श्रीः
अध्यायः 189
द्रोणार्जुनादीनां सङ्कुलयुद्धम् ॥ 1 ॥
सञ्जय उवाच 001
ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् । 001a
रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम् ॥ 001c
तस्यापतत एवाशु भल्लेनामित्रकर्शनः । 002a
माद्रीपुत्रः शिरो यन्तुः सशिरस्त्राणमच्छिनत् ॥ 002c
नैनं दुःशासनः सूतं नापि कश्चन सैनिकः । 003a
कृत्तोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् ॥ 003c
यदा त्वसङ्गृहीतत्वात्प्रयान्त्यश्वा यथासुखम् । 004a
ततो दुःशासनः सूतं बुबुधे गतचेतसम् ॥ 004c
स हयान्सन्निगृह्याजौ स्वयं हयविशारदः । 005a
युयुधे रथिनां श्रेष्ठो लघु चित्रं च सुष्ठु च ॥ 005c
तदस्यापूजयन्कर्म स्वे परे चापि संयुगे । 006a
हतसूतरथेनाजौ व्यचरद्यदभीतवत् ॥ 006c
सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत् । 007a
पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः ॥ 007c
स रश्मिषु विषक्तत्वादुत्ससर्ज शरासनम् । 008a
धनुषा कर्म कुर्वंस्तु रश्मींश्च पुनरुत्सृजत् ॥ 008c
छिद्रेष्वेतेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत् । 009a
परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् ॥ 009c
वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितः । 010a
आकर्णपूर्णैरभ्यघ्नद्बाह्वोरुरसि चानदत् ॥ 010c
स निवृत्तस्ततः कर्णः सङ्घट्टित इवोरगः । 011a
भीममावारयामास विकिरन्निशिताञ्छरान् । 011c
ततोऽभूत्तुमुलं युद्धं भीमराधेययोस्तदा ॥ 011e
तौ वृषाविव नर्दन्तौ विवृत्तनयनावुभौ । 012a
वेगेन महताऽन्योन्यं संरब्धावभिपेततुः ॥ 012c
अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः । 013a
विच्छिन्नशरपातत्वाद्गदायुद्धमवर्तत ॥ 013c
गदया भीमसेनस्तु कर्णस्य रथकूबरम् । 014a
बिभेद शतधा राजंस्तदद्भुतमिवाभवत् ॥ 014c
ततो भीमस्य राधेयो गदामाविध्य वीर्यवान् । 015a
अवासृजद्रथे तां तु बिभेद गदया गदाम् ॥ 015c
ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम् । 016a
तां गदां बहुभिः कर्णः सुपुङ्खैः सुप्रवेजितैः ॥ 016c
प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत् । 017a
व्यालीव मन्त्राभिहता कर्णबाणैरभिद्रुता ॥ 017c
तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः । 018a
पपात सारथिश्चास्य मुमोह च गदाहतः ॥ 018c
स कर्णं सायकानष्टौ व्यसृजत्क्रोधमूर्च्छितः । 019a
तैस्तस्य निशितैस्तीक्ष्णैर्भीमसेनो महाबलः ॥ 019c
चिच्छेद परवीरघ्नः प्रहसन्निव भारत । 020a
ध्वजं शरासनं चैव शरावापं च भारत ॥ 020c
कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम् । 021a
ततः पुनस्तु राधेयो हयानस्य रथेषुभिः । 021c
ऋक्षवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी ॥ 021e
स विपन्नरथो भीमो नकुलस्याप्लुतो रथम् । 022a
हरिर्यथा गिरेः शृङ्गं समाक्रमदरिन्दमः ॥ 022c
तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ । 023a
आचार्यशिष्यौ राजेन्द्र कृतप्रतिकृतौ युधि ॥ 023c
लघुसन्धानयोगाभ्यां रथयोश्च रणेन च । 024a
मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च ॥ 024c
उपारमन्त ते सर्वे योधाऽस्माकं परे तथा । 025a
अदृष्टपूर्वं पश्यन्तस्तद्युद्धं गुरुशिष्ययोः || 025c
विचित्रान्पृतनामध्ये रथमार्गानुदीर्य तौ । 026a
अन्योन्यमपसव्यं च कर्तुं वीरौ तदेषतुः ॥ 026c
पराक्रमं तयोर्योधा ददृशुस्ते सुविस्मिताः ॥ 027ac
तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत् । 028a
आमिषार्थे महाराज गगने श्येनयोरिव ॥ 028c
यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया । 029a
तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः ॥ 029c
यदा द्रोणो न शक्नोति पाण्डवं स्म विशेषितुम् । 030a
ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः ॥ 030c
ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यमथ वारुणम् । 031a
