श्रीः अध्यायः 193 द्रोणधृष्टद्युम्नयोर्युद्धम् ॥ 1 ॥ द्रोणेन सोपालम्भभीमवचःश्रवणेन शस्त्रन्यासपूर्वकं योगेन शरीरत्यागः ॥ 2 ॥ शरीरार्न्निर्गच्छतस्तेजोरूपस्य द्रोणस्य सञ्जयादिभिः पञ्चभिरेवावलोकनम् ॥ 3 ॥ धृष्टद्युम्नेन द्रोणशिरश्छेदः ॥ 4 ॥ सञ्जय उवाच 001
[*सात्वतस्य तु तत्कर्म दृष्ट्वा दुर्योधनादयः । 001a
शैनेयं सर्वतः क्रुद्धा वारयामासुरञ्जसा ॥ 001c
कृपकर्णौ च समरे पुत्राश्च तव मारिष | 002a
शैनेयं त्वरयाऽभ्येत्य विनिघ्नन्निशितैः शरैः ॥ 002c
युधिष्ठिरस्ततो राजा माद्रीपुत्रौ च पाण्डवौ । 003a
भीमसेनश्च बलवान्सात्यकिं पर्यवारयन् ॥ 003c
कर्णश्च शरवर्षेण गौतमश्च महारथः । 004a
दुर्योधनादयस्ते च शैनेयं पर्यवारयन् ॥ 004c
तां वृष्टिं सहसा राजन्नुत्थितां घोररूपिणीम् । 005a
वारयामास शैनेयो योधयंस्तान्महारथान् ॥ 005c
तेषामस्त्राणि दिव्यानि संहितानि महात्मनाम् । 006a
वारयामास विधिवद्दिव्यैरस्त्रैर्महामृधे ॥ 006c
क्रूरमायोधनं जज्ञे तस्मिन्राजसमागमे । 007a
रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तान्पशून्पुरा ॥ 007c
हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत । 008a
छत्राणां चापविद्धानां चामराणां च सञ्चयैः । 008c
राशयः स्म व्यदृश्यन्त तत्रतत्र रणाजिरे ॥ 008e
भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः । 009a
सादिभिश्च हतैः शूरैः सङ्कीर्णा वसुधाऽभवत् ॥ 009c
बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम । 010a
चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे ॥ 010c
वर्तमाने तथा युद्धे घोरे देवासुरोपमे । 011a
अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः ॥ 011c
अभिद्रवत संयत्ताः कुम्भयोनिं महारथाः । 012a
एषो हि पार्षतो वीरो भारद्वाजेन सङ्गतः ॥ 012c
घटते च यथाशक्ति भारद्वाजस्य नाशने । 013a
यादृशानि हि रूपाणि दृश्यन्तेऽस्य महारणे ॥ 013c
अद्य द्रोणं रणे क्रुद्धो घातयिष्यति पार्षतः । 014a
ते यूयं सहिता भूत्वा युध्यध्वं कुम्भसम्भवम् || 014c
युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः । 015a
अभ्यद्रवन्त संयत्ता भारद्वाजजिघांसवः ॥ 015c
तान्समापततः सर्वान्भारद्वाजो महारथः । 016a
अभ्यवर्तत वेगेन मर्तव्यमिति निश्चितः ॥ 016c
प्रयाते सत्यसन्धे तु समकम्पत मेदिनी । 017a
ववुर्वाताः सनिर्घातास्त्रासयाना वरूथिनीम् ॥ 017c
पपात महती चोल्का आदित्यान्निश्चरन्त्युत । 018a
दीपयन्ती उभे सेने शंसन्तीव महद्भयम् ॥ 018c
जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष । 019a
रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन् ॥ 019c
हतौजा इव चाप्यासीद्भारद्वाजो महारथः । 020a
प्रास्फुरन्नयनं चास्य वामबाहुस्तथैव च ॥ 020c
विमनाश्चाभवद्युद्धे दृष्ट्वा पार्षतमग्रतः ॥ 021ac
ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति । 022a
सुयुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे ॥] 022c
ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः । 023a
निर्दहन्क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे ॥ 023c
हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः । 024a
दशायुतानि करिणामवधीद्विशिखैः शितैः ॥ 024c
सोऽतिष्ठदाहवे यत्तो विधूमोऽग्निरिव ज्वलन् । 025a
क्षत्रियाणामभावाय ब्राह्ममस्त्रं समास्थितः ॥ 025c
पाञ्चाल्यं विरथं भीमो हतसर्वायुधं बली । 026a
सुविषण्णं महात्मानं त्वरमाणः समभ्ययात् ॥ 026c
ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः । 027a
अब्रवीदभिसम्प्रेक्ष्य द्रोणमस्यन्तमन्तिकात् ॥ 027c
न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान् । 028a
त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः ॥ 028c
स तथोक्तो महाबाहुः सर्वभारसहं धनुः । 029a
अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम् ॥ 029c
संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे । 030a
विवारयिषुराचार्यं शरवर्षैरवाकिरत् ॥ 030c
तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ । 031a
उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः ॥ 031c
