श्रीः अध्यायः 188 पञ्चदशदिवसयुद्धारम्भः ॥ 1 ॥ सङ्कुलयुद्धम् । नकुलेन दुर्योधनपराजयः ॥ 2 ॥ सञ्जय उवाच 001
ते तथैव महाराज दंशिता रणमूर्धनि । 001a
सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे ॥ 001c
उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे । 002a
प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत ॥ 002c
द्वन्द्वानि तत्र यान्यासन्संसक्तानि पुरोदयात् । 003a
तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत ॥ 003c
रथैर्हया हयैर्नागाः पादातैश्चापि कुञ्जराः । 004a
हयैर्हयाः समाजग्मुः पादाताश्च पदातिभिः ॥ 004c
रथा रथैरिभैर्नागास्तथैव भरतर्षभ । 005a
संसक्ताश्च वियुक्ताश्च योधाः सन्न्यपतन्रणे ॥ 005c
ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा । 006a
क्षुत्पिपासापरीताङ्गा विसञ्ज्ञा बहवोऽभवन् ॥ 006c
शङ्खभेरीमृदङ्गानां कुञ्जराणां च गर्जताम् । 007a
विष्फारितविकृष्टानां कार्मुकाणां च कूजताम् ॥ 007c
शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ । 008a
द्रवतां च पदातीनां शस्त्राणां पततामपि ॥ 008c
हयानां ह्रेषतां चापि रथानां च निवर्तताम् । 009a
क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत् ॥ 009c
विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महांस्तदा । 010a
नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः ॥ 010c
भूमावश्रूयत महांस्तदाऽऽसीत्कृपणं महत् । 011a
पततां पात्यमानानां पत्त्यश्वरथदन्तिनाम् ॥ 011c
तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः । 012a
स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वान्परेषां परे परान् || 012c
वीरबाहुविसृष्टाश्च योधेषु च गजेषु च । 013a
राशयः प्रत्यदृश्यन्त वाससां नेजनेष्विव ॥ 013c
उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः । 014a
स एव शब्दस्तद्रूपो वाससां निज्यतामिव ॥ 014c
अर्धासिभिस्तथा खड्गैस्तोमरैः सपरश्वथैः । 015a
निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम् ॥ 015c
गजाश्वकायप्रभवां नरदेहप्रवाहिनीम् । 016a
शस्त्रमत्स्यसुसम्पूर्णां मांसशोणितकर्दमाम् ॥ 016c
आर्तनादस्वनवतीं पताकाशस्त्रफेनिलाम् । 017a
नदीं प्रावर्तयन्वीराः परलोकौघगामिनीम् ॥ 017c
शरशक्त्यर्दिता क्लान्ता रात्रिमूढात्पचेतसः । 018a
विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः ॥ 018c
संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः । 019a
युद्धोपकरणैश्चान्यैस्तत्रतत्र चकाशिरे ॥ 019c
क्रव्यादसङ्घैराकीर्णं मृतैरर्धमृतैरपि । 020a
नासीद्रथपथस्तत्र सर्वमायोधनं प्रति ॥ 020c
मज्जत्सु चक्रेषु रथान्सत्वमास्थाय वाजिनः । 021a
कथञ्चिदवहन्श्रान्ता वेपमानाः शरार्दिताः । 021c
कुलसत्वबलोपेता वाजिनो वारणोपमाः ॥ 021e
विह्वलं तूर्णमुद्भ्रान्तं सभयं भारतातुरम् । 022a
बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ ॥ 022c
तावेवास्तां निलयनं तावार्तायनमेव च । 023a
तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम् ॥ 023c
आविग्नमभवत्सर्वं कौरवाणां महद्बलम् । 024a
पाञ्चालानां च संसक्तं न प्राज्ञायत किञ्चन ॥ 024c
अन्तकाक्रीडसदृशं भीरूणां भयवर्धनम् । 025a
पृथिव्यां राजवंश्यानामुत्थिते महति क्षये ॥ 025c
न तत्र कर्णं द्रोणं वा नार्जुनं न युधिष्ठिरम् । 026a
न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम् ॥ 026c
न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ । 027a
न कृपं मद्रराजं च कृतवर्माणमेव च ॥ 027c
न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा । 028a
पश्याम राजन्संसक्तान्सैन्येन रजसा वृतान् ॥ 028c
सम्भ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते । 029a
त्रियामामिव सम्प्राप्ताममन्यन्त निशाचराः ॥ 029c
न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः । 030a
न दिशो द्यौर्न चोर्वी च न समं विषमं तथा ॥ 030c
हस्तसंस्पर्शमापन्नान्परानप्यथवा स्वकान् । 031a
