शरणं देवं शरण्यं चीरवाससम् ॥ 043c
नमस्तस्मै सुरेशाय गणानां पतये नमः । 044a
सुवाससे नमस्तुभ्यं सुव्रताय सुधन्विने ॥ 044c
धनुर्धराय देवाय प्रियधन्वाय धन्विने । 045a
धन्वन्तराय धनुषे धन्वाचार्याय ते नमः ॥ 045c
उग्रायुधाय देवाय नमः सुरवराय च । 046a
नमोस्तु बहुरूपाय नमोस्तु बहुधन्विने ॥ 046c
नमोस्तु स्थाणवे नित्यं नमस्तस्मै तपस्विने । 047a
नमोस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः || 047c
वनस्पतीनां पतये नराणां पतये नमः । 048a
मातॄणां पतये चैव गणानां पतये नमः ॥ 048c
गवां च पतये नित्यं यज्ञानां पतये नमः । 049a
अपां च पतये नित्यं देवानां पतये नमः ॥ 049c
पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च । 050a
नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः ॥ 050c
कर्माणि यानि दिव्यानि महादेवस्य धीमतः । 051a
तानि ते कीर्तयिष्यामि तथाप्रज्ञं यथाश्रुतम् ॥ 051c
न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः । 052a
सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः ॥ 052c
दक्षस्य यजमानस्य विधिवत्सम्भृतं पुरा । 053a
विव्याध कुपितो यज्ञं निर्दयस्त्वभवत्तदा । 053c
धनुषा बाणमुत्सृज्य सघोषं विननाद च ॥ 053e
तेन शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा । 054a
विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ॥ 054c
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः । 055a
बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः ॥ 055c
आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुन्धरा । 056a
पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः ॥ 056c
अन्धेन तमसा लोका न प्राकाशन्त संवृताः । 057a
जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः ॥ 057c
चुक्षुभुर्भयभीताश्च शान्तिं चक्रुस्तथैव च । 058a
ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः ॥ 058c
पूषाणमभ्यद्रवत शङ्करः प्रहसन्निव । 059a
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥ 059c
ततो निश्चक्रमुर्देवा वेपमाना भयार्दिताः ॥ 060ac
पुनश्च सन्दधे दीप्तान्देवानां निशिताञ्शरान् । 061a
सधूमान्सस्फुलिङ्गांश्च विद्युत्तोयदसन्निभान् ॥ 061c
तं दृष्ट्वा तु सुराः सर्वे प्रणिपत्य महेश्वरम् । 062a
रुद्रस्य यज्ञभागं च विशिष्टं ते त्वकल्पयन् ॥ 062c
भयेन त्रिदशा राजञ्छरणं च प्रपेदिरे । 063a
तेन चैवातिकोपेन स यज्ञः सन्धितस्तदा । 063c
भग्नाश्चापि सुरा आसन्भीताश्चाद्यापि तं प्रति ॥ 063e
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि । 064a
आयसं राजतं चैव सौवर्णं परमं महत् ॥ 064c
सौवर्णं कमलाक्षस्य तारकाक्षस्य राजतम् । 065a
तृतीयं तु पुरं तेषां विद्युन्मालिन आयसम् । 065c
न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि ॥ 065e
अथ सर्वे सुरा रुद्रं जग्मुः शरणमर्दिताः । 066a
ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः ॥ 066c
ब्रह्मदत्तवरा ह्येते घोरास्त्रिपुरवासिनः । 067a
पीडयन्त्यधिकं लोकं यस्मात्ते वरदर्पिताः ॥ 067c
त्वदृते देवदेवेश नान्यः शक्तः कथञ्चन । 068a
हन्तुं दैत्यान्महादेव जहि तांस्त्वं सुरद्विषः ॥ 068c
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु । 069a
निपातयिष्यसे चैतानसुरान्भुवनेश्वर ॥ 069c
स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया । 070a
