श्रीः अध्यायः 197 कुरुसेनारवश्रवणभीतेन युधिष्ठिरेण पलायितसेनाप्रतिनिवर्तकप्रश्ने अर्जुनेन तत्कथनपूर्वकं द्रोणवधोपेक्षणादात्मोपालम्भः ॥ 1 ॥ सञ्जय उवाच 001
प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे प्रभो । 001a
प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ॥ 001c
चचाल पृथिवी चापि चुक्षुभे च महोदधिः । 002a
प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः ॥ 002c
शिखराणि व्यशीर्यन्त गिरीणां तत्र भारत । 003a
अपसव्यं मृगाश्चैव पाण्डुसेनां प्रचक्रिरे ॥ 003c
तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत् । 004a
सम्पतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् ॥ 004c
देवदानवगन्धर्वास्त्रस्तास्त्वासन्विशाम्पते । 005a
कथङ्कथाऽभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत् ॥ 005c
व्यथिताः सर्वराजानस्त्रस्ताश्चासन्विशाम्पते । 006a
तद्दृष्ट्वा घोररूपं वै द्रौणेरस्त्रं भयावहम् ॥ 006c
धृतराष्ट्र उवाच 007
निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे । 007a
भृशं शोकाभितप्तेन पितुर्वधममृष्यता ॥ 007c
कुरूनापततो दृष्ट्वा धृष्टद्मुम्नस्य रक्षणे । 008a
को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व सञ्जय ॥ 008c
सञ्जय उवाच 009
प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः । 009a
पुनश्च तुमुलं शब्दं श्रुत्वाऽर्जुनमथाब्रवीत् ॥ 009c
युधिष्ठिर उवाच 010
आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे । 010a
निहते वज्रहस्तेन यथा वृत्रे महासुरे ॥ 010c
नाशंसन्तो जयं युद्धे दीनात्मानो धनञ्जय । 011a
आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो रणात् ॥ 011c
केचिद्भ्रान्तै रथैस्तूर्णं निहतैः पार्ष्णियन्तृभिः । 012a
विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः ॥ 012c
भग्ननीडैराकुलाश्वैः प्रारुह्यान्यान्विचेतसः । 013a
भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथान् ॥ 013c
भग्नाक्षयुगचक्रैश्च व्याकृष्यन्त समन्ततः । 014a
रथान्विशीर्णानुत्सृज्य पद्भिः केचिच्च विद्रुताः ॥ 014c
हयपृष्ठगताश्चान्ये कृष्यन्तेऽर्धच्युतासनाः । 015a
गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः ॥ 015c
शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश । 016a
विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः ॥ 016c
सञ्छिन्ना नेमिभिश्चैव मृदिताश्च हयद्विपैः । 017a
क्रोशन्तस्तात पुत्रेति पलायन्ते परे भयात् ॥ 017c
नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः । 018a
पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान् ॥ 018c
जलेन क्लेदयन्त्यन्ये विमुच्य कवचनान्यपि । 019a
'पलायनपराश्चान्ये योधाः शतसहस्रशः ॥' 019c
अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम् । 020a
पुनरावर्तितं केन यदि जानासि शंस मे ॥ 020c
हयानां ह्रेषतां शब्दः कुञ्जराणां च बृंहताम् । 021a
रथनेमिस्वनैश्चात्र विमिश्रः श्रूयते महान् ॥ 021c
एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे । 022a
मुहुर्मुहुरुदीर्यन्ते कम्पयन्त्यपि मामकान् ॥ 022c
य एष तुमुलः शब्दः श्रूयते रोमहर्षणः । 023a
सेन्द्रानप्येष लोकांस्त्रीन्ग्रसेदिति मतिर्मम ॥ 023c
मन्ये वज्रधरस्यैष निनादो भैरवस्वनः । 024a
द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः ॥ 024c
प्रहृष्टरोमकूपाः स्मः संविग्नरथकुञ्जराः । 025a
धनञ्जय गुरुं श्रुत्वा तत्र नादं सुभीषणम् ॥ 025c
क एष कौरवान्दीर्णानवस्थाप्य महारथः । 026a
निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा ॥ 026c
अर्जुन उवाच 027
उद्यम्यात्मानमुग्राय कर्मणे वीर्यमास्थिताः । 027a
धमन्ति कौरवाः शङ्खान्यस्य वीर्यं समाश्रिताः ॥ 027c
यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते । 028a
धार्तराष्ट्रानवस्थाप्य क एष नदतीति हि ॥ 028c
ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम् । 029a
'इन्द्रविष्णुसमं वीर्ये कोपेऽन्तकमिव स्थितम् ॥ 029c
बृहस्पतिसमं बुद्ध्या नीतिमन्तं महारथम् ।' 030a
