श्रीः अध्यायः 199 सात्यकिनिष्ठुरभाषणरुष्टेन धृष्टद्युम्नेन समर्मोद्घाटनं तद्गर्हणम् ॥ 1 ॥ धृष्टद्युम्नजिघांसया गदामुद्यम्यापततः सात्यकेः कृष्णचोदितेन भीमेन निवारणम् ॥ 2 ॥ सर्वेषां पुनर्युद्धोद्यमः ॥ 3 ॥ धृतराष्ट्र उवाच 001
साङ्गा वेदा यथान्यायं येनाधीता महात्मना । 001a
यस्मिन्साक्षाद्धनुर्वेदो ह्रीनिषेवे प्रतिष्ठितः ॥ 001c
यस्य प्रसादात्कुर्वन्ति कर्माणि पुरुषर्षभाः । 002a
अमानुषाणि सङ्ग्रामे देवैरसुकराणि च ॥ 002c
तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मणा । 003a
नीचं कर्म कृतं तेन क्षुद्रेण गुरुघातिना ॥ 003c
नामर्षं तत्र कुर्वन्ति धिक्क्षात्रं धिगमर्षिताम् ॥ 004ac
पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः । 005a
श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व सञ्जय ॥ 005c
सञ्जय उवाच 006
श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः । 006a
तूष्णीं बभूवू राजानः सर्व एव विशाम्पते ॥ 006c
अर्जुनस्तु कटाक्षेण जिह्मं विप्रेक्ष्य पार्षतम् । 007a
सबाष्पमतिनिःश्वस्य धिग्धिगित्येव चाब्रवीत् ॥ 007c
युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथाऽपरे । 008a
आसन्सुव्रीडिता राजन्सात्यकिस्त्वब्रवीदिदम् ॥ 008c
नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम् । 009a
भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् ॥ 009c
एते त्वां पाण्डवाः सर्वे कुत्सयन्ति विवित्सया । 010a
कर्मणा तेन पापेन श्वपाकं ब्राह्मणा इव ॥ 010c
एतत्कृत्वा महत्पापं निन्दितः सर्वसाधुभिः । 011a
न लज्जसे कथं वक्तुं समितिं प्राप्य शोभनाम् ॥ 011c
कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते । 012a
गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे ॥ 012c
वाच्यस्त्वमसि पार्थैश्च सर्वैश्चान्धकवृष्णिभिः । 013a
यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि ॥ 013c
अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन् । 014a
वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता ॥ 014c
कस्त्वेतद्व्यवसेत्पापं त्वदन्यः पुरुषाधम । 015a
निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः ॥ 015c
सप्तावरे तथा पूर्वे बान्धवास्ते निमज्जिताः । 016a
यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् ॥ 016c
उक्तवांश्चापि यत्पार्थे भीष्मं प्रति नरर्षभ । 017a
तथान्तो विहितस्तेन स्वयमेव महात्मना ॥ 017c
तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः । 018a
नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत् ॥ 018c
स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल । 019a
शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः ॥ 019c
पाञ्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः । 020a
त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः ॥ 020c
पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि । 021a
शिरस्ते पोथयिष्यामि गदया वज्रकल्पया ॥ 021c
त्वां च ब्रह्महणं दृष्ट्वा जनः सूर्यमवेक्षते । 022a
ब्रह्महत्या हि ते पापं प्रायश्चित्तार्थमात्मनः ॥ 022c
पाञ्चालक सुदुर्वृत्त ममैव गुरुमग्रतः । 023a
गुरोर्गुरुं च भूयोऽपि क्षिपन्नैव हि लज्जसे ॥ 023c
तिष्ठतिष्ठ सहस्वैकं गदापातमिमं मम । 024a
तव चापि सहिष्येऽहं गदापाताननेकशः ॥ 024c
सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम् । 025a
संरब्धं सात्यकिं प्राह सङ्क्रुद्धः प्रहसन्निव ॥ 025c
धृष्टद्युम्न उवाच 026
श्रूयते श्रूयते चेति क्षम्यते चेति माधव । 026a
सदाऽनार्योऽशुभः साधुं पुरुषं क्षेप्तुमिच्छति ॥ 026c
क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम् । 027a
क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते ॥ 027c
स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः । 028a
आकेशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि ॥ 028c
'वरं हि ते मृतिः पाप न च ते चित्तमीदृशम् । 029a
श्रोतुं वक्तव्यतामूलं नीचाचाराश्च मानवाः । 029c
परान्क्षिपन्ति दोषेण स्वेषु दोषेष्वदृष्टयः ॥' 029e
यः स भूरिश्रवाश्छिन्नभुजः प्रायगतस्त्वया । 030a
वार्यमाणेन हि हतस्ततः पापतरं नु किम् ॥ 030c
प्रेषमाणो मया द्रोणो दिव्येनास्त्रेण संयुगे । 031a
विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम् ॥ 031c
अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम् । 032a
छिन्नबाहुं परैर्हन्यात्सात्यके स कथं वदेत् ॥ 032c
निहत्य त्वां पदा भूमौ स विकर्षति वीर्यवान् । 033a
किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः ॥ 033c
