श्रीः
अध्यायः 201
नारयणास्त्रेणावेष्टिते भीमे कृष्णार्जुनाभ्यां हस्ततः शस्त्रापकर्षणपूर्वकं रथादवरोपिते सत्यस्त्रस्य प्रशमनम् ॥ 1 ॥ ततः सङ्कुलयुद्धम् ॥ 2 ॥
सञ्जय उवाय 001
भीमसेनं समाकीर्णं दृष्ट्वाऽस्त्रेण धनञ्जयः । 001a
तेजसः प्रतिघातार्थं वारुणेन समावृणोत् ॥ 001c
नालक्षयत तत्कश्चिद्वारुणास्त्रेण संवृतम् । 002a
अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः ॥ 002c
साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः । 003a
अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः ॥ 003c
यथा रात्रिक्षये राजञ्ज्योतींष्यस्तगिरिं प्रति । 004a
समापेतुस्तथा बाणा भीमसेनरथं प्रति ॥ 004c
स हि भीमो रथश्चास्य हयाः सूतश्च मारिष । 005a
संवृता द्रोणपुत्रेण पावकान्तर्गताऽभवन् ॥ 005c
यथा जग्ध्वा जगत्कृत्स्नं समये सचराचरम् । 006a
गच्छेद्वह्निर्विभोरास्यं तथाऽस्त्रं भीममावृणोत् ॥ 006c
सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः । 007a
तथा प्रविष्टं तत्तेजो न प्राज्ञायत पाण्डवः ॥ 007c
'तदस्त्रं भीमहुङ्कारादपयाति पुनःपुनः । 008a
पुनः पुनस्तमायाति हुङ्कारात्तं विमुञ्चति । 008c
ततो देवाः सगन्धर्वा भीमं दृष्ट्वा सुविस्मिताः ॥' 008e
विकीर्णमस्त्रं तद्दृष्ट्वा तथा भीमरथं प्रति । 009a
उदीर्यमाणं द्रौणिं च निष्प्रतिद्वन्द्वमाहवे ॥ 009c
सर्वसैन्यं च पाण्डूनां न्यस्तशस्त्रमचेतनम् । 010a
युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथनान् ॥ 010c
अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती । 011a
अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः ॥ 011c
ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसम्भवम् । 012a
विगाह्य तौ सुबलिनौ माययाऽविशतां तथा ॥ 012c
न्यस्तशस्त्रौ ततस्तौ तु नादहत्सोऽस्त्रजोऽनलः । 013a
वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः ॥ 013c
ततश्चकृषतुर्भीमं सर्वशस्त्रायुधानि च । 014a
नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात् ॥ 014c
आकृष्यमाणः कौन्तेयो नदत्येव महारवम् । 015a
वर्धते चैव तद्घोरं द्रौणेरस्त्रं सुदुर्जयम् ॥ 015c
तमब्रवीद्वासुदेवः किमिदं पाण्डुनन्दन । 016a
वार्यमाणोऽपि कौन्तेय यद्युद्धान्न निवर्तसे ॥ 016c
यदि युद्धेन जेयाः स्युरिमे कौरवनन्दनाः । 017a
वयमप्यत्र युध्येम तथा चेमे नरर्षभाः ॥ 017c
रथेभ्यस्त्ववतीर्णाः स्म सर्व एव हि तावकाः । 018a
तस्मात्त्वमपि कौन्तेय रथात्तूर्णमपाक्रम ॥ 018c
एवमुक्त्वा तु तं कृष्णो रथाद्भूमिमवर्तयत् । 019a
निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम् ॥ 019c
यदाऽपकृष्टः स रथान्न्यासितश्चायुधं भुवि । 020a
ततो नारायणास्त्रं तत्प्रशान्तं शत्रुतापनम् ॥ 020c
सञ्जय उवाच 021
तस्मिन्प्रशान्ते विधिना तेन तेजसि दुःसहे । 021a
बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च ॥ 021c
प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः । 022a
वाहनानि च हृष्टानि प्रशान्तेऽस्त्रे सुदुर्जये ॥ 022c
व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत । 023a
बभौ भीमो निशापाये धीमान्सूर्य इवोदितः ॥ 023c
हतशेषं बलं तत्तु पाण्डवानामतिष्ठत । 024a
अस्त्रव्युपरमाद्धृष्टं तव पुत्रजिघांसया ॥ 024c
व्यवस्थिते बले तस्मिन्नस्त्रे प्रतिहते तथा । 025a
दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत् ॥ 025c
अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रयोजय । 026a
अवस्थिता हि पाञ्चालाः पुनरेते जयैषिणः ॥ 026c
अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष । 027a
सुदीनमभिनिःश्वस्य राजानमिदमब्रवीत् ॥ 027c
नैतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते । 028a
आवृतं हि निवर्तेत प्रयोक्तारं न संशयः ॥ 028c
एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान् । 029a
'अस्य तु ह्येष वै दाता मानुषेषु न विद्यते ॥ 029c
परावरज्ञो लोकानां न तदस्ति न वेत्ति यत् । 030a
तदेतदस्त्रं प्रशमं यातं कृष्णस्य मन्त्रितैः ॥' 030c
द्विविधो विहितः सङ्ख्ये वधः शस्त्रोर्जनाधिप । 031a
पराजयो वा मृत्युर्वा श्रेयान्मृत्युर्न निर्जयः ॥ 031c
विजिताश्चारयो ह्येते शस्त्रोत्सर्गान्मृतोपमाः ॥ 032ac
दुर्योधन उवाच 033
आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रयुज्यते । 033a
अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर ॥ 033c
त्वयि शस्त्राणि दिव्यानि त्र्यम्बके चामितौजसि । 034a
'घ्नतैतान्सुमहावीर्य शात्रवान्युद्धकोविदः ।' 034c
इच्छतो न हि ते मुच्येत्सङ्क्रुद्धो हि पुरन्दरः ॥ 034e
धृतराष्ट्र उवाच 035
तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते । 035a
तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः ॥ 035c
दृष्ट्वा पार्थांश्च सङ्ग्रामे युद्धाय समुपस्थितान् । 036a
नारायणास्त्रनिर्मुक्तांश्चरतः पृतनामुखे ॥ 036c
सञ्जय उवाच 037
जानन्पितुः स निधनं सिंहलाङ्गूलकेतनः । 037a
सक्रोधो भयमुत्सृज्य सोऽभिदुद्राव पार्षतम् ॥ 037c
अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभ । 038a
पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभः ॥ 038c
धृष्टद्युम्नस्ततो राजञ्ज्वलन्तमिव पावकम् । 039a
द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम् ॥ 039c
सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः । 040a
हयांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैः शरैः ॥ 040c
विद्ध्वा विद्ध्वाऽनदद्द्रौणिं कम्पयन्निव मेदिनीम् । 041a
आददे सर्वलोकस्य प्राणानिव महारणे ॥ 041c
