श्रीः
अध्यायः 194
दुर्योधनचोदनया कृपेण द्रोणवधं श्रावितस्याश्वत्थाम्नः कोपोदयः ॥ 1 ॥
सञ्जय उवाच 001
ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः । 001a
हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः ॥ 001c
उदीर्णांश्च परान्दृष्ट्वा हर्षमाणान्पुनः पुनः । 002a
अश्रुपूर्णेक्षणास्त्रस्ता दीनास्त्वासन्विशाम्पते ॥ 002c
विचेतसो हतोत्साहाः कश्मलाभिहतौजसः । 003a
आर्तस्वरेण महता पुत्रं ते पर्यवारयन् ॥ 003c
विषण्णवदना दीना वीक्षमाणा दिशो दश । 004a
अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते ॥ 004c
स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव । 005a
अशक्नुवन्नवस्थातुमपायात्तनयस्तव ॥ 005c
क्षुत्पिपासापरिम्लानास्ते योधास्तव भारत । 006a
आदित्येनेव सन्तप्ता भृशं विमनसोऽभवन् ॥ 006c
भास्करस्येव पतनं समुद्रस्येव शोषणम् । 007a
विपर्यासं यथा मेरोर्वासवस्येव निर्जयम् ॥ 007c
अप्रेक्षणीयं तद्दृष्ट्वा भारद्वाजस्य पातनम् । 008a
त्रस्तरूपतरा राजन्कौरवाः प्राद्रवन्भयात् ॥ 008c
गान्धारराजः शकुनिस्त्रस्तस्त्रस्ततरैः सह । 009a
हतं रुक्मरथं श्रुत्वा प्राद्रवत्सहितो रथैः ॥ 009c
वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम् । 010a
परिगृह्य महासेनां सूतपुत्रोऽपयाद्भयात् ॥ 010c
रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम् । 011a
मद्राणामीश्वरः शल्यो वीक्षमाणोऽपयाद्भयात् ॥ 011c
हतप्रवीरैर्भूयिष्ठैर्ध्वजैर्बहुपताकिभिः । 012a
वृतः शारद्वतोऽगच्छत्कष्टङ्कष्टमिति ब्रुवन् ॥ 012c
भोजनीकेन शिष्टेन कलिङ्गारट्टबाह्लिकैः । 013a
कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः ॥ 013c
पदातिगणसंयुक्तस्त्रस्तो राजन्भयार्दितः । 014a
उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम् ॥ 014c
दर्शनीयो युवा चैव शौर्येण कृतलक्षणः । 015a
दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः ॥ 015c
रथानामयुतं गृह्य त्रिसाहस्रं च दन्तिनाम् । 016a
वृषसेनो ययौ तूर्णं दृष्ट्वा द्रोणं निपातितम् ॥ 016c
गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः । 017a
दुर्योधनो महाराज प्रायात्तत्र महारथः ॥ 017c
संशप्तकगणाद्गृह्य हतशेषान्किरीटिना । 018a
सुशर्मा प्राद्रावद्राजन्दृष्ट्वा द्रोणं निपातितम् ॥ 018c
गजान्रथान्समारुह्य व्युदस्य च हयाञ्जनाः । 019a
प्राद्रवन्सर्वतः सङ्ख्ये दृष्ट्वा रुक्मरथं हतम् ॥ 019c
त्वरयन्तः पितॄनन्ये भ्रातॄनन्येऽथ मातुलान् । 020a
पुत्रानन्ये वयस्यांश्च प्राद्रवन्कुरवस्तदा ॥ 020c
चोदयन्तश्च सैन्यानि स्वस्रीयांश्च तथाऽपरे । 021a
सम्बन्धिनस्तथाऽन्ये च प्राद्रवन्त दिशो दश ॥ 021c
प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः । 022a
नेदमस्तीति मन्वाना हतोत्साहा हतौजसः ॥ 022c
उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो । 023a
अन्योन्यं ते समाक्रोशन्सैनिका भरतर्षभ ॥ 023c
तिष्ठतिष्ठेति न च ते स्वयं तत्रावतस्थिरे । 024a
धुर्यानुन्मुच्य च रथाद्धतसूतात्स्वलङ्कृतान् । 024c
अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन् ॥ 024e
द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि । 025a
प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात् ॥ 025c
तस्यासीत्सुमहद्युद्धं शिखण्डिप्रमुखैर्गणैः । 026a
प्रभद्रकैश्च पाञ्चालैश्चेदिभिश्च सकेकयैः ॥ 026c
हत्वा बहुविधाः सेनाः पाण्डूनां युद्धदुर्मदः । 027a
कथञ्चित्सङ्कटान्मुक्तो मत्तद्विरदविक्रमः ॥ 027c
द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम् । 028a
दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम् ॥ 028c
किमियं द्रवते सेना त्रस्तरूपेव भारत । 029a
द्रवमाणां च राजेन्द्र नावस्थापयसे रणे ॥ 029c
त्वं चापि न यथा पूर्वं प्रकृतिस्थो नराधिप । 030a
कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिव ॥ 030c
अन्येष्वपि च युद्धेषु नैव सेनाऽद्रवत्तदा । 031a
कच्चित्क्षेमं महाबाहो तव सैन्यस्य भारत ॥ 031c
कस्मिन्निदं हते राजन्रथसिंहे बलं तव । 032a
एतामवस्थां सम्प्राप्तं तन्ममाचक्ष्व कौरव ॥ 032c
तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम् । 033a
घोरमप्रियमाख्यातुं नाशक्नोत्पार्थिवर्षभः ॥ 033c
भिन्ना नौरिव ते पुत्रो मग्नः शोकमहार्णवे । 034a
बाष्पेणापिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम् ॥ 034c
ततः शारद्वतं राजा सव्रीडमिदमब्रवीत् । 035a
शंसात्र भद्रं ते सर्वं यथा सैन्यमिदं द्रुतम् ॥ 035c
