श्रीः
अध्यायः 195
धृतराष्ट्रेण सञ्जयम् प्रति द्रोणवधश्राविणाश्वत्थाम्ना किमुक्तमिति प्रश्नः ॥ 1 ॥
धृतराष्ट्र उवाच 001
अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन सञ्जय । 001a
ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत् ॥ 001c
मानवं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान् । 002a
ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम् ॥ 002c
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे । 003a
श्रुत्वा निहतमाचार्यं सोऽश्वत्थामा किमब्रवीत् ॥ 003c
येन रामादवाप्येह धनुर्वेदं महात्मना । 004a
प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुणकाङ्क्षिणा ॥ 004c
एकमेव हि लोकेऽस्मिन्नात्मतो गुणवत्तरम् । 005a
इच्छन्ति पुरुषाः पुत्रं लोके नान्यं कथञ्चन ॥ 005c
आचार्याणां भवन्त्येव रहस्यानि महात्मनाम् । 006a
तानि पुत्राय वा दद्युः शिष्यायानुगताय वा ॥ 006c
स शिष्यः प्राप्य तत्सर्वं सविशेषं च सञ्जय । 007a
शूरः शारद्वतीपुत्रः सङ्ख्ये द्रोणादनन्तरः ॥ 007c
रामस्य तु समः शस्त्रे पुरन्दरसमो युधि । 008a
कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ ॥ 008c
महीधरसमः स्थैर्ये तेजसाऽग्निसमो युवा । 009a
समुद्र इव गाम्भीर्ये क्रोधे चाशीविषोपमः ॥ 009c
स रथी प्रथमो लोके दृढधन्वा जितक्लमः । 010a
शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः ॥ 010c
अस्यता येन सङ्ग्रामे धरण्यभिनिपीडिता । 011a
'मेघस्तनितनिर्घोषं कम्पते भयविह्वला ।' 011c
यो न व्यथति सङ्ग्रामे वीरः सत्यपराक्रमः ॥ 011e
वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः । 012a
महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा ॥ 012c
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे । 013a
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ॥ 013c
धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना । 014a
यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत् ॥ 014c
तं नृशंसेन पापेन क्रूरेणादीर्घदर्शिना । 015a
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ॥ ॥ 015c
इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे पञ्चनवत्यधिकशततमोऽध्यायः ॥ 195 ॥
5-195-4 पुत्राय गुरुकाङ्क्षिणे इति क. झ. पाठः ॥ पञ्चनवत्यधिकशततमोऽध्यायः ॥