श्रीः
अध्यायः 190
सात्यकिदुर्योधनादीनां सङ्कुलयुद्धवर्णनम् ॥ 1 ॥
सञ्जय उवाच 001
तस्मिंस्तथा वर्तमाने गजाश्वनरसङ्क्षये । 001a
दुःशासनो महाराज धृष्टद्युम्नमयोधयत् ॥ 001c
स तु रुक्मरथासक्तो दुःशासनशरार्दितः । 002a
अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत् ॥ 002c
क्षणेन स रथस्तस्य सध्वजः सहसारथिः । 003a
नादृश्यत महाराज पार्षतस्य शरैश्चितः ॥ 003c
दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः । 004a
नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः ॥ 004c
स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः । 005a
किरञ्छरसहस्राणि द्रोणमेवाभ्ययाद्रणे ॥ 005c
अभ्यपद्यत हार्दिक्यः कृतवर्मा त्वनन्तरम् । 006a
सोदर्याणां त्रयश्चैव त एनं पर्यवारयन् ॥ 006c
तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ । 007a
द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम् ॥ 007c
सम्प्रहारमकुर्वंस्ते सर्वे च सुमहारथाः । 008a
अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः ॥ 008c
शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः । 009a
आर्यं युद्धमकुर्वन्त परस्परजिगीषवः ॥ 009c
शुक्लाभिजनकर्माणो मतिमन्तो जनाधिप । 010a
धर्मयुद्धमयुध्यन्त प्रेप्सन्तो गतिमुत्तमाम् ॥ 010c
न तत्रासीदधर्मिष्ठमशस्तं युद्धमेव च । 011a
नात्र कर्णी न नालीको न लिप्तो न च बस्तिकः ॥ 011c
न सूची कपिशो नैव न गवास्थिर्गजास्थिजः । 012a
न चूली बलिशस्तत्र न यमी नापि पाचकः । 012c
इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः ॥ 012e
ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन् । 013a
सुयुद्धेन पराल्ँलोकानीप्सन्तः कीर्तिमेव च ॥ 013c
तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम् । 014a
चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह ॥ 014c
धृष्टद्युम्नस्तु तान्दृष्ट्वा तव राजन्रथर्षभान् । 015a
यमाभ्यां वारितान्वीराञ्छीघ्रास्त्रो द्रोणमभ्ययात् ॥ 015c
निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः । 016a
समसज्जन्त चत्वारो वाताः पर्वतयोरिव ॥ 016c
द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुङ्गवौ । 017a
समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत ॥ 017c
दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम् । 018a
यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत् ॥ 018c
दुर्योधनो महाराज किरञ्छोणितभोजनान् । 019a
तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत ॥ 019c
तौ परस्परमासाद्य समीपे कुरुमाधवौ । 020a
हसमानौ नृशार्दूलावभीतौ समसज्जताम् ॥ 020c
बाल्यवृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ । 021a
अन्योन्यं प्रेक्षमाणौ च स्मयमानौ पुनःपुनः ॥ 021c
अथ दुर्योधनो राजा सात्यकिं समभाषत । 022a
प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः ॥ 022c
धिक् क्रोधं धिक्सखे लोभं धिङ्मोहं धिगमर्षितम् । 023a
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् ॥ 023c
यत्र मामभिसन्धत्से त्वां चाहं शिनिपुङ्गव । 024a
त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव ॥ 024c
स्मरामि तानि सर्वाणि बाल्यवृत्तानि यानि नौ । 025a
तानि सर्वाणि जीर्णानि साम्प्रतं नो रणाजिरे । 025c
किमन्यत्क्रोधलोभाभ्यां युद्धमेवाद्य सात्वत ॥ 025e
तं तथावादिनं तत्र सात्यकिः प्रत्यभाषत । 026a
प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित् ॥ 026c
नेयं सभा राजपुत्र नाचार्यस्य निवेशनम् । 027a
यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः ॥ 027c
दुर्योधन उवाच । 028
क्व सा क्रीडा गताऽस्माकं बाल्ये वै शिनिपुङ्गव । 028a
क्व च युद्धमिदं भूयः कालो हि दुरतिक्रमः ॥ 028c
किन्तु नो विद्यते कृत्यं धनेन धनलिप्सया । 029a
यत्र युध्यामहे सर्वे धनलोभात्समागताः ॥ 029c
सञ्जय उवाय 030
तं तथावादिनं तत्र राजानं माधवोऽब्रवीत् । 030a
एवं वृत्तं सदा क्षात्रं युध्यन्तीह गुरूनपि ॥ 030c
यदि तेऽहं प्रियो राजञ्जहि मां मा चिरं कृथाः । 031a
त्वत्कृते सुकृतांल्लोकान्गच्छेयं भरतर्षभ ॥ 031c
या ते शक्तिर्बलं यच्च तत्क्षिप्रं मयि दर्शय । 032a
नेच्छामि तदहं द्रष्टुं मित्राणां व्यसनं महत् ॥ 032c
इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः । 033a
अभ्ययात्तूर्णमव्यग्रो दयां नाकुरुतात्मनि ॥ 033c
तमायान्तं महाबाहुं प्रत्यगृह्णात्तवात्मजः । 034a
शरैश्चावाकिरद्राजञ्शैनेयं तनयस्तव ॥ 034c
ततः प्रववृते युद्धं कुरुमाधवसिंहयोः । 035a
अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः ॥ 035c
ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम् । 036a
दुर्योधनः प्रत्यविध्यत्कुपितो दशभिः शरैः ॥ 036c
तं सात्यकिः प्रत्यविध्यत्तथैवावाकिरच्छरैः । 037a
पञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह ॥ 037c
सात्यकिं तु रणे राजन्प्रहसंस्तनयस्तव । 038a
आकर्णपूर्णैर्निशितैर्विव्याध त्रिंशता शरैः ॥ 038c
ततोऽस्य सशरं चापं क्षुरप्रेण द्विधाऽच्छिनत् ॥ 039ac
सोऽन्यत्कार्मुकमादाय लघुहस्तस्ततो दृढम् । 040a
सात्यकिर्व्यसृजच्चापि शरश्रेणीं सुतस्य ते ॥ 040c
तामापतन्तीं सहसा शरश्रेणीं जिघांसया । 041a
चिच्छेद बहुधा राजा तत उच्चुक्रुशुर्जनाः ॥ 041c
सात्यकिं च त्रिसप्तत्या पीडयामास वेगितः । 042a
स्वर्णपुङ्खैः शिलाधौतैराकर्णापूर्णनिःसृतैः ॥ 042c
तस्य सन्दधतश्चेषुं संहितेषुं च कार्मुकम् । 043a
आच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाप्यवीविधत् ॥ 043c
स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरे । 044a
दुर्योधनो महाराज दाशार्हशरपीडितः ॥ 044c
समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात् । 045a
विसृजन्निषुजालानि युयुधानरथं प्रति ॥ 045c
तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति । 046a
सततं विसृजन्राजंस्तत्सङ्कुलमवर्तत ॥ 046c
तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च शरीरिषु । 047a
अग्नेरिव महाकक्षैः शब्दः समभवन्महान् ॥ 047c
तयोः शरसहस्रैश्च सञ्छन्नं वसुधातलम् । 048a
अगम्यरूपं च शरैराकाशं समपद्यत ॥ 048c
तत्राप्यधिकमालक्ष्य माधवं रथसत्तमम् । 049a
क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव ॥ 049c
न तु तं मर्षयामास भीमसेनो महाबलः । 050a
सोऽभ्ययात्त्वरितः कर्णं विसृजन्सायकान्बहून् ॥ 050c
तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव । 051a
धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः ॥ 051c
भीमसेनस्तु सङ्क्रुद्धो गदामादाय पाण्डवः । 052a
ध्वजं धनुश्च सूतं च सम्ममर्दाहवे रिपोः ॥ 052c
रथचक्रं च कर्णस्य बभञ्ज स महाबलः । 053a
भग्नचक्रे रथेऽतिष्ठदकम्पः शैलराडिव ॥ 053c
एकचक्रं रथं तस्य तमूहुः सुचिरं हयाः । 054a
एकचक्रमिवार्कस्य रथं सप्त हया यथा ॥ 054c
अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत । 055a
विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे ॥ 055c
भीमसेनस्तु सङ्क्रुद्धः सूतपुत्रमयोधयत् । 056a
तस्मिंस्तथा वर्तमाने क्रुद्धो धर्मसुतोऽब्रवीत् । 056c
पाञ्चालानां नरव्याघ्रान्मात्स्यांश्च पुरुषर्षभान् ॥ 056e
ये नः प्राणाः शिरो ये च ये नो योधा महारथाः । 057a
त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभान् ॥ 057c
किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः । 058a
तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः ॥ 058c
क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः । 059a
जयन्तो वध्यमानाश्च गतिमिष्टां गमिष्यथ ॥ 059c
जित्वा वा बहुभिर्यज्ञैर्यजध्वं भूरिदक्षिणैः | 060a
हता वा देवसाद्भूत्वा लोकान्प्राप्स्यथ पुष्कलान् || 060c
ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः । 061a
चतुर्धा वाहिनीं कृत्वा त्वरिता द्रोणमभ्ययुः ॥ 061c
पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्निशितैः शरैः । 062a
भीमसेनपुरोगाश्चाप्येकतः पर्यवारयन् ॥ 062c
आसंस्तु पाण्डुपुत्राणां त्रयो जिह्मा महारथाः । 063a
यमौ च भीमसेनश्च प्राक्रोशंस्ते धनञ्जयम् ॥ 063c
अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद । 064a
तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम् ॥ 064c
कौरवेयांस्ततः पार्थः सहसा समुपाद्रवत् । 065a
पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान् । 065c
ममर्दुस्तरसा वीराः पञ्चमेऽहनि भारत ॥ ॥ 065e
इति श्रीमन्महाभारते द्रोणवधपर्वणि पञ्चदशदिवसयुद्धे नवत्यधिकशततमोऽध्यायः ॥ 190 ॥
5-190-6 त्रयो धृष्टद्युम्नोऽन्यौ द्वौ च ॥ 5-190-10 शुक्लः शुद्धोऽभिजनो वंशो येषां ते स्वयं शोधितकर्माणश्च ॥ 5-190-11 अशस्तमप्रशस्यम् । प्रशस्यत्वमाह नात्रेति । कर्णी विलोमकण्टकद्वययुक्तः । सहि उद्ध्रियमाणोऽन्त्राण्युद्धरति । नालीकः अल्पत्वाद्देहमग्नः सन् दुरुद्धरः । न लिप्तो विषेणेति शेषः । बस्तिकः शल्यदण्डसन्धौ शिथिलस्तस्योद्धरणे शल्यं बस्तिमध्ये मज्जति दण्डमात्रं निःसरति । (अन्ये बस्तक इति पठित्वा शृङ्गघटित इति व्याचख्युः)॥ 5-190-20 हिंसमानाविति क. ख. पाठः ॥ 5-190-33 अभ्ययात्तूर्णमव्यग्रो निरपेक्षो विशाम्पते क. ख. पाठः ॥ नवत्यधिकशततमोऽध्यायः ॥