पार्षतस्तु बली राजन्कृतास्त्रः कृतनिश्चयः । 042a
द्रौणिमेवाभिदुद्राव मृत्युं कृत्वा निवर्तनम् ॥ 042c
ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि । 043a
अवासृजदमेयात्मा पाञ्चाल्यो रथिनांवरः ॥ 043c
तं द्रौणिः समरे क्रुद्धं छादयामास पत्रिभिः । 044a
विव्याध चैनं दशभिः पितुर्वधमनुस्मरन् ॥ 044c
द्वाभ्यां च सुविसृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके । 045a
छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत् ॥ 045c
व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहवे । 046a
तस्य चानुचरान्सर्वान्क्रुद्धः प्राद्रावयच्छरैः ॥ 046c
ततः प्रदुद्रुवे सैन्यं पाञ्चालानां विशाम्पते । 047a
सम्भ्रान्तरूपमार्तं च न परस्परमैक्षत ॥ 047c
दृष्ट्वा तु विमुखान्योधान्धृष्टद्युम्नं च पीडितम् । 048a
शैनेयोऽचोदयत्तूर्णं रथं द्रौणिरथं प्रति ॥ 048c
अष्टभिर्निशितैर्बाणैरश्वत्थामानमार्दयत् । 049a
विंशत्या पुनराहत्य नानारूपैरमर्षणः । 049c
विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान् ॥ 049e
[*धनुर्ध्वजं संयत्तश्चिच्छेद कृतहस्तवत् । 050a
स साश्वं व्यधमच्चापि रथं हेमपरिष्कृतम् । 050c
हृदि विव्याध समरे त्रिंशता सायकैर्भृशम् ॥ 050e
एवं स पीडितो राजन्नश्वत्थामा महाबालः । 051a
शरजालैः परिवृतः कर्तव्यं नान्वपद्यत ॥ 051c
एवं गते गुरोः पुत्रे तव पुत्रो महारथः । 052a
कृपकर्णादिभिः सार्धं शरैः सात्वतमावृणोत् ॥ 052c
दुर्योधनस्तु विंशत्या कृपः शारद्वतस्त्रिभिः । 053a
कृतवर्माऽथ दशभिः कर्णः पञ्चाशता शरैः ॥ 053c
दुःशासनः शतेनैव वृषसेनश्च सप्तभिः । 054a
सात्यकिं विव्यधुस्तूर्णं समन्तान्निशितैः शरैः ॥ 054c
ततः स सात्यकी राजन्सर्वानेव महारथान् । 055a
विरथान्विमुखांश्चैव क्षणेनैवाकरोन्नृप ॥ 055c
अश्वत्थामा तु सम्प्राप्य चेतनां भरतर्षभ । 056a
चिन्तयामास दुःखार्तो निःश्वसंश्च पुनःपुनः ॥ 056c
अथो रथान्तरं द्रौणिः समारुह्य परन्तपः । 057a
सात्यकिं वारयामास किरञ्शरशतान्बहून् ॥ 057c
तमापतन्तं सम्प्रेक्ष्य भारद्वाजसुतं रणे । 058a
विरथं विमुखं चैव पुनश्चक्रे महारथः ॥ 058c
ततस्ते पाण्डवा राजन्दृष्ट्वा सात्यकिविक्रमम् । 059a
शङ्खशब्दान्भृशं चक्रुः सिंहनादांश्च नेदिरे ॥ 059c
एवं तं विरथं कृत्वा सात्यकिः सत्यविक्रमः । 060a
जघान वृषसेनस्य त्रिसाहस्रान्महारथान् ॥ 060c
अयुतं दन्तिनां सार्धं कृपस्य निजघान सः । 061a
पञ्चायुतानि चाश्वानां शकुनेर्निजघान ह ॥ 061c
ततो द्रौणिर्महाराज रथमारुह्य वीर्यवान् । 062a
सात्यकिं प्रति सङ्क्रुद्धः प्रययौ तद्वधेप्सया || 062c
पुनस्तमागतं दृष्ट्वा शैनेयो निशितैः शरैः । 063a
अदारयत्क्रूरतरैः पुनःपुनररिन्दम ॥] 063c
सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः । 064a
युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत् ॥ 064c