त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः । 034a
यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् ॥ 034c
यत्रयत्र तु पाण्डूनां द्रोणो द्रावयते चमूम् । 035a
किरञ्छरसहस्राणि तत्रतत्र प्रयाम्यहम् ॥ 035c
स त्वमेवंविधं कृत्वा कर्म चण्डालवत्स्वयम् । 036a
वक्तुमर्हसि वक्तव्यः कस्मात्त्वं परुषाण्यथ ॥ 036c
कर्ता त्वं कर्मणो ह्यस्य नाहं वृष्णिकुलाधम । 037a
पापानां च त्वमावासः कर्मणां मा पुनर्वद ॥ 037c
जोषमास्व न मां भूयो वक्तुमर्हस्यतः परम् । 038a
अधरोत्तरमेतद्धि यन्मां त्वं वक्तुमर्हसि ॥ 038c
अथ वक्ष्यसि मां मौर्ख्याद्भूयः परुषमीदृशम् । 039a
गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम् ॥ 039c
न चैव मूर्ख धर्मेण केवलेनैव शक्यते । 040a
तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम् ॥ 040c
वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः । 041a
द्रौपदी च परिक्लिष्टा तथाऽधर्मेण सात्यके ॥ 041c
प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया । 042a
सर्वस्वमपकृष्टं च तथाऽधर्मेण बालिश ॥ 042c
अधर्मेणापकृष्टश्च मद्रराजः परैरितः । 043a
अधर्मेण तथा बालः सौभद्रो विनिपातितः ॥ 043c
इतोऽप्यधर्मेण हतो भीष्मः परपुरञ्जयः । 044a
भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः ॥ 044c
एवं परैराचरितं पाण्डवेयैश्च संयुगे । 045a
रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत ॥ 045c
दुर्ज्ञेयः स परो धर्मस्तथाऽधर्मश्च दुर्विदः । 046a
युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम् ॥ 046c
सञ्जय उवाच 047
एवमादीनि वाक्यानि क्रूराणि परुषाणि च । 047a
श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत् ॥ 047c
तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम् । 048a
विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः ॥ 048c
ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमब्रवीत् । 049a
न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् ॥ 049c
तमापतन्तं सहसा महाबलममर्षणम् । 050a
पाञ्चाल्यायाभिसङ्क्रुद्धमन्तकायान्तकोपमम् ॥ 050c
चोदितो वासुदेवेन भीमसेनो महाबलः । 051a
अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत् ॥ 051c
द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली । 052a
प्रस्पन्दमानमादाय जगाम बलिनं बलात् ॥ 052c
स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुङ्गवः । 053a
निगृहीतः पदे षष्ठे बलेन बलिनां वरः ॥ 053c
अवरुह्य रथात्तूर्णं ध्रियमाणं बलीयसा । 054a
उवाच श्लक्ष्णया वाचा सहदेवो विशाम्पते ॥ 054c
अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते । 055a
परमन्धकवृष्णिभ्यः पाञ्चलेभ्यश्च मारिष ॥ 055c
तथैवान्धकवृष्णीनां तथैव च विशेषतः । 056a
कृष्णस्य च तथाऽस्मत्तो मित्रमन्यन्न विद्यते ॥ 056c
पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम् । 057a
नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः ॥ 057c
स भवानीदृशं मित्रं मन्यते च यथा भवान् । 058a
भवन्तश्च यथाऽस्माकं भवतां च तथा वयम् ॥ 058c
स एवं सर्वधर्मज्ञ मित्रधर्ममनुस्मरन् । 059a
नियच्छ मन्युं पाञ्चाल्यात्प्रशाम्य शिनिपुङ्गव ॥ 059c
पार्षतस्य क्षम त्वं वै क्षमतां पार्षतश्च ते । 060a
वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत् ॥ 060c
प्रशाम्यमाने शैनेये सहदेवेन मारिष । 061a
पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत् ॥ 061c
मुञ्चमुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम् । 062a
आसादयतु मामेष धराधरमिवानिलः ॥ 062c
यावदस्य शितैर्बाणैः संरम्भं विनयाम्यहम् । 063a
युद्धश्रद्धां च कौन्तेय जीवितं चास्य संयुगे ॥ 063c
किं नु शक्यं मया कर्तुं यत्कार्यमिदमुच्यताम् । 064a
सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः ॥ 064c
अथवा फल्गुनः सर्वान्वारयिष्यति संयुगे । 065a
अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः ॥ 065c
मन्यते च्छिन्नबाहुं मां भूरिश्रवसमाहवे । 066a
उत्सृजैनमहं चैनमेष वा मां हनिष्यति ॥ 066c
शृण्वन्पाञ्चालवाक्यानि सात्यकिः सर्पवच्छ्वसन् । 067a
भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली ॥ 067c
तौ वृषाविव नर्दन्तौ बलिनौ बाहुशालिनौ । 068a
त्वरया वासुदेवश्च धर्मराजश्च मारिष । 068c
यत्नेन महता वीरौ वारयामासतुस्ततः ॥ 068e
निवार्य परमेष्वासौ कोपसंरक्तलोचनौ । 069a
युयुत्सूनपरान्सङ्ख्ये प्रतीयुः क्षत्रियर्षभाः ॥ ॥ 069c

इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे एकोनद्विशततमोऽध्यायः ॥ 199 ॥