श्रीः अध्यायः 192 अश्वत्थामवधश्रवणनिर्विण्णद्रोणमारणाय धृष्टद्युम्नसमुद्यमः ॥ 1 ॥ द्रोणग्रस्तस्य धृष्टद्युम्नस्य सात्यकिना विमोचनम् ॥ 2 ॥ सञ्जय उवाच 001
तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् । 001a
पाञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत् ॥ 001c
य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे । 002a
लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात् ॥ 002c
स धनुर्जैत्रमादाय घोरं जलदनिःस्वनम् । 003a
दृढज्यमजरं दिव्यं शरं चाशीविषोपमम् ॥ 003c
सन्दधे कार्मुके तस्मिंस्ततस्तमनलोपमम् । 004a
द्रोणं जिघांसुः पाञ्चाल्यो महाज्वालमिवानलम् ॥ 004c
तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे । 005a
द्योततो भास्करस्येव घनान्ते परिवेषिणः ॥ 005c
पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः । 006a
अन्तकालमनुप्राप्तं मेनिरे वीक्ष्य सैनिकाः ॥ 006c
तमिषुं संहतं तेन भारद्वाजः प्रतापवान् । 007a
दृष्ट्वाऽमन्यत देहस्य कालपर्यायमागतम् ॥ 007c
ततः प्रयत्नमातिष्ठदाचार्यस्तस्य वारणे । 008a
न चास्यास्त्राणि राजेन्द्र प्रादुरासन्महात्मनः ॥ 008c
तस्य त्वहानि चत्वारि क्षपा चैकाऽस्यतो गता । 009a
तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्रिणः ॥ 009c
स शरक्षयमासाद्य पुत्रशोकेन चार्दितः । 010a
विविधानां च दिव्यानामस्त्राणामप्रसादतः ॥ 010c
उत्स्रष्टुकामः शस्त्राणि ऋषिवाक्यप्रचोदितः । 011a
तेजसा पूर्यमाणश्च युयुधे न यथा पुरा ॥ 011c
भूयश्चान्यत्समादाय दिव्यमाङ्गिरसं धनुः । 012a
शरांश्च ब्रह्मदण्डाभान्धृष्टद्युम्नमयोधयत् ॥ 012c
ततस्तं शरवर्षेण महता समवाकिरत् । 013a
व्यशातयच्च सङ्क्रुद्धो धृष्टद्युम्नममर्षणम् ॥ 013c
शरांश्च शतधा तस्य द्रोणश्चिच्छेद सायकैः । 014a
ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत् ॥ 014c
धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम् । 015a
शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे ॥ 015c
सोऽतिविद्धो महेष्वासोऽसम्भ्रान्त इव संयुगे । 016a
भल्लेन शितधारेण चिच्छेदास्य पुनर्धनुः ॥ 016c
यच्चास्य बाणविकृतं धनूंषि च विशाम्पते । 017a
सर्वं चिच्छेद दुर्धर्षो गदां खड्गं च वर्जयन् ॥ 017c
धृष्टद्युम्नं च विव्याध नवभिर्निशितैः शरैः । 018a
जीवितान्तकरैः क्रुद्धः शिलाधौतैः परन्तपः ॥ 018c
धृष्टद्युम्नोऽथ तस्याश्वान्स्वरथाश्वैर्महारथः । 019a
व्यामिश्रयदमेयात्मा ब्राह्ममस्त्रमुदीरयन् ॥ 019c
ते मिश्रा बह्वशोभन्त जवना वातरंहसः । 020a
पारावतसवर्णाश्च शोणाश्च भरतर्षभ ॥ 020c
यथा सविद्युतो मेघा नदन्तो जलदागमे । 021a
तथा रेजुर्महाराज मिश्रिता रणमूर्धनि ॥ 021c
ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च । 022a
प्राणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः ॥ 022c
स च्छिन्नधन्वा पाञ्चाल्यो निकृत्तध्वजसारथिः । 023a
उत्तमामापदं प्राप्य गदां वीरः परामृशत् ॥ 023c
तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः । 024a
निजघान शरैर्द्रोणः क्रुद्धः सत्यपराक्रमः ॥ 024c
तां तु दृष्ट्वा नरव्याघ्रो द्रोणेन निहतां शरैः । 025a
विमलं खड्गमादत्त शतचन्द्रं च भानुमत् ॥ 025c
असंशयं तथाभूतः पाञ्चाल्यः साध्वमन्यत । 026a
वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः ॥ 026c
ततः स रथनीडस्थं स्वरथस्य रथेषया । 027a
अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत् ॥ 027c
चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः । 028a
इयेष वक्षो भेत्तुं स भारद्वाजस्य संयुगे ॥ 028c
सोऽतिष्ठद्युगमध्ये वै युगसन्नहनेषु च । 029a
जघनार्धेषु चाश्वानां तत्सैन्याः समपूजयन् ॥ 029c
तिष्ठतो युगपालीषु शोणानप्यधितिष्ठतः । 030a
नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत् ॥ 030c
क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः । 031a
तद्वदासीदभीसारो द्रोणपार्षतयो रणे ॥ 031c
तस्य पारावतानश्वान्रथशक्त्या पराभिनत् । 032a
सर्वानेकैकशो द्रोणो रक्तानश्वान्विवर्जयन् ॥ 032c
ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः । 033a
शोणास्तु पर्यमुच्यन्त रथबन्धाद्विशाम्पते ॥ 033c
तान्हयान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः । 034a
नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः ॥ 034c
विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः । 035a
द्रोणमभ्यपतद्राजन्वैनतेय इवोरगम् ॥ 035c
तस्य रूपं बभौ राजन्भारद्वाजं जिघांसतः । 036a
यथा रूपं पुरा विष्णोर्हिरण्यकशिपोर्वधे ॥ 036c
स तदा विविधान्मर्गान्प्रवरांश्चैकविंशतिम् । 037a
दर्शयामास कौरव्य पार्षतो विचरन्रणे ॥ 037c
भ्रान्तुमुद्भ्रान्तमाविद्धमाप्लुतं प्रसृतं सृतम् । 038a
परिवृत्तं निवृत्तं च खड्गं चर्म च धारयन् ॥ 038c
सम्पातं समुदीर्णं च दर्शयामास पार्षतः । 039a
भारतं कौशिकं चैव सात्वतं चैव शिक्षया । 039c
दर्शयन्व्यचरद्युद्धे द्रोणस्यान्तचिकीर्षया ॥ 039e
चरतस्तस्य तान्मर्गान्विचित्रान्खड्गचर्मिणः । 040a
व्यस्मयन्त रणे योधा देवताश्च समागताः ॥ 040c
ततः शरसहस्रेण शतचन्द्रमपातयत् । 041a
चर्म खड्गं च सम्बाधे धृष्टद्युम्नस्य स द्विजः ॥ 041c
ये तु वैतस्तिका नाम शरा आसन्नयोधिनः । 042a
निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः ॥ 042c
ऋते शारद्वतात्पर्थाद्द्रौणेर्वैकर्तनात्तथा । 043a
प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च भारत ॥ 043c
अथास्येषुं समाधत्त दृढं परमसम्मतम् । 044a
अन्तेवासिनमाचार्यो जिघांसुः पुत्रसम्मितम् ॥ 044c
तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुङ्गवः । 045a
पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः । 045c
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् ॥ 045e
चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम् । 046a
द्रोणकर्मान्तरगतं कृपस्यापि च भारत । 046c
अपश्येतां महात्मानौ विष्वक्सेनधनञ्जयौ ॥ 046e
अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधुसाध्विति । 047a
दिव्यान्यस्त्राणि सर्वेषां युधि निघ्नन्तमच्युतम् ॥ 047c
धनञ्जयस्ततः कृष्णमब्रवीत्पश्य केशव । 048a
आचार्यरथमुख्यानां मध्ये क्रीडन्मधूद्वहः ॥ 048c
आनन्दयति मां भूयः सात्यकिः परवीरहा । 049a
माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम् ॥ 049c
यच्छिक्षयाऽनुद्धतः सन्रणे चरति सात्यकिः । 050a
महारथानुपक्रीडन्वृष्णीनां कीर्तिवर्धनः ॥ 050c
तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः । 051a
अजय्यं समरे दृष्ट्वा साधुसाध्विति सात्यकिम् । 051c
योधाश्चोभयतः सर्वे कर्मभिः समपूजयन् ॥ ॥ 051e

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि पञ्चदशदिवसयुद्धे द्विनवत्यधिकशततमोऽध्यायः ॥ 192 ॥

5-192-38 खड्गं चर्म च धारयन्भ्रान्तादित्रयोदशविधं सञ्चरणं दर्शयामासेति सम्बन्धः ॥ 5-192-41 सम्बाधे रणसङ्कटे ॥ 5-192-42 वैतस्तिकाः वितस्तिप्रमाणाः ॥ द्विनवत्यधिकशततमोऽध्यायः ॥