मुक्तम्मुक्तं द्रोणचापात्तज्जघान धनञ्जयः ॥ 031c
अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः । 032a
ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत् ॥ 032c
यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया । 033a
तस्यतस्य विघाताय तत्तद्धि कुरुतेऽर्जुनः ॥ 033c
स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि । 034a
अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत् ॥ 034c
मेने चात्मानमधिकं पृथिव्यामधि भारत । 035a
तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्यः परन्तपः ॥ 035c
वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम् । 036a
यतमानोऽर्जुनं प्रीत्या प्रीयते स्मार्जुनेन सः ॥ 036c
ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः । 037a
ऋषयः सिद्धसङ्घाश्च व्यतिष्ठन्त दिदृक्षया ॥ 037c
तदप्सरोभिराकीर्णं यक्षगन्धर्वसङ्कुलम् । 038a
श्रीमदाकाशमभवद्भूयो मेघाकुलं यथा ॥ 038c
तत्रस्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः । 039a
द्रोणपार्थस्तवोपेता व्यश्रूयन्त नराधिप ॥ 039c
विसृज्यमानेष्वस्त्रेषु ज्वालयस्तु दिशो दश । 040a
अब्रुवंस्तत्र सिद्धाश्च ऋषयश्च समागताः ॥ 040c
नैवेदं मानुषं युद्धं नासुरं न च राक्षसम् । 041a
न दैवं न च गान्धर्वं ब्राह्मं ध्रुवमिदं परम् ॥ 041c
विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम् । 042a
अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः ॥ 042c
नानयोरन्तरं शक्यं द्रष्टुमन्येन केनचित् ॥ 043ac
यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना । 044a
तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते ॥ 044c
ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे । 045a
शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे || 045c
नेमौ शक्यौ महेष्वासौ युद्धे क्षपयितुं परैः । 046a
इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् ॥ 046c
इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ । 047a
अन्तर्हितानि भूतानि प्रकाशानि च सर्वशः ॥ 047c
'यदा द्रोणं महाराज विशेषयति पाण्डवः ।' 048a
ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः ॥ 048c
'तदस्त्रं संहितं राजन्घोररूपं महाहवे ।' 049a
सन्तापयद्रणे पार्थं भूतान्यन्तर्हितानि च ॥ 049c
ततश्चचाल पृथिवी सपर्वतवनद्रुमा । 050a
'सरितश्च प्रतिस्रोतः प्रवहुर्वै क्षणान्तरम् ।' 050c
ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः ॥ 050e
ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः । 051a
सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना ॥ 051c
ततः पार्थोऽप्यसम्भ्रान्तस्तदस्त्रं प्रतिजघ्निवान् । 052a
ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् ॥ 052c
यदा न गम्यते पारं तयोरन्यतरस्य वा । 053a
ततः सङ्कुलयुद्धेन तद्युद्धं व्याकुलीकृतम् ॥ 053c
नाज्ञायत ततः किञ्चित्पुनरेव विशाम्पते । 054a
प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्नृप ॥ 054c
'द्रोणो मुक्त्वा रणे पार्थं पाञ्चालानन्वधावत । 055a
अर्जुनोपि रणे द्रोणं त्यक्त्वा प्राद्रवयत्कुरून् ॥ 055c
शरौघैरथ ताभ्यां तु छायाभूतं महामृधे । 056a
तुमुलं प्रबभौ राजन्सर्वस्य जगतो भयम् ॥' 056c
शरजालैः समाकीर्णे मेघजालैरिवाम्बरे । 057a
नापतच्च ततः कश्चिदन्तरिक्षचरस्तदा ॥ ॥ 057c
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि पञ्चदशदिसयुद्धे एकोननवत्यधिकशततमोऽध्यायः ॥ 189 ॥
5-189-45 ज्ञानमेकस्थमिति आचार्यो ज्ञानस्य शौर्यस्य चावधिरित्यर्थः । अर्जुनस्तु योगेन बलेन चाधिकः । कृष्णसारथिगाण्डीवदिव्यरथध्वजबुद्ध्यादिभिर्यौवनेन च युक्तत्वात् । तथाच योगबलाभ्यामाचार्यसाम्यं प्राप्त इत्यर्थः ॥ 5-189-57 नापतत् बाणैरन्तरिक्षस्य पूरितत्वादिति भावः ॥ एकोननवत्यधिकशततमोऽध्यायः ॥