गन्धमादनविन्ध्यौ च कृत्वा वंशध्वजौ हरः ॥ 070c
पृथ्वीं ससागरवनां रथं कृत्वा तु शङ्करः । 071a
अक्षं कृत्वा तु नागेन्द्रं शेषं नाम त्रिलोचनः ॥ 071c
चक्रे कृत्वा तु चन्द्रार्कौ देवदेवः पिनाकधृत् । 072a
अणी कृत्वैलपत्रं च पुष्पदन्तं च त्र्यम्बकः ॥ 072c
यूपं कृत्वा तु मलयमवनाहं च तक्षकम् ॥ 073ac
योक्त्राङ्गानि च सत्वानि कृत्वा शर्वः प्रतापवान् । 074a
वेदान्कृत्वाऽथ चतुरश्चतुरश्वान्महेश्वरः ॥ 074c
उपवेदान्खलीनांश्च कृत्वा लोकत्रयेश्वरः । 075a
गायत्रीं प्रग्रहं कृत्वा सावित्रीं च महेश्वरः ॥ 075c
कृत्वोङ्कारं प्रतोदं च ब्रह्माणं चैव सारथिम् । 076a
गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा तु वासुकिम् ॥ 076c
विष्णुं शरोत्तमं कृत्वा शल्यमग्निं तथैव च । 077a
वायुं कृत्वाऽथ वाजाभ्यां पुङ्खे वैवस्वतं यमम् ॥ 077c
विद्युत्कृत्वाऽथ निश्राणं मेरुं कृत्वाऽथ वै ध्वजम् । 078a
आरुह्य स रथं दिव्यं सर्वदेवमयं शिवः ॥ 078c
त्रिपुरस्य वधार्थाय स्थाणुः प्रहरतां वरः । 079a
असुराणामन्तकरः श्रीमानतुलविक्रमः ॥ 079c
स्तूयमानः सुरैः पार्थ ऋषिभिश्च तपोधनैः । 080a
स्थानं माहेश्वरं कृत्वा दिव्यमप्रतिमं प्रभुः । 080c
अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान् ॥ 080e
यदा त्रीणि समेतानि अन्तरिक्षे पुराणि च । 081a
त्रिपर्वणा त्रिशल्येन तदा तानि बिभेद सः ॥ 081c
पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम् । 082a
शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम् ॥ 082c
पुराणि दग्धवन्तं तं देवी याता प्रवीक्षितुम् । 083a
'देव्याः स्वयंवरे वृत्तं शृणुष्वान्यद्धनञ्जय ॥' 083c
बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः । 084a
उमा जिज्ञासमाना वै कोयमित्यब्रवीत्सुरान् ॥ 084c
असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः । 085a
बाहुं सवज्रं तं तस्य क्रुद्धस्यास्तम्भयत्प्रभुः । 085c
[*प्रहस्य भगवांस्तूर्णं सर्वलोकेश्वरो विभुः ॥ 085e
ततः स स्तम्भितभुजः शक्रो देवगणैर्वृतः । 086a
जगाम ससुरस्तूर्णं ब्रह्माणं प्रभुमव्ययम् ॥ 086c
ते तं प्रणम्य शिरसा प्रोचुः प्राञ्जलयस्तदा ॥ 087ac
किमप्यङ्कगतं ब्रह्मन्पार्वत्या भूतमद्भुतम् । 088a
बालरूपधरं दृष्ट्वा नास्माभिरभिलक्षितः ॥ 088c
तस्मात्त्वां प्रष्टुमिच्छामो निर्जिता येन वै वयम् । 089a
अयुध्यता हि बालेन लीलया सपुरन्दराः ॥ 089c
तेषां तद्वचनं श्रुत्वा ब्रह्मा ब्रह्मविदां वरः । 090a
ध्यात्वा स शम्भुं भगवान्बालं चामिततेजसम् । 090c
उवाच भगवान्ब्रह्मा शक्रादींश्च सुरोत्तमान् ॥ 090e
चराचरस्य जगतः प्रभुः स भगवान्हरः । 091a
तस्मात्परतरं नान्यत्किञ्चिदस्ति महेश्वरात् ॥ 091c
यो दृष्टो ह्युमया सार्धं युष्माभिरमितद्युतिः । 092a
स पार्वत्याः कृते शर्वः कृतवान्बालरूपताम् ॥ 092c
ते मया सहिता यूयं प्रापद्यध्वं तमेव हि ।] 093a
स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः ॥ 093c
न सम्बुबुधिरे चैनं देवास्तं भुवनेश्वरम् । 094a
सप्रजापतयः सर्वे बालार्कसदृशप्रभम् ॥ 094c
अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा स च महेश्वरम् । 095a
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः ॥ 095c
[ब्रह्मोवाच 096
त्वं यज्ञो भुनस्यास्य त्वं गतिस्त्वं परायणम् । 096a
त्वं भवस्त्वं महादेवस्त्वं धाम परमं पदम् ॥ 096c
त्वया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् ॥ 097ac
भगवन्भूतभव्येश लोकनाथ जगत्पते । 098a
