श्रीः
अध्यायः 200
द्रोणमारणरुष्टेनाश्वत्थाम्ना वैरिसेनायां नारायणास्त्रप्रयोगः ॥ 1 ॥ अस्त्रतेजसा पीड्यमानानां कृष्णवचनात् यानावरोहणशस्त्रन्यासादिना आत्मरक्षणम् ॥ 2 ॥ भीमे एकस्मिन्नेव शस्त्रधारणेन प्रतियुध्यमाने सति तन्मस्तकेऽस्त्रस्य प्रज्वलनम् ॥ 3 ॥
सञ्जय उवच 001
ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः । 001a
युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः ॥ 001c
ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम् । 002a
अश्वकिम्पुरुषाकीर्णं शरासनलतावृतम् ॥ 002c
क्रव्यादपक्षिसङ्घुष्टं भूतयक्षगणाकुलम् । 003a
निहत्य शात्रवान्भल्लैः सोऽचिनोद्देहपर्वतम् ॥ 003c
ततो वेगेन महता विनद्य स नरर्षभः । 004a
प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम् ॥ 004c
यदत्र च्छद्मनाऽऽचार्यं धर्मकञ्चुकमास्थितः । 005a
मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः ॥ 005c
तस्मात्सम्पश्यतस्तस्य द्रावयिष्यामि वाहिनीम् । 006a
विद्राव्य सर्वान्हन्ताऽस्मि जाल्मं पाञ्चाल्यमेव तु ॥ 006c
सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे । 007a
सत्यं ते प्रतिजानामि परिवर्तय वाहिनीम् ॥ 007c
तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत् । 008a
सिंहनादेन महता व्यपोह्य सुमहद्भयम् ॥ 008c
ततः समागमो राजन्कुरुपाण्डवसेनयोः । 009a
पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव ॥ 009c
संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः । 010a
उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च ॥ 010c
तेषां परमहृष्टानां जयमात्मनि पश्यताम् । 011a
संरब्धानां महावेगः प्रादुरासीद्विशाम्पते ॥ 011c
यथा शिलोच्चये शैलः सागरैः सागरो यथा । 012a
प्रतिहन्येत राजेन्द्र तथाऽसन्कुरुपाण्डवाः ॥ 012c
'चुक्षुभे पृथिवी सर्वा दिशश्च प्रतिसस्वनुः । 013a
सम्भ्रान्तान्यपि भूतानि जलजान्यपि मारिष । 013c
ते च सर्वे तदा योधाः सम्प्रहृष्टा युयुत्सवः ॥' 013e
ततः शङ्खसहस्राणि भेरीणामयुतानि च । 014a
अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः ॥ 014c
यथा निर्मथ्यमानस्य सागरस्य तु निःस्वनः । 015a
अभवत्तव सैन्यस्य सुमहानद्भुतोपमः ॥ 015c
'वर्तमाने तथा शब्दे रौद्रे तस्मिन्भयानके । 016a
सम्पतत्सु रथौघेषु तव तेषां च भारत ॥' 016c
प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा । 017a
अभिसन्धाय पाण्डूनां पाञ्चालानां च वाहिनीम् ॥ 017c
प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः । 018a
पाण्डवान्क्षपयिष्यन्तो दीप्तास्याः पन्नगा इव ॥ 018c
ते दिशः खं च सैन्यं च समावृण्वन्महाहवे । 019a
मुहूर्ताद्भास्करस्येव लोके राजन्गभस्तयः ॥ 019c
तथाऽपरे द्योतमाना ज्योतींषीवामलाम्बरे । 020a
प्रादुरासन्महाराज कार्ष्णायसमया गुडाः ॥ 020c
चतुश्चक्रा द्विचक्राश्च शतघ्न्यो बहुला गदाः । 021a
चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः ॥ 021c
शस्त्राकृतिभिराकीर्णमतीव पुरुषर्षभ । 022a
दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः ॥ 022c
यथायथा ह्ययुध्यन्त पाण्डवानां महारथाः । 023a
तथातथा तदस्त्रं वै व्यवर्धत जनाधिप ॥ 023c
वध्यमानास्तदाऽस्त्रेण तेन नारायणेन वै । 024a
दह्यमानाऽनलेनेव सर्वतोऽभ्यर्दिता रणे ॥ 024c
यथा हि शिशिरापाये दहेत्कक्षं हुताशनः । 025a
तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो ॥ 025c
आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति च प्रभो । 026a
जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः ॥ 026c
द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम् । 027a
मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम् ॥ 027c
धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया । 028a
सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो महान् ॥ 028c
वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम् । 029a
श्रेयो ह्युपदिशत्येष लोकस्य किमुतात्मनः ॥ 029c
सङ्ग्रामस्तु न कर्तव्यः सर्वसैन्यान्ब्रवीमि वः । 030a
अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम् ॥ 030c
भीष्मद्रोणार्णवं तीर्त्वा सङ्ग्रामे भीरुदुस्तरे । 031a
विमज्जिष्यामि सलिले सगणो द्रौणिगोष्पदे ॥ 031c
कामः सम्पद्यतामस्य बीभत्सोराशु मां प्रति । 032a
कल्याणवृत्तिराचार्यो मया युधि निपातितः ॥ 032c
येन बालः स सौभद्रो युद्धानामविशारदः । 033a
समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः ॥ 033c
येन विब्रुवती प्रश्नं तथा कृष्णा सभां गता । 034a
उपेक्षिता सपुत्रेण दासीभावं नियच्छती ॥ 034c
'रक्षणे च महान्यत्नः सैन्धवस्य कृतो युधि । 035a
अर्जुनस्य विघातार्थं प्रतिज्ञा येन रक्षिता ॥ 035c
व्यूहद्वारि वयं चैव धृता येन जिगीषवः । 036a
वारितं च महत्सैन्यं प्रविशत्तद्यथाबलम् ॥' 036c
जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वन्येषु फल्गुनम् । 037a
