श्रीः
अध्यायः 191
कृष्णेन युधिष्ठिरम् प्रति द्रोणजये तस्य शस्त्रन्यासस्य तत्रचाश्वत्थामवधश्रवणस्य हेतुत्वकथनम् ॥ 1 ॥ भीमेनाश्वत्थामनाम्नि गजे निहते युधिष्ठिरेण कृष्णचोदनया द्रोणम् प्रति तद्विवक्षया अश्वत्थामा हत इति कथनम् ॥ 2 ॥
सञ्जय उवाच 001
पाञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत् । 001a
यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा ॥ 001c
द्रोणास्त्रेण महाराज वध्यमानाः परे युधि । 002a
नात्रसन्त रणे द्रोणात्सत्ववन्तो महारथाः ॥ 002c
युध्यमाना महाराज पाञ्चालाः सृञ्जयास्तथा । 003a
द्रोणमेवाभ्ययुर्युद्धे योधयन्तो महारथाः ॥ 003c
तेषां तु च्छाद्यमानानां पाञ्चालानां समन्ततः । 004a
अभवद्भैरवो नादो वध्यतां शरवृष्टिभिः ॥ 004c
वध्यमानेषु सङ्ग्रामे पाञ्चालेषु महात्मना । 005a
उदीर्यमाणे द्रोणास्त्रे पाण्डवान्भयमाविशत् ॥ 005c
दृष्ट्वाऽश्वनरयोधानां विपुलं च क्षयं युधि । 006a
पाण्डवेया महाराज नाशशंसुर्जयं तदा ॥ 006c
कच्चिद्द्रोणो न नः सर्वान्क्षपयेत्परमास्त्रवित् । 007a
समिद्धः शिशिरापाये दहन्कक्षमिवानलः ॥ 007c
न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम् । 008a
न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित् ॥ 008c
त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान् । 009a
मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत् ॥ 009c
नैष युद्धेन सङ्ग्रामे जेतुं शक्यः कथञ्चन । 010a
सधनुर्धन्विनां श्रेष्ठो देवैरपि सवासवैः ॥ 010c
न्यस्तशस्त्रस्तु सङ्ग्रामे शक्यो हन्तुं भवेन्नृभिः । 011a
आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डवाः । 011c
यथा न संयुगे सर्वान्निहन्याद्रुक्मवाहनः ॥ 011e
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम । 012a
तं हतं संयुगे कश्चिदस्मै शंसतु मानवः ॥ 012c
एतन्नारोचयद्राजन्कुन्तीपुत्रो धनञ्जयः । 013a
अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः ॥ 013c
ततो भीमो महाबाहुरनीकेषु महागजम् । 014a
जघान गदया राजन्नश्वत्थामानमित्युत । 014c
परप्रमथनं घोरं मालवस्येन्द्रवर्मणः ॥ 014e
भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे । 015a
अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह ॥ 015c
अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत् । 016a
कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा ॥ 016c
भीमसेनवचः श्रुत्वा द्रोणस्तत्परमाप्रियम् । 017a
मनसा सन्नगात्रोऽभूद्यथा सैकतमम्भसि ॥ 017c
शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै । 018a
हतः स इति च श्रुत्वा नैव धैर्यादकम्पत ॥ 018c
स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत् । 019a
अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः ॥ 019c
स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः । 020a
अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम् ॥ 020c
तं विंशतिसहस्राणि पाञ्चालानां नरर्षभाः । 021a
यथा चरन्तं सङ्ग्रामे सर्वतोऽवाकिरञ्छरैः ॥ 021c
शरैस्तैराचितं द्रोणं नापश्याम महारथम् । 022a
भास्करं जलदै रुद्धं वर्षास्विव विशाम्पते ॥ 022c
विधूय तान्बाणगणान्पाञ्चालानां महारथः । 023a
प्रादुश्चक्रे ततो द्रोणो ब्राह्ममस्त्रं परन्तपः ॥ 023c
वधाय तेषां शूराणां पाञ्चालानाममर्षितः । 024a
ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसैनिकान् ॥ 024c
शिरांस्यपातयच्चापि पाञ्चालानां महामृधे । 025a
तथैव परिघाकारान्बाहून्कनकभूषणान् ॥ 025c
ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः । 026a
मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः ॥ 026c
कुञ्जराणां च पततां हयौघानां च भारत । 027a
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥ 027c
हत्वा विंशतिसाहस्रान्पाञ्चालानां रथव्रजान् । 028a
अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन् ॥ 028c
तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान् । 029a
वसुदानस्य भल्लेन शिरः कायादपाहरत् ॥ 029c
