श्रीः
अध्यायः 198
साधिक्षेपमश्वत्थामतो युधिष्ठिरं भीषयन्तं पार्थं प्रति भीमेन सामर्षमात्मबलवर्णनादिपूर्वकं स्वेनाश्वत्थामादिविजयप्रतिज्ञानम् ॥ 1 ॥ धृष्टद्युम्नेनाप्यर्जुनं प्रति सक्रोधं क्षात्रधर्मादिकथनपूर्वकं स्वकृतद्रोणवधस्य धार्मिकत्वकथनम् ॥ 2 ॥
सञ्जय उवाच 001
अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः । 001a
अप्रियं वा प्रियं वाऽपि महाराज धनञ्जयम् ॥ 001c
ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत । 002a
कुत्सयन्निव कौन्तेयमर्जुनं भरतर्षभ ॥ 002c
मुनिर्यथाऽरण्यगतो भाषते धर्मसंहितम् । 003a
न्यस्तदण्डो यथा पार्थं ब्राह्मणः संशितव्रतः ॥ 003c
क्षतत्राता क्षताज्जीवन्क्षन्ता स्त्रीष्वपि साधुषु । 004a
क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियः ॥ 004c
स भवान्क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः । 005a
अविपश्चिद्यथा वाचं व्याहरन्नाद्य शोभसे ॥ 005c
पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः । 006a
न चातिवर्तसे धर्मं वेलामिव महोदधिः ॥ 006c
न पूजयेत्त्वां कोन्वद्य यत्त्रयोदशवार्षिकम् । 007a
अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे ॥ 007c
दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते । 008a
आनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत ॥ 008c
यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः । 009a
द्रौपदी च परामृष्टा सभामानीय शत्रुभिः ॥ 009c
वनं प्रव्राजिताश्चास्म वल्कलाजिनवाससः । 010a
अनर्हमाणास्तं भावं त्रयोदश समाः परैः ॥ 010c
'बहूनि क्षाम्य शत्रूणां सत्यधर्मरता वयम् । 011a
तथा तन्मर्षयित्वा तु यथा ते उत्पथे स्थिताः ॥' 011c
एतान्यमर्षस्थानानि मर्षितानि त्वयाऽघन । 012a
क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम् ॥ 012c
तमधर्ममपाकृष्टं स्मृत्वाऽद्य सहितस्त्वया । 013a
सानुबन्धान्हनिष्यामि क्षुद्रान्राज्यहरानहम् ॥ 013c
त्वया हि कथितं पूर्वं युद्धायाभ्यागता वयम् । 014a
घटामहे यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे ॥ 014c
स्वधर्मं नेच्छसे ज्ञातुं वृथा वचनमेव ते । 015a
भयार्दितानामस्माकं वाचा मर्माणि कृन्तसि ॥ 015c
वपन्व्रणे क्षारमिव क्षतानां शत्रुकर्शन । 016a
विदीर्यते मे हृदयं त्वया वाक्शल्यपीडितम् ॥ 016c
अधर्ममेनं विपुलं धार्मिकः सन्न बुध्यसे । 017a
यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि ॥ 017c
वासुदेवे स्थिते चापि द्रोणपुत्रं प्रशंससि । 018a
यः कलां षोडशीं पूर्णां धनञ्जय न तेऽर्हति ॥ 018c
स्वयमेवात्मनो दोषान्ब्रुवाणः किं न लज्जसे ॥ 019ac
'मम नागायुतं पार्थ बलं बाह्वोर्विधीयते ।' 020a
दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान् ॥ 020c
आविध्यैतां गदां गुर्वीं भीमां काञ्चनमालिनीम् । 021a
गिरिप्रकाशान्क्षितिजान्भञ्जेयमनिलो यथा ॥ 021c
द्रावयेयं शरैश्चापि सेन्द्रान्देवान्समागतान् । 022a
सराक्षसगणान्पार्थ सासुरोरगमानवान् ॥ 022c
स त्वमेवंविधं जानन्भ्रातरं मां नरर्षभ । 023a
द्रोणपुत्राद्भयं कर्तुं नार्हस्यमितविक्रम ॥ 023c
अथवा तिष्ठ बीभत्सो सह सर्वैः सहोदरैः । 024a
अहमेनं गदापाणिर्जेष्याम्येको महाहवे ॥ 024c
ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत् । 025a
सङ्क्रुद्धमिव नर्दन्तं हिरण्यकशिपुर्हरिम् ॥ 025c
धृष्टद्युम्न उवाच 026