आख्यास्याम्युग्रकर्माणं कुरूणामभयङ्करम् ॥ 030c
यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम् । 031a
ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति ॥ 031c
जातमात्रेण वीरेण येनोच्चैःश्रवसा यथा । 032a
ह्रेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः ॥ 032c
तच्छ्रुत्वान्तर्हितं भूतं नाम तस्याकरोत्तदा । 033a
अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव ॥ 033c
यो ह्यनाथ इवाक्रम्य पार्षतेन हतस्तथा । 034a
कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः ॥ 034c
गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत् । 035a
तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः ॥ 035c
'स हि तेनैव नः सर्वान्क्षपयेदिति मे मतिः ॥' 036ac
उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात् । 037a
धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः ॥ 037c
चिरं स्थास्यति चाकीर्तिस्त्रैलोक्ये सचराचरे । 038a
रामे वालिवधाद्यद्वदेवं द्रोणे निपातिते ॥ 038c
सर्वधर्मोपपन्नोऽयं स मे शिष्यश्च पाण्डवः । 039a
नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि ॥ 039c
स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम् । 040a
आचार्य उक्तो भवता हतः कुञ्जर इत्युत ॥ 040c
ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः । 041a
आसीत्सुविह्वलो राजन्यथा दृष्टस्त्वया विभुः ॥ 041c
स तु शोकसमाविष्टो विमुखः पुत्रवत्सलः । 042a
शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः ॥ 042c
न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान् । 043a
रक्षत्विदानीं सामात्यो यदि शक्तोसि पार्षतम् ॥ 043c
ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना । 044a
सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम् ॥ 044c
सौहार्दं सर्वभूतेषु यः करोत्यतिमानुषः । 045a
सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे ॥ 045c
विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि । 046a
अपाकीर्य स्वयं धर्मं शिष्येण निहतो गुरुः ॥ 046c
यदा गतं वयो भूयः शिष्टमल्पतरं च नः । 047a
तस्येदानीं विरोधोऽयमधर्मोऽयं कृतो महान् ॥ 047c
पितेव नित्यं सौहार्दात्पितेव हि च धर्मतः । 048a
सोऽल्पकालस्य राज्यस्य कारणाद्घातितो गुरुः ॥ 048c
धृतराष्ट्रेण भीष्माय द्रोणाय च विशाम्पते । 049a
विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः ॥ 049c
सम्प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः । 050a
अब्रवीत्सततं पुत्रान्मामेवाभ्यधिकं गुरुः ॥ 050c
अवेक्षमाणस्त्वां मां च न्यस्तास्त्रश्चाहवे हतः । 051a
न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः ॥ 051c
तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः । 052a
कृतो ह्यनार्यैरस्माभी राज्यार्थे लुब्धबुद्धिभिः ॥ 052c
अहो बत महत्पापं कृतं कर्म सुदारुणम् । 053a
यद्राज्यसुखलोभेन द्रोणोऽयं साधुघातितः ॥ 053c
पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः । 054a
त्यजेत्सर्वं मम प्रेम्णा जानात्येवं हि मे गुरुः ॥ 054c
स मया राज्यकामेन हन्यमानो ह्युपेक्षितः । 055a
तस्मादर्वाक्शिरा राजन्प्राप्तोऽस्मि नरकं प्रभो ॥ 055c
ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं महामुनिम् । 056a
घातयित्वाऽद्य राज्यार्थे मृतं श्रेयो न जीवितम् ॥ ॥ 056c

इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे सप्तनवत्यधिकशततमोऽध्यायः ॥ 197 ॥

5-197-1 सपृषतः सजलबिन्दुः । अनभ्रे अप्रावृषिकाले ॥ 5-197-5 कथङ्कथा कथं कर्तव्यं कथं कर्तव्यमित्येवंशब्दः ॥ 5-197-8 रक्षणे मन्त्रः क आसीदिति सम्बन्धः ॥ 5-197-30 व्याघ्रास्यमुग्रकर्माणमिति झ. पाठः ॥ 5-197-31 यस्मिन्निति दशशतमित्यनेन सर्वगोधनं ददाविति ज्ञेयम् । अन्यथा एकधेन्वर्थं द्रुपदं प्रति द्रोणगमनस्यासम्भवः । यद्वा भाविनीं सम्पदमभिलक्ष्यैतद्दानं द्रष्टव्यम् । पुत्रोत्पत्तिकाले तस्य निर्धनत्वोक्तेः ॥ 5-197-39 सत्यकञ्चुकं सत्याभासमनृतम् ॥ 5-197-53 वासविरर्जुनः ॥ सप्तनवत्यधिकशततमोऽध्यायः ॥