पुनः पञ्चशतान्मात्स्यान्षट्सहस्रांश्च सृञ्जयान् । 030a
हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः ॥ 030c
क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम् । 031a
ऋषयोऽभ्यागतास्तूर्णं हव्यवाहपुरोगमाः ॥ 031c
विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः । 032a
वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः ॥ 032c
सिकताः पृश्नयो गर्गा वालखिल्या मरीचिपाः । 033a
भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः ॥ 033c
त एनमब्रुवन्सर्वे द्रोणमाहवशोभिनम् । 034a
अधर्मतः कृतं युद्धं समयो निधनस्य ते ॥ 034c
न्यस्यायुधं रणे द्रोण समीक्षास्मानवस्थितान् । 035a
नातः क्रूरतरं कर्म पुनः कर्तुमिहार्हसि ॥ 035c
वेदवेदाङ्गविदुषः सत्यधर्मरतस्य ते । 036a
ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते ॥ 036c
त्यजायुधममोघेषो तिष्ठ वर्त्मनि शाश्वते । 037a
परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे ॥ 037c
ब्रह्मास्त्रेण त्वया दग्धा अनस्त्रज्ञा नरा भुवि । 038a
यदेतदीदृशं विप्र कृतं कर्म न साधु तत् ॥ 038c
न्यस्यायुधं रणे विप्र द्रोण मा त्वं चिरं कृथाः । 039a
मा पापिष्ठतरं कर्म करिष्यसि पुनर्द्विज ॥ 039c
इति तेषां वचः श्रुत्वा भीमसेनवचः स्मरन् । 040a
धृष्टद्युम्नं च सम्प्रेक्ष्य रणे स विमनाऽभवत् ॥ 040c
सन्दिह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम् । 041a
अहतं वा हतं वेति पप्रच्छ सुतमात्मनः ॥ 041c
स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम् । 042a
त्रयाणामपि लोकानामैश्वर्यार्थे कथञ्चन ॥ 042c
तस्मात्तं परिपप्रच्छ नान्यं कञ्चिद्द्विजर्षभः । 043a
तस्मिंस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे ॥ 043c
ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधाम्पतिम् । 044a
द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत् ॥ 044c
यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः । 045a
सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति ॥ 045c
स भवांस्त्रातु नो द्रोणात्सत्याज्ज्यायोऽनृतं वचः । 046a
अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः ॥ 046c
तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम् ॥ 047ac
श्रुत्वैवं तु महाराज वधोपायं महात्मनः । 048a
गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः ॥ 048c
अश्वत्थामेति विख्यातो गजः शक्रगजोपमः । 049a
निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम् ॥ 049c
अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति । 050a
नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः ॥ 050c
स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः । 051a
द्रोणाय निहतं शंस राजञ्शारद्वतीसुतम् ॥ 051c
त्वयोक्ते नैव युध्येत जातु राजन्द्विजर्षभः । 052a
सत्यवागिति लोकेऽस्मिन्भवान्ख्यातो जनाधिप ॥ 052c
तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः । 053a
भावित्वाच्च महाराज वक्तुं समुपचक्रमे ॥ 053c
तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः । 054a
'अश्वत्थामा हति इति शब्दमुच्चैश्चकार ह ।' 054c
अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत ॥ 054e
तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुलमुच्छ्रितः । 055a
बभूवैवं च तेनोक्ते तस्य वाहाः स्पृशन्महीम् ॥ 055c
युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः । 056a
पुत्रव्यसनसन्तप्तो निराशो जीवितेऽभवत् ॥ 056c
आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम् । 057a
ऋषिवाक्येन मन्वानः श्रुत्वा च निहतं सुतम् ॥ 057c
विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च । 058a
योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिन्दमः ॥ ॥ 058c
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि पञ्चदशदिवसयुद्धे एकनवत्यधिकशततमोऽध्यायः ॥ 191 ॥
5-191-51 जयैषिण इत्यस्य गोविन्दवाक्यानीत्यत्रैकदेशे गोविन्देऽन्वयः ॥ एकनवत्यधिकशततमोऽध्यायः ॥ 191 ॥