बीभत्सो विप्रकर्माणि विहितानि मनीषिभिः । 026a
याजनाध्यापने दानं यथा यज्ञप्रतिग्रहौ ॥ 026c
षष्ठमध्ययनं नाम तेषां कस्मिन्प्रतिष्ठितः । 027a
हतो द्रोणो मया ह्येवं किं मां पार्थ विगर्हसे ॥ 027c
अपक्रान्तः स्वधर्माच्च क्षात्रधर्मं व्यपाश्रितः । 028a
अधर्मेण हतस्तस्मादस्त्रेण क्षुद्रकर्मकृत् ॥ 028c
तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम् । 029a
प्रतिमायी निहन्याद्यो न युक्तं पार्थ तत्र किम् ॥ 029c
तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा । 030a
कुरुते भैरवं नादं तत्र किं मम हीयते ॥ 030c
न चाद्भुतमिदं मन्ये यद्द्रौणिश्चात्र गर्जति । 031a
घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन् ॥ 031c
यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम् । 032a
तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात् ॥ 032c
यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणे । 033a
तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनञ्जय ॥ 033c
यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्च्छितः । 034a
सर्वोपायैर्न स कथं वध्यः पुरुषसत्तम ॥ 034c
विशेषात्पितृहन्ता मे न स वध्यः कथं मया । 035a
योऽयं पापः सुदुर्मेधा बान्धवान्युधि जघ्निवान् । 035c
तस्य विप्रब्रुववधे कथं पापं भवेन्मम ॥' 035e
विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम् । 036a
जानन्धर्मार्थतत्त्वज्ञ किं मामर्जुन गर्हसे ॥ 036c
नृशंसः स मयाऽऽक्रम्य रथ एव निपातितः । 037a
तन्मामनिन्द्यं बीभत्सो किमर्थं नाभिनन्दसे ॥ 037c
कालानलसमं पार्थ ज्वलनार्कविषोपमम् । 038a
भीमं द्रोणशिरश्छिन्नं न प्रशंससि मे कथम् ॥ 038c
योऽसौ ममैव नान्यस्य बान्धवान्युधि जघ्निवान् । 039a
छित्त्वाऽपि तस्य मूर्धानं नैवास्मि विगतज्वरः ॥ 039c
तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया । 040a
निषादविषये क्षिप्तं जयद्रथशिरो यथा ॥ 040c
अथावधश्च शत्रूणामधर्मः श्रूयतेऽर्जुन । 041a
क्षत्रियस्य हि धर्मोऽयं हन्याद्धन्येत वा पुनः ॥ 041c
स शत्रुर्निहतः सङ्ख्ये मया धर्मेण पाण्डव । 042a
यथा त्वया हतः शूरो भगदत्तः पितुः सखा ॥ 042c
पितामहं रणे हत्वा मन्यसे धर्ममात्मनः । 043a
मया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे ॥ 043c
सम्बन्धावनतं पार्थ न मां त्वं वक्तुमर्हसि । 044a
स्वगात्रकृतसोपानं निषण्णमिव दन्तिनम् ॥ 044c
क्षमामि ते सर्वमेव वाग्व्यतिक्रममर्जुन । 045a
द्रौपद्या द्रौपदेयानां कृते नान्येन हेतुना ॥ 045c
कुलक्रमागतं वैरं ममाचार्येण विश्रुतम् । 046a
तथा जानात्ययं लोको न यूयं पाण्डुनन्दनाः ॥ 046c
नानृती पाण्डवो ज्येष्ठो नाहं वाऽधार्मिकोऽर्जुन । 047a
'न क्षत्रिय इति प्राहुर्यो न हन्ति रणाजिरे ॥ 047c
पितरं वा गुरुं वाऽपि जिघांसुं पुत्रशिष्ययोः । 048a
जिह्मेन वाऽप्यजिह्मेन हन्यादेवाविचारयन् ॥ 048c
इत्युक्तं ब्रह्मणा पूर्वं क्षत्रियाणां द्विषद्वधे । 049a
तस्माच्छिष्येण निहतः शत्रुर्मे ब्राह्मणब्रुवः ॥ 049c
यः क्षत्रियसुतो हन्यात्पितरं वा गुरुं च वा । 050a
अनिष्टं क्षत्रियो हन्यात्स वै क्षत्रिय उच्यते ।' 050c
शिष्यद्रोही हतः पापो युध्यस्व विजयस्तव ॥ ॥ 050e
इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि अष्टनवत्यधिकशततमोऽध्यायः ॥ 198 ॥
5-198-25 हिरण्यकशिपुं हरिरिति क. ख. पाठः ॥ अष्टनवत्यधिकशततमोऽध्यायः ॥