स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे । 032a
निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः ॥ 032c
स वसातीञ्शिबींश्चैव बाह्लीकान्कौरवानपि । 033a
रक्षिष्यमाणान्सङ्ग्रामे द्रोणं व्यधमदच्युतः ॥ 033c
धृष्टद्युम्नस्तथा राजन्गभस्तिभिरिवांशुमान् । 034a
वभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः ॥ 034c
तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः । 035a
मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात् ॥ 035c
ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम् । 036a
शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत् ॥ 036c
यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः । 037a
स्वकर्मभिरसन्तुष्टा न स्म क्षत्रं क्षयं व्रजेत् ॥ 037c
अहिंसां सर्वभूतेषु धर्मं ज्यायस्तरं विदुः । 038a
तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः ॥ 038c
श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान् । 039a
'भरन्ति हि सुतान्दारांस्तद्वदज्ञानमोहिताः ॥' 039c
अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेप्सया । 040a
एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यया । 040c
स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम् ॥ 040e
'आचारहीन निर्लज्ज ब्रह्मबन्धो वरायुध । 041a
इदानीं तिष्ठ दुर्बुद्धे न मे जीवन्विमोक्ष्यसे ॥' 041c
यस्यार्थे शस्त्रमादाय यमपेक्ष्य च जीवसि । 042a
स चाद्य पतितः शेते पृष्टेनावेदितस्तवः ॥ 042c
'स वै च निहतः शेते तव पुत्रः सुमन्दधीः ।' 043a
धर्मराजस्य तद्वाक्यं नाभिशङ्कितुमर्हसि ॥ 043c
एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्धनुः । 044a
'सन्न्यासाय शरीरस्य योक्ष्यमाणः स वै द्विजः ।' 044c
सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभाषत ॥ 044e
'कर्णं दुर्योधनं राजंस्त्वरमाणः पराक्रमम् ।' 045a
कर्णकर्ण महेष्वास कृप दुर्योधनेति च ॥ 045c
सङ्ग्रामे क्रियतां यत्नो ब्रवीम्येष पुनःपुनः । 046a
पाण्डवेभ्यः शिवं वोस्तु शस्त्रमभ्युत्सृजाम्यहम् । 046c
इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च ॥ 046e
उत्सृज्य च रणे शस्त्रं रथोपस्थे निविश्य च । 047a
अभयं सर्वभूतानां प्रददौ योगमीयिवान् ॥ 047c
तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः प्रतापवान् । 048a
सशरं तद्धनुर्घोरं सन्न्यस्याथ रथे ततः । 048c
खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात् ॥ 048e
'प्रद्रुते त्वथ द्रोणाय धृष्टद्युम्ने महारथे ।' 049a
हाहाकृतानि भूतानि मानुषाणीतराणि च ॥ 049c
द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम् । 050a
हाहाकारं भृशं चक्रुरहो धिगिति चाबुवन् ॥ 050c
द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साङ्ख्यमास्थितः । 051a
तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः ॥ 051c
पुराणं पुरुषं विष्णुं जगाम मनसा परम् । 052a
मुखं किञ्चित्समुन्नाम्य विष्टभ्योरस्तथाग्रतः ॥ 052c
निमीलिताक्षः सत्वस्थो निक्षिप्य हृदि धारणाम् । 053a
ओमित्येकाक्षरं ब्रह्म ज्योतिर्भूतो महातपाः ॥ 053c
स्मरित्वा देवदेवेशमक्षरं परमं प्रभुम् । 054a
दिवमाक्रामदाचार्यः साक्षात्सद्भिर्दुराक्रमाम् ॥ 054c
'मूर्धानं तस्य निर्भिद्य ज्योती राजन्महात्मनः । 055a
जगाम परमं स्थानं देहं न्यस्य रथोत्तमे ॥' 055c
द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथागते । 056a
एकरूपमिवाभासीज्योतिर्भिः पूरितं नभः ॥ 056c
समपद्यत चोल्काभं द्रोणस्य निधने तदा । 057a
निमेषमात्रेण च तज्ज्योतिरन्तरधीयत ॥ 057c
आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम् । 058a
ब्रह्मलोकगते द्रोणे धृष्टद्युम्ने च मोहिते ॥ 058c
वयमेव तदाऽद्राक्ष्म पञ्च मानुषयोनयः । 059a
योगयुक्तं महात्मानं गच्छन्तं परमां गतिम् ॥ 059c
अहं धनञ्जयः पार्थः कृपः शारद्वतो द्विजः । 060a
वासुदेवश्च वार्ष्णेयो धर्मपुत्रश्च पाण्डवः ॥ 060c
अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः । 061a