शैनेयाभ्युपपत्तिं ते जानाम्याचार्यघातिनि । 065a
न चैनं त्रास्यसि मया ग्रस्तमात्मानमेव च ॥ 065c
शपेत्मनाऽहं शैनेय सत्येन तपसा तथा । 066a
अहत्वा सर्वपाञ्चालान्यदि शान्तिमहं लभे ॥ 066c
यद्बलं पाण्डवेयानां वृष्णीनामपि यद्बलम् । 067a
क्रियतां सर्वमेवेह निहनिष्यामि सोमकान् ॥ 067c
एवमुक्त्वाऽर्करम्याभं सुतीक्ष्णं तं शरोत्तमम् । 068a
व्यसृजत्सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः ॥ 068c
स तं निर्भिद्य तेनास्तः सायकः शरावरम् । 069a
विवेश वसुधां भित्त्वा श्वसन्बिलमिवोरगः ॥ 069c
स भिन्नकवचः शूरस्तोत्रार्दित इव द्विपः । 070a
विमुच्य सशरं चापं भूरिव्रणपरिस्रवः ॥ 070c
सीदन्रुधिरसिक्तश्च रथोपस्थ उपाविशत् । 071a
सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम् ॥ 071c
अथान्येन सुपुङ्खेन शरेणानतपर्वणा । 072a
आजघान भ्रुवोर्मध्ये धृष्टद्युम्नं परन्तपः ॥ 072c
स पूर्वमतिविद्धश्च भृशं पश्चाच्च पीडितः । 073a
ससादाथ च पाञ्चाल्यो व्यपाश्रयत च ध्वजम् ॥ 073c
तं नागमिव सिंहेन दृष्ट्वा राजञ्शरार्दितम् । 074a
जवेनाभ्यद्रवञ्छूराः पञ्च पाण्डवतो रथाः ॥ 074c
किरीटी भीमसेनश्च वृद्धक्षत्रश्च पौरवः । 075a
युवराजश्च चेदीनां मालवश्च सुदर्शनः ॥ 075c
एते हाहाकृताः सर्वे प्रगृहीतशरासनाः । 076a
वीरं द्रौणायनिं वीराः सर्वतः पर्यवारयन् ॥ 076c
ते विंशतिपदे यत्ता गुरुपुत्रममर्षणम् । 077a
पञ्चभिः पञ्चभिर्बाणैरभ्यघ्नन्सर्वतः समम् ॥ 077c
आशीविषाभैर्विंशत्या पञ्चभिस्तु शितैः शरैः । 078a
चिच्छेद युगपद्द्रौणिः पञ्चविंशतिसायकान् ॥ 078c
सप्तभिस्तु शितैर्बाणैः पौरवं द्रौणिरार्दयत् । 079a
मालवं त्रिभिरेकेन पार्थं षड्भिर्वृकोदरम् || 079c
ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः । 080a
युगपच्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः ॥ 080c
युवराजश्च विंशत्या द्रौणिं विव्याध पत्रिभिः । 081a
पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभिस्त्रिभिः ॥ 081c
ततोऽर्जुनं षड्भिरथाजघान द्रौणायनिर्दशभिर्वासुदेवम् । 082a
भीमं दशार्धैर्युवारजं चतुर्भिर्द्वाभ्यां द्वाभ्यां मालवं पौरवं च ॥ 082c
सूतं विद्ध्वा भीमसेनस्य षड्भिर्द्वाभ्यां विद्ध्वा कार्मुकं च ध्वजं च । 083a
पुनः पार्थं शरवर्षेण विद्ध्वा द्रौणिर्घोरं सिंहनादं ननाद ॥ 083c
तस्यास्यतस्तान्निशितान्पीतधारान्द्रौणेः शरान्पृष्ठतश्चाग्रतश्च । 084a
धरा वियद्द्यौः प्रदिशो दिशश्च च्छन्ना बाणैरभवन्घोररूपैः ॥ 084c
आसन्नस्य स्वरथं तीव्रतेजाः सुदर्शनस्येन्द्रकेतुप्रकाशौ । 085a
भुजौ शिरश्चेन्द्रसमानवीर्यस्त्रिभिः शरैर्युगपत्सञ्चकर्त ॥ 085c
स पौरवं रथशक्त्या निहत्य च्छित्त्वा रथं तिलशश्चास्य बाणैः । 086a
छित्त्वा च बाहू वरचन्दनाक्तौ भल्लेन कायाच्छिर उच्चकर्त ॥ 086c