अथ शारद्वतो राजन्नार्तिमार्च्छन्पुनःपुनः । 036a
शशंस द्रोणपुत्राय यथा द्रोणो निपातितः ॥ 036c
कृप उवाच । 037
वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम् । 037a
प्रावर्तयाम सङ्ग्रामं पाञ्चालैरेव केवलम् ॥ 037c
ततः प्रवृत्ते सङ्ग्रामे विमिश्राः कुरुसोमकाः । 038a
अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन् ॥ 038c
वर्तमाने तथा युद्धे क्षीयमाणेषु संयुगे । 039a
धार्तराष्ट्रेषु सङ्क्रुद्धः पिता तेऽस्त्रमुदैरयत् ॥ 039c
ततो द्रोणो ब्राह्ममस्त्रं विकुर्वाणो नरर्षभः । 040a
व्यहनच्छात्रवान्भल्लैः शतशोऽथ सहस्रशः ॥ 040c
पाण्डवाः केकया मात्स्याः पाञ्चालाश्च विशेषतः । 041a
सङ्ख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः ॥ 041c
सहस्रं नरसिंहानां द्विसाहस्रं च दन्तिनाम् । 042a
द्रोणो ब्रह्मास्त्रयोगेन प्रेषयामास मृत्यवे ॥ 042c
आकर्णपलितश्यामो वयसाऽशीतिपञ्चकः । 043a
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥ 043c
क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु । 044a
अमर्षवशमापन्नाः पाञ्चाला विमुखाऽभवन् ॥ 044c
तेषु किञ्चित्प्रभग्नेषु विमुखेषु सपत्नजित् । 045a
दिव्यमस्त्रं विकुर्वाणो बभूवार्क इवोदितः ॥ 045c
स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान् । 046a
मध्यं गत इवादित्यो दुष्प्रेक्ष्यस्ते पिताऽभवत् ॥ 046c
ते दह्यमाना द्रोणेन सूर्येणेव विराजता । 047a
दग्धवीर्या निरुत्साहा बभूवुर्गतचेतसः ॥ 047c
तान्दृष्ट्वा पीडितान्बाणैर्द्रोणेन मधुसूदनः । 048a
जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत् ॥ 048c
नैष जातु नरैः शक्यो जेतुं शस्त्रभृतां वरः । 049a
अपि वृत्रहणा सङ्ख्ये रथयूथपयूथपः ॥ 049c
ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः । 050a
यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः ॥ 050c
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम । 051a
हतं तं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः ॥ 051c
एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनञ्जयः । 052a
अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः ॥ 052c
भीमसेनस्तु सव्रीडमब्रवीत्पितरं तव । 053a
अश्वत्थामा हत इति तं नाबुध्यत ते पिता ॥ 053c
स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत । 054a
हतं वाऽप्यहतं वाऽऽजौ त्वां पिता पुत्रवत्सलः ॥ 054c
तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः । 055a
अश्वत्थामानमायोधे हतं दृष्ट्वा महागजम् ॥ 055c
भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः । 056a
उपसृत्य तदा द्रोणमुच्चैरिदमुवाच ह ॥ 056c
यस्यार्थे शस्त्रमादत्से यमवेक्ष्य च जीवसि । 057a
पुत्रस्ते दयितो नित्यं सोश्वत्थामा निपातितः ॥ 057c
शेते विनिहतो भूमौ वने सिंहशिशुर्यथा ॥ 058ac
जानन्नप्यनृतस्याथ दोषान्स द्विजसत्तमम् । 059a
अव्यक्तमब्रवीद्राजा हतः कुञ्जर इत्युत ॥ 059c
स त्वां निहतमाक्रन्दे श्रुत्वा सन्तापतापितः । 060a
नियम्य दिव्यान्यस्त्राणि नायुध्यत यथा पुरा ॥ 060c
तं दृष्ट्वा परमोद्विग्नं शोकातुरमचेतसम् । 061a
पाञ्चालराजस्य सुतः क्रूरकर्मा समाद्रवत् ॥ 061c
तं दृष्ट्वा परमोद्विग्नं शोकातुरमचेतसम् । 062a
दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्रायमुपाविशत् ॥ 062c
ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा । 063a
पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः ॥ 063c
न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन् । 064a
तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत् ॥ 064c
उद्यम्य त्वरितो बाहुं ब्रुवाणश्च पुनःपुनः । 065a
जीवन्तमानयाचार्यं मावधीरिति धर्मवित् ॥ 065c
तथा निवार्यमाणेन कौरवैरर्जुनेन च । 066a
हत एव नृशंसेन पिता तव नरर्षभ ॥ 066c
सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः । 067a
वयं चापि निरुत्साहा हते पितरि तेऽनघ ॥ 067c
सञ्जय उवाच 068
तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे । 068a
क्रोधमाहारयत्तीव्रं दण्डाहत इवोरगः ॥ 068c
ततः क्रुद्धो रणे द्रौणिर्भृशं जज्वाल मारिष । 069a
यथेन्धनं महत्प्राप्य प्राज्वलद्धव्यवाहनः ॥ 069c
तलं तलेन निष्पिष्य दन्तैर्दन्तानुपास्पृशत् । 070a
निःश्वसन्नुरगो यद्वल्लोहिताक्षोऽभवत्तदा ॥ ॥ 070c
इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे चतुर्नवत्यधिकशततमोऽध्यायः ॥ 194 ॥