प्रसादं कुरु शक्रस्य त्वया क्रोधार्दितस्य वै ॥ 098c
व्यास उवाच 099
पद्मयोनिवचः श्रुत्वा ततः प्रीतो महेश्वरः | 099a
प्रसादाभिमुखो भूत्वा अट्टहासमथाकरोत् ॥] 099c
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः । 100a
अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः ॥ 100c
तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः । 101a
देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः ॥ 101c
स वै रुद्रः स च शिवः सोऽग्निः सर्वश्च सर्ववित् । 102a
स चेन्द्रश्चैव वायुश्च सोऽश्विनौ च स विद्युतः ॥ 102c
स भवः स च पर्जन्यो महादेवः सनातनः । 103a
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ॥ 103c
स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि तु । 104a
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः ॥ 104c
धाता च स विधाता च विश्वात्मा विश्वकर्मकृत् । 105a
सर्वासां देवतानां च धारयत्यवपुर्वपुः ॥ 105c
सर्वदेवैः स्तुतो देवः सैकधा बहुधा च सः । 106a
शतधा सहस्रधा चैव भूयः शतसहस्रधा ॥ 106c
द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः । 107a
घोरा चान्या शिवा चान्या ते तनू बहुधा पुनः ॥ 107c
घोरा तु यातुधानस्य सोऽग्निर्विष्णुः स भास्करः । 108a
सौम्या तु पुनरेवास्य आपो ज्योतींषि चन्द्रमाः ॥ 108c
वेदाः साङ्गोपनिषदः पुराणाध्यात्मनिश्चयाः । 109a
यदत्र परमं गुह्यं स वै देवो महेश्वरः ॥ 109c
ईदृशश्च महादेवो भूयांश्च भगवानजः । 110a
न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः ॥ 110c
अपि वर्षसहस्रेण सततं पाण्डुनन्दन । 111a
सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान् ॥ 111c
स मोचयति सुप्रीतः शरण्यः शरणागतान् । 112a
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् ॥ 112c
स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः । 113a
सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते ॥ 113c
स चैव वेत्ति लोकेषु मनुष्याणां शुभाशुभे । 114a
ऐश्वर्याच्चैव कामानामीश्वरश्च स उच्यते ॥ 114c
महेश्वरश्च महतां भूतानामीश्वरश्च सः । 115a
बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत् ॥ 115c
तस्य देवस्य यद्वक्त्रं समुद्रे तदधिष्ठितम् । 116a
बडबामुखेति विख्यातं पिबत्तोयमयं हविः ॥ 116c
एष चैव श्मशानेषु देवो वसति नित्यशः । 117a
यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम् ॥ 117c
अस्य दीप्तानि रूपाणि घोराणि च बहूनि च । 118a
लोके यान्यस्य पूज्यन्ते मनुष्याः प्रवदन्ति च ॥ 118c
नामधेयानि लोकेषु बहून्यस्य यथार्थवत् । 119a
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मणस्तथा ॥ 119c
वेदे चास्य समाम्नातं शतरुद्रियमुत्तमम् । 120a
नाम्ना चानन्तरुद्रेति ह्युपस्थानं महात्मनः ॥ 120c
स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः । 121a
स विभुः स प्रभुर्देवो विश्वं व्याप्नोति वै महत् ॥ 121c
ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा । 122a
प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत् ॥ 122c
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः । 123a
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥ 123c
दिव्यं च ब्रह्मचर्येण लिङ्गमस्य यथास्थितम् । 124a
महयत्येष लोकांश्च महेश्वर इति स्मृतः ॥ 124c
ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा । 125a
लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम् ॥ 125c
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः । 126a
सुखी प्रीतश्च भवति प्रहृष्टश्चैव शङ्करः ॥ 126c
यदस्य बहुधा रूपं भूतभव्यभवस्थितम् । 127a
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥ 127c
एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा । 128a
क्रोधाद्यश्चाविशल्लोकांस्तस्मात्सर्व इति स्मृतः ॥ 128c
धूम्ररूपं च यत्तस्य धूर्जटिस्तेन चोच्यते । 129a
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ॥ 129c
तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः । 130a
द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः ॥ 130c
समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु । 131a
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः ॥ 131c
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा । 132a
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ॥ 132c
महत्पूर्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत् । 133a
स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥ 133c
[सूर्याचन्द्रमसोर्लोके प्रकाशन्ते रुचश्च याः । 134a
ताः केशसञ्ज्ञितास्त्र्यक्षे व्योमकेशस्ततः स्मृतः ॥ 134c
भूतं भव्यं भविष्यं च सर्वं जगदशेषतः । 135a
भव एव ततो यस्माद्भूतभव्यभवोद्भवः ॥ 135c
कपिः श्रेष्ठ इति प्रोक्तो धर्मश्च वृष उच्यते । 136a
स देवदेवो भगवान्कीर्त्यतेऽतो वृषाकपिः ॥ 136c
ब्रह्माणमिन्द्रं वरुणं यमं धनदमेव च । 137a
निगृह्य हरते यस्मात्तस्माद्धर इति स्मृतः ॥ 137c
निमीलिताभ्यां नेत्राभ्यां बलाद्देवो महेश्वरः । 138a
ललाटे नेत्रमसृजत्तेन त्र्यक्षः स उच्यते ॥] 138c
विषमस्थः शरीरेषु समश्च प्राणिनामिह । 139a
स वायुर्विषमस्थेषु प्राणोऽपानः शरीरिषु ॥ 139c
पूजयेद्विग्रहं यस्तु लिङ्गं चापि महात्मनः । 140a
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥ 140c
ऊरुभ्यामर्धमाग्नेयं सोमोऽर्धं च शिवा तनुः । 141a
आत्मनोऽर्धं तथाचाग्निः सोमोर्धं पुनरुच्यते ॥ 141c
तैजसी महती दीप्ता देवेभ्योऽस्य शिवा तनुः । 142a
भास्वती मानुषेष्वस्य तनुर्घोराऽग्निरुच्यते ॥ 142c
ब्रह्मचर्यं चरत्येष शिवा याऽस्य तनुस्तया । 143a
याऽस्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः ॥ 143c
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् । 144a
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥ 144c
एष देवो महादेवो योऽसौ पार्थ तवाग्रतः । 145a
सङ्ग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृत् ॥ 145c
सिन्धुराजवधार्थाय प्रतिज्ञाते त्वयाऽनघ । 146a
कृष्णेन दर्शितः स्वप्ने यस्तु शैलेन्द्रमूर्धनि ॥ 146c
एष वै भगवान्देवः सङ्ग्रामे याति तेऽग्रतः । 147a
येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः ॥ 147c
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सम्मितम् । 148a
देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम् || 148c
सर्वार्थसाधनं पुण्यं सर्वकिल्बिषनाशनम् । 149a
सर्वपापप्रशमनं सर्वदुःखभयापहम् ॥ 149c
चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा । 150a
विजित्य शत्रून्सर्वान्स रुद्रलोके महीयते ॥ 150c
चरितं महात्मनो नित्यं साङ्ग्रामिकमिदं स्मृतम् । 151a
पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः ॥ 151c