कवचेन तथा गुप्तो रक्षार्थं सैन्धवस्य च ॥ 037c
येन ब्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः । 038a
कुर्वाणा मज्जये यत्नं समूला विनिपातिताः ॥ 038c
'ग्रहणे च परो यत्नः कृतस्तेन यथा मम । 039a
विदितं सर्वमेवैतद्भवतां सर्वयोधिनाम् ॥' 039c
येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः । 040a
निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः ॥ 040c
'वनवासान्निवृत्तानां समये च तथा कृते । 041a
स्नेहश्च दर्शितो नित्यं प्रत्यक्षं वो महारथाः ॥' 041c
योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम् । 042a
हतस्तदर्थे मरणं गमिष्यामि सबान्धवः ॥ 042c
सञ्जय उवाच 043
एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः । 043a
निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत् ॥ 043c
शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत । 044a
एष योगोऽत्र विहितः प्रतिघाते महात्मनः ॥ 044c
द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत । 045a
एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान् ॥ 045c
यथायथा हि युध्यन्ते योधा ह्यस्त्रमिदं प्रति । 046a
तथातथा भवन्त्येते कौरवा बलवत्तराः ॥ 046c
निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये । 047a
येऽञ्जलिं कुर्वते वीर नमन्ति च विवाहनाः । 047c
तान्नैतदस्त्रं सङ्ग्रामे निहनिष्यति मानवान् ॥ 047e
ये त्वेतत्प्रतियोत्स्यन्ति मनसाऽपीह केचन । 048a
निहनिष्यति तान्सर्वान्रसातलगतानपि ॥ 048c
ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत । 049a
ईषुः सर्वे समुत्स्रष्टुं मनोभिः करणेन च ॥ 049c
तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः । 050a
भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः ॥ 050c
न कथञ्चन शस्त्राणि मोक्तव्यानीह केनचित् । 051a
अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः ॥ 051c
गदयाऽप्यनया गुर्व्या हेमविग्रहया रणे । 052a
कालवत्प्रहरिष्यामि द्रौणेरस्त्रं विशातयन् ॥ 052c
न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह । 053a
यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते ॥ 053c
पश्यतेमौ हि मे बाहू नागराजकरोपमौ । 054a
समर्थौ पर्वतस्यापि शैशिरस्य निपातने ॥ 054c
नागायुतसमप्राणो ह्यहमेको नरेष्विह । 055a
शक्रो यथाऽप्रतिद्वन्द्वो दिवि देवेषु विश्रुतः ॥ 055c
अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि । 056a
ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे ॥ 056c
यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते । 057a
अद्यैतत्प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु ॥ 057c
अर्जुनार्जुन बीभत्सो न न्यस्यं गाण्डिवं त्वया । 058a
शशाङ्कस्येव ते पङ्को नैर्मल्यं पातयिष्यति ॥ 058c
अर्जुन उवाच 059
भीम नारायणास्त्रे मे गोषु च ब्राह्मणेषु च । 059a
एतेषु गाण्डिवं न्यस्यमेतद्धि व्रतमुत्तमम् ॥ 059c
एवमुक्तस्ततो भीमो द्रोणपुत्रमरिन्दमम् । 060a
अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा ॥ 060c
'कम्पयन्मेदिनीं सर्वां त्रासयंश्च चमूं तव । 061a
शङ्खशब्दं महत्कृत्वा भुजशब्दं च पाण्डवः ॥ 061c
तस्य शङ्खस्वनं श्रुत्वा बाहुशब्दं च तावकाः । 062a
समन्तात्कोष्ठकीकृत्य शरव्रातैरवाकिरन् ॥' 062c
स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः । 063a
निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत् ॥ 063c
ततो द्रौणिः प्रहस्यैनं द्रवन्तमभिभाष्य च । 064a
अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः ॥ 064c
पन्नगैरिव दीप्तास्यैर्वमद्भिर्ज्वलनं रणे । 065a
अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः ॥ 065c
तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे । 066a
खद्योतैरावृतस्येव पर्वतस्य दिनक्षये ॥ 066c
तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति । 067a
अवर्धत महाराज यथाऽग्निरनिलोद्धतः ॥ 067c
विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम् । 068a
पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत् ॥ 068c
ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले । 069a
अवारोहन्रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः ॥ 069c
तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च । 070a
तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत् ॥ 070c
हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः । 071a
भीमसेनमपश्यन्त तेजसा संवृतं तथा ॥ ॥ 071c
इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे द्विशततमोऽध्यायः ॥ 200 ॥
7-200-20 गुडाः गोलाः हला इति क. ख. पाठः ॥ 7-200-40 अस्माभिरस्मदीयैर्विदुरादिभिर्निवार्यमाणेन निषिध्यमानेनापि तद्वनमनुगन्तुं प्रवेष्टुमेषिता अनुमता नतु प्रतिषिद्धा इत्यर्थः ॥ द्विशततमोऽध्यायः ॥