न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः ॥ 031c
उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च । 032a
प्राशाम्यत रजो भौमं शीघ्रत्वादनिलस्य च ॥ 032c
तत्र नागा हया योधा रथिनोऽथ पदातयः । 033a
पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः ॥ 033c
ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा । 034a
पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः ॥ 034c
दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत । 035a
वृकोदरेण राधेयो भारद्वाजेन चार्जुनः ॥ 035c
तद्घोरं महदाश्चर्यं युद्धं दैवासुरोपमम् । 036a
रथर्षभाणामुग्राणां सन्निपातममानुषम् ॥ 036c
रथमार्गैर्विचित्रैस्तैर्विचित्ररथसङ्कुलम् । 037a
अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम् ॥ 037c
यतमानाः पराक्रान्ताः परस्परजिगीषवः । 038a
जीमूता इव घर्मान्ते शरवर्षैरवाकिरन् ॥ 038c
ते रथान्सूर्यसङ्काशानास्थिताः पुरुषर्षभाः । 039a
अशोभन्त यथा मेघाः शारदाश्चलविद्युतः ॥ 039c
योधास्ते तु महाराज क्रोधामर्षसमन्विताः । 040a
स्पर्धिनश्च महेष्वासाः कृतयत्ना धनुर्धराः । 040c
अभ्यगच्छंस्तथाऽन्योन्यं मत्ता गजवृषा इव ॥ 040e
न नूनं देहभेदोऽस्ति काले राजन्ननागते । 041a
यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः ॥ 041c
बाहुभिश्चरणैश्छिन्नैः शिरोभिश्च सकुण्डलैः । 042a
कार्मुकैर्विशिखैः प्रासैः खड्गैः परशुपट्टसैः ॥ 042c
नालीकैः क्षुद्रनाराचैर्नखरैः शक्तितोमरैः । 043a
अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः ॥ 043c
विचित्रैर्विविधाकारैः शरीरावरणैरपि । 044a
विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः ॥ 044c
शून्यैश्चैव नगाकारैर्हतयोधध्वजै रथैः । 045a
अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः ॥ 045c
वातायमानैरसकृद्धतवीरैरलङ्कृतैः । 046a
व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः ॥ 046c
छत्रैराभरणैर्वस्त्रैर्माल्यैश्च ससुगन्धिभिः । 047a
हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः ॥ 047c
उरस्थैर्मणिभिर्निष्कैश्चूडामणिभिरेव च । 048a
आसीदायोधनं तत्र नभस्तारागणैरिव ॥ 048c
ततो दुर्योधनस्यासीन्नकुलेन समागमः । 049a
अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च ॥ 049c
अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम् । 050a
किरञ्छरशतैर्हृष्टस्तत्र नादो महानभूत् ॥ 050c
अपसव्यं कृतं सङ्ख्ये भ्रातृव्येनात्यमर्षिणा । 051a
नामृष्यत तमप्याजौ प्रतिचक्रे परन्तपः । 051c
पुत्रस्तव महाराज राजा दुर्योधनो द्रुतम् ॥ 051e
ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम् । 052a
न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित् ॥ 052c
स सर्वतो निवार्यैनं शरजालेन पीडयन् । 053a
विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् ॥ 053c
तिष्ठतिष्ठेति नकुलो बभाषे तनयं तव । 054a
संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितं च तत् ॥ ॥ 054c

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि चतुर्दशरात्रियुद्धे अष्टाशीत्यधिकशततमोऽध्यायः ॥ 188 ॥

5-188-12 स्वे कौरवाः स्वान् स्वभृत्यान्परे पाण्डवाः स्वान् स्वभृत्यान् । स्वे इत्यनुवर्तते । परेषां पाण्डवानां स्वान् स्वे कौरवाः परेषां पाण्डवानां परान् कौरवान् परे पाण्डवा जघ्नुरित्यन्वयः । परेषामित्युभयत्र सम्बध्यते । स्वपरविभागो वक्तुः सञ्जयस्यानुरोधात् ॥ 5-188-13, 5-188-14 ॥ निज्यन्ते प्रक्षाल्यन्ते वासांसि येषु ते प्रदेशा नेजनानि तेषु यथा वाससां राशयो भवन्त्येवमुद्यतानां प्रतिकूलं पिष्टानां च खड्गानां राशयः प्रत्यदृश्यन्त । निज्यतां क्षालनैः उद्यम्योद्यम्य शिलायां स्फाल्यमानानाम् । श्लोकद्वयम् ॥ 5-188-15 अर्धासिभिरेकधारैः ॥ 5-188-23 निलयनमाश्रयः । आर्तायनम् आर्तानां भयवारणं स्वीयानाम् । शत्रूणां तु तावेव मृत्युकरावित्यर्थः ॥ 5-188-34 चतुरश्चत्वारः ॥ 5-188-35 भ्रात्रा दुःशासनेन ॥ अष्टाशीत्यधिकशततमोऽध्यायः ॥