युवानमिन्दीवरदामवर्णं चेदिप्रभुं युवराजं प्रसह्य । 087a
बाणैस्त्वरावाञ्ज्वलिताग्निकल्पैर्विद्ध्वा प्रादान्मृत्यवे साश्वसूतम् ॥ 087c
[*मालवं पौरवं चैव युवराजं च चेदिपम् । 088a
दृष्ट्वा समक्षं निहतं द्रोणपुत्रेण पाण्डवः । 088c
भीमसेनो महाबाहुः क्रोधमाहारयत्परम् ॥ 088e
ततः शरशतैस्तीक्ष्णैः सङ्क्रुद्धाशीविषोपमैः । 089a
छादयामास समरे द्रोणपुत्रं परन्तपः ॥ 089c
ततो द्रौणिर्महातेजाः शरवर्षं निहत्य तम् । 090a
विव्याध निशितैर्बाणैर्भीमसेनममर्षणः ॥ 090c
ततो भीमो महाबाहुद्रौणेर्युधि महाबलः । 091a
क्षुरप्रेण धनुश्छित्त्वा द्रौणिं विव्याध पत्रिणा ॥ 091c
तदपास्य धनुश्छिन्नं द्रोणपुत्रो महामनाः । 092a
अन्यत्कार्मुकमादाय भीमं विव्याध पत्रिभिः ॥ 092c
तौ द्रौणिभीमौ समरे पराक्रान्तौ महाबलौ । 093a
अवर्षतां शरवर्षं वृष्टिमन्ताविवाम्बुदौ ॥ 093c
भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः । 094a
द्रौणिं सञ्छादयामासुर्घनौघा इव भास्करम् ॥ 094c
तथैव द्रौणिनिर्मुक्तैर्भीमः सन्नतपर्वभिः । 095a
अवाकीर्यत स क्षिप्रं शरैः शतसहस्रशः ॥ 095c
स च्छाद्यमानः समरे द्रौणिना रणशालिना । 096a
न विव्यथे महाराज तदद्भुतमिवाभवत् ॥ 096c
ततो भीमो महाबाहुः कार्तस्वरविभूषितान् । 097a
नाराचान्दश सम्प्रैषीद्यमदण्डनिभाञ्छितान् ॥ 097c
ते जत्रुदेशमासाद्य द्रोणपुत्रस्य मारिष । 098a
निर्भिद्य विविशुस्तूर्णं वल्मीकमिव पन्नगाः ॥ 098c
सोऽतिविद्धो भृशं द्रौणिः पाण्डवेन महात्मना । 099a
ध्वजयष्टिं समासाद्य न्यमीलयत लोचने ॥ 099c
स मुहूर्तात्पुनः सञ्ज्ञां लब्ध्वा द्रौणिर्नराधिप । 100a
क्रोधं परममातस्थौ समरे रुधिरोक्षितः ॥ 100c
दृढं सोऽभिहतस्तेन पाण्डवेन महात्मना । 101a
वेगं चक्रे महाबाहुर्भीमसेनरथं प्रति ॥ 101c
तत आकर्णपूर्णानां शराणां तिग्मतेजसाम् । 102a
शतमाशीविषाभानां प्रेषयामास भारत ॥ 102c
भीमोऽपि समरश्लाघी तस्य वीर्यमचिन्तयत् । 103a
तूर्णं प्रासृजदुग्राणि शरवर्षाणि पाण्डवः ॥ 103c
ततो द्रौणिर्महाराज च्छित्त्वाऽस्य विशिखैर्धनुः । 104a
आजघानोरसि क्रुद्धः पाण्डवं निशितैः शरैः ॥ 104c
ततोऽन्यद्धनुरादाय भीमसेनो ह्यमर्षणः । 105a
विव्याध निशितैर्बाणैर्द्रौणिं पञ्चभिराहवे ॥ 105c
जीमूताविव घर्मान्ते तौ शरौघप्रवर्षिणौ । 106a
अन्योन्यक्रोधताम्राक्षौ छादयामासतुर्युधि ॥ 106c
तलशब्दैस्ततो घोरैस्त्रासयन्तौ परस्परम् । 107a
अयुध्येतां सुसंरब्धौ कृतप्रतिकृतैषिणौ ॥ 107c
ततो विष्फार्य सुमहच्चापं रुक्मविभूषितम् । 108a
भीमं प्रैक्षत स द्रौणिः शरानस्यन्तमन्तिकात् । 108c
शरद्यहर्मध्यगतो द्रीप्तार्चिरिव भास्करः ॥ 108e
आददनास्य विशिखान्सन्दधानस्य चाशुगान् । 109a
विकर्षतो मुञ्चतश्च नान्तरं ददृशुर्जनाः ॥ 109c
अलातचक्रप्रतिमं तस्य मण्डलमायुधम् । 110a
द्रौणेरासीन्महाराज बाणान्विसृजतस्तदा ॥ 110c