महिमानं महाराज योगयुक्तस्य गच्छतः । 061c
ब्रह्मलोकं महद्दिव्यं देवगुह्यं हि तत्परम् ॥ 061e
गतिं परमिकां प्राप्तमजानन्तो नृयोनयः । 062a
नापश्यन्गच्छमानं हि तं सार्धमृषिपुङ्गवैः । 062c
आचार्यं योगमास्थाय ब्रह्मलोकमरिन्दमम् ॥ 062e
वितुन्नाङ्गं शरव्रातैर्न्यस्तायुधमसृक्क्षरम् । 063a
विकृष्य पार्षतः खड्गं क्रोधामर्षवशं गतः । 063c
दृश्यमानः सर्वभूतैः केशपक्षे परामृशत् ॥ 063e
तस्य मूर्धानमालम्ब्य गतसत्वस्य देहिनः । 064a
किञ्चिदब्रुवतः कायाद्विचकर्तासिना शिरः ॥ 064c
हर्षेण महता महता युक्तो भारद्वाजे निपातिते । 065a
सिंहनादरवं चक्रे भ्रामयन्खड्गमाहवे ॥ 065c
आकर्णपलितः श्यामो वयसाऽशीतिपञ्चकः । 066a
त्वत्कृते व्यचरत्सङ्ख्ये स तु षोडशवर्षवत् ॥ 066c
उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनञ्जयः । 067a
जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज ॥ 067c
न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह । 068a
उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाव्रजत् ॥ 068c
क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः । 069a
धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम् ॥ 069c
शोणितेन परिक्लिन्नो रथाद्भूमिमथापतत् । 070a
लोहिताङ्ग इवादित्यो दुर्धर्षः समपद्यत ॥ 070c
एवं तं निहतं सङ्ख्ये ददृशे सैनिको जनः । 071a
धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरोऽहरत् ॥ 071c
तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत् । 073a
ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः ॥ 073c
पलायनकृतोत्साहा दुद्रुवुः सर्वतोदिशम् । 074a
द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत् ॥ 074c
अहमेव तदाऽद्राक्षं द्रोणस्य निधनं नृप । 075a
ऋषेः प्रसादात्कृष्णस्य सत्यवत्याः सुतस्य च ॥ 075c
विधूमामिह संयान्तीमुल्कां प्रज्वलितामिव । 076a
अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम् ॥ 076c
हते द्रोणे निरुत्साहाः कुरुपाण्डवसृञ्जयाः । 077a
अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत ॥ 077c
निहता हतभूयिष्ठाः सङ्ग्रामे निशितैः शरैः । 078a
तावका निहते द्रोणे गतासव इवाभवन् ॥ 078c
पराजयमथावाप्य परत्र च महद्भयम् । 079a
उभयेनैव ते हीना व्यनिन्दन्मतिमात्मनः ॥ 079c
अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः । 080a
नान्वगच्छन्महाराज कबन्धायुतसङ्कुले ॥ 080c
'पतिते त्वथ संरब्धे सेनायां तत्र भारत । 081a
उदतिष्ठन्कबन्धानां सहस्राण्येकविंशतिः ॥ 081c
शोणितेन परिक्लिन्ना रणभूमिश्च भारत । 082a
लोहितार्द्र इवादित्यो दुर्दर्शश्चाभवत्तदा ॥' 082c
पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः । 083a
बाणशङ्खरवांश्चक्रुः सिंहनादांश्च पुष्कलान् ॥ 083c
भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः । 084a
वरूथिन्यामनृत्येतां परिष्वज्य परस्परम् ॥ 084c
अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम् । 085a
भूयोऽहं त्वां परिष्वज्य परिवक्ष्यामि पार्षत । 085c
सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे ॥ 085e
एतावदुक्त्वा भीमस्तु हर्षेण महता युतः । 086a
बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः ॥ 086c
तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि । 087a
क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः ॥ 087c
पाण्डवास्तु जयं लब्धा हृष्टा ह्यासन्विशाम्पते । 088a
अरिक्षयं च सङ्ग्रामे तेन ते सुखमाप्नुवन् ॥ ॥ 088c

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि पञ्चदशदिवसयुद्धे त्रिनवत्यधिकशततमोऽध्यायः ॥ 193 ॥

5-193-12 एषो हीति सन्धिरार्षः ॥ 5-193-22 ब्रह्मवादानां वेदतुल्यानां वचनानाम् । द्वितीयार्थे षष्ठी । श्रुत्वेति शेषः ॥ 5-193-01* कुण्डलिताः 22 श्लोकाः झपुस्तकएव दृश्यन्ते । 5-193-42 पृष्टेन त्वया पृष्टेन युधिष्ठिरेण आवेदितः हत इति निवेदितः ॥ 5-193-78 परत्र च महद्भयमिति पलायनस्य परलोकविरुद्धत्वात् । उभयेन लोकद्वयेन हीना रहिताः ॥ त्रिनवत्यधिकशततमोऽध्यायः ॥