भक्तो विश्वेश्वरं देवं मानुषेषु च यः सदा । 152a
वरान्कामान्स लभते प्रसन्ने त्र्यम्बके नरः ॥ 152c
गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः । 153a
गस्य मन्त्री च गोप्ता च पार्श्वस्थो हि जनार्दनः ॥ 153c
सञ्जय उवाच 154
एवमुक्त्वाऽर्जुनं सङ्ख्ये पराशरसुतस्तदा । 154a
जगाम भरतश्रेष्ठ यथागतमरिन्दम ॥ 154c
'वैशम्पायन उवाच 155
एतदाख्याय वै सूतो राज्ञः सर्वं तु सञ्जयः । 155a
प्रयातः शिबिरायैव द्रष्टुं कर्णस्य वैशसम् ॥ 155c
युद्धं कृत्वा महद्घोरं पञ्चाहानि महाबलः । 156a
ब्राह्मणो निहतो राजन्ब्रह्मलोकमवाप्तवान् ॥ 156c
स्वधीते यत्फलं वेदे तदस्मिन्नपि पर्वणि । 157a
क्षत्रियाणामभीरूणां युक्तमत्र महद्यशः ॥ 157c
य इदं पठते पर्व शृणुयाद्वाऽपि नित्यशः । 158a
स मुच्यते महापापैः कृतैर्घोरैश्च कर्मभिः ॥ 158c
यज्ञावाप्तिर्ब्राह्मणस्येह नित्यं घोरे युद्धे क्षत्रियाणां यशश्च । 159a
शेषौ वर्णौ काममिष्टं लभेते पुत्रान्पौत्रान्नित्यमिष्टांस्तथैव ॥ ॥ 159c
इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्यां द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि त्र्यधिकद्विशततमोऽध्यायः ॥ 203 ॥ समाप्तं नारायणास्त्रमोक्षपर्व ॥ 8 ॥ द्रोणपर्व च समाप्तम् ॥ 7 ॥
7-203-3 यदृच्छया ॥ 7-203-11 जटिलं शिखिनमिति रूपभेदाभिप्रायेण विशेषणद्वयं योज्यम् ॥ 7-203-12 जगत्प्रीतिं जगदानन्दकरम् ॥ 7-203-13 जगद्योनिं जगद्बीजमिति जगतां मातापितृरूपम् ॥ 7-203-14 विश्वनरं विश्वस्य नेतारम् । भूतस्य भव्यस्य भवस्य वर्तमानस्य चोद्भवम् ॥ 7-203-15 योगेश्वरं योगिनामीशम् । योगानां फलप्रदं वा ॥ 7-203-17 सुदुर्जयमत्यन्तं दुष्प्रापमनधिकारिभिः ॥ 7-203-51 कर्माणि चैव घोराणि महादेवस्य धन्विनः इति क. ख. पाठः ॥ 7-203-52 गुहागताः पातालगता अपीत्यर्थः ॥ 7-203-57 तमसा संवृता न प्राकाशन्त न प्राज्ञायन्त ॥ 7-203-58 चक्रुर्ऋषय इति सम्बन्धः ॥ 7-203-59 पूषाणं पूषणम् ॥ 7-203-60 नताः स्म ते इति पाठे नता लीनाः सन्तो निश्चक्रमुर्यज्ञदेशादपक्रान्ताः ॥ 7-203-61 देवानां लीनानामपि वधायेति शेषः ॥ 7-203-63 अतिकोपेन अतिक्रान्तकोपेन शान्तेनेत्यर्थः । ततःप्रभृति पूर्वं भग्नाः सन्तोऽद्यापि भीताः सन्तीत्यर्थः ॥ 7-203-70 वंशध्वजौ अल्पौ ध्वजौ पार्श्वद्वयस्थौ । महाध्वजस्तु मेरुरिति वक्ष्यते ॥ 7-203-72 अणी युगान्तबन्धने द्वौ नागौ ॥ 7-203-73 यूपं युगम् । अवनाहं त्रिवेणुयुगबन्धनरज्जुम् ॥ 7-203-74 योक्त्राणि । अङ्गानि चाकर्षादीनि । सत्वानि सरीसृपपर्वतादीनि च ॥ 7-203-75 उपवेदान् आयुर्वेदधनुर्वेदगान्धर्ववेदपश्चिमाम्नायान् । खलीनान् कडियाळीति प्रसिद्धान् । गायत्रीसावित्र्यौ प्रग्रहं रश्मीन् ॥ 7-203-77 वाजाभ्यां पक्षाभ्यां पक्षयोरित्यर्थः ॥ 7-203-78 विद्युत् विद्युतम् । निश्राणं निशितम् ॥ 7-203-80 स्थानं स्थीयतेस्मिन्निति योगाद्व्यूहम् । स्थाणुरचलः ॥ 7-203-81 समेतानि समसूत्रगतानि । त्रिपर्वणा त्रीणि विष्णुवायुवैवस्वताख्यानि शरपक्षपुङ्खरूपाणि पर्वाणि यस्य तेन । त्रिशल्येन गार्हपत्यदक्षिणाग्न्याहवनीयरूपाऽग्नित्रयशल्येन ॥ 7-203-96 गतिः पालकः । परायणं लयस्थानम् । भव उत्पत्तिकारणम् ॥ 7-203-98 ईशः शिक्षकः । नाथः नायकः । पतिः पालकः ॥ 7-203-120 शतरुद्रियं नमस्ते रुद्र मन्यव इति याजुषः प्रपाठकः । उपस्थानं रुद्रोपस्थानमन्त्रभूतम् ॥ 7-203-121 कामानां दिव्यानां मानुषाणां च स प्रभुर्दाता । विभुर्व्यापकः ॥ त्र्यधिकद्विशततमोऽध्यायः ॥