धनुश्च्युताः शरास्तस्य शतशोऽथ सहस्रशः । 111a
आकाशे प्रत्यदृश्यन्त शलभानामिवायतीः ॥ 111c
ते तु द्रौणिविनिर्मुक्ताः शरा हेमविभूषिताः । 112a
अजस्रमन्वकीर्यन्त घोरा भीमरथं प्रति ॥ 112c
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् । 113a
बलं वीर्यं प्रभावं च व्यवसायं च भारत ॥ 113c
तां स मेघादिवोद्भूतां बाणवृष्टिं समन्ततः । 114a
जलवृष्टिं महाघोरां तपान्त इव चिन्तयन् ॥ 114c
द्रोणपुत्रवधप्रेप्सुर्भीमो भीमपराक्रमः । 115a
अमुञ्चच्छरवर्षाणि प्रावृषीव बलाहकः ॥ 115c
तद्रुक्मपृष्टं भीमस्य धनुर्घोरं महारणे । 116a
विकृष्यमाणं विबभौ शक्रचापमिवापरम् ॥ 116c
तस्माच्छराः प्रादुरासञ्छतशोऽथ सहस्रशः । 117a
सञ्छादयन्तः समरे द्रौणिमाहवशोभिनम् ॥ 117c
तयोर्विसृजतोरेवं शरजालानि मारिष । 118a
वायुरप्यन्तरा राजन्नाशक्नोत्प्रतिसर्पितुम् ॥ 118c
तथा द्रौणिर्महाराज शरान्हेमविभूषितान् । 119a
तैलधौतान्प्रसन्नाग्रान्प्राहिणोद्वधकाङ्क्षया ॥ 119c
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत् | 120a
विशेषयन्द्रोणसुतं तिष्ठतिष्ठेति चाब्रवीत् ॥ 120c
पुनश्च शरवर्षाणि घोराण्युग्राणि पाण्डवः । 121a
व्यसृजद्बलवान्क्रुद्धो द्रोणपुत्रवधेप्सया ॥ 121c
ततोऽस्त्रमायया तूर्णं शरवृष्टिं निवार्य ताम् । 122a
धनुश्चिच्छेद भीमस्य द्रोणपुत्रो महास्त्रवित् । 122c
शरैश्चैनं सुबहुभिः क्रुद्धः सङ्ख्ये पराभिनत् ॥ 122e
स छिन्नधन्वा बलवान्रथशक्तिं सुदारुणाम् | 123a
वेगेनाविध्य चिक्षेप द्रोणपुत्ररथं प्रति ॥ 123c
तामापतन्तीं सहसा महोल्काभां शितैः शरैः । 124a
चिच्छेद समरे द्रौणिर्दर्शयन्पाणिलाघवम् ॥ 124c
एतस्मिन्नन्तरे भीमो दृढमादाय कार्मुकम् । 125a
द्रौणिं विव्याध विशिखैः स्मयमानो वृकोदरः ॥ 125c
ततो द्रौणिर्महाराज भीमसेनस्य सारथिम् । 126a
ललाटे दारयामास शरेणानतपर्वणा ॥ 126c
सोऽतिविद्धो बलवता द्रोणपुत्रेण सारथिः । 127a
व्यामोहमगमद्राजन्रश्मीनुत्सृज्य वाजिनाम् ॥ 127c
ततोऽश्वाः प्राद्रवंस्तूर्णं मोहिते रथसारथौ । 128a
भीमसेनस्य राजेन्द्र पश्यतां सर्वधन्विनाम् ॥] 128c
तं दृष्ट्वा प्रद्रुतैरश्वैरपकृष्टं रणाजिरात् । 129a
दध्मौ प्रमुदितः शङ्खं बृहन्तमपराजितः ॥ 129c
ततः सर्वे च पाञ्चाला भीमसेनश्च पाण्डवः । 130a
धृष्टद्युम्नरथं त्यक्त्वा भीताः सम्प्राद्रवन्दिशः ॥ 130c
तान्प्रभग्नांस्ततो द्रौणिः पृष्ठतो विकिरञ्शरान् । 131a
अभ्यवर्तत वेगेन कालयन्पाण्डुवाहिनीम् ॥ 131c
ते वध्यमानाः समरे द्रोणपुत्रेण पार्थिवाः । 132a
द्रोणपुत्रभयाद्राजन्दिशः सर्वाश्च भेजिरे ॥ ॥ 132c
इति श्रीमन्महाभारते द्रोणपर्वण नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे एकाधिकद्विशततमोऽध्यायः ॥ 201 ॥
5-201-50 * एतदादि 14 श्लोकाः झ. पुस्तक एव दृश्यन्ते । 5-201-88 * एतदादि 42 श्लोकाः झ. पाठ एव सन्ति । एकाधिकद्विशततमोऽध्यायः ॥