श्रीः
अध्यायः 187
द्रोणेन द्रुपदविराटादीनां वधः ॥ 1 ॥ भीमेन निष्ठुरभाषणेन धृष्टद्युम्नमुद्योज्य द्रोणानीकाभिगमनम् ॥ 2 ॥ चतुर्दशरात्रियुद्धसमाप्तिः ॥ 3 ॥
सञ्जय उवाच 001
त्रिभागमात्रशेषायां रात्र्यां युद्धमवर्तत । 001a
कुरूणां पाण्डवानां च संहृष्टानां विशाम्पते ॥ 001c
अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः । 002a
अरुणोऽभ्युदयाञ्चक्रे ताम्रीकुर्वन्निवाम्बरम् ॥ 002c
'प्रकाशमकरोद्व्योम जगत्संरञ्जयन्निव ।' 003a
प्राच्यां दिशि सहस्रांशोररुणेनारुणीकृतम् । 003c
तापनीयं यथा चक्रं भ्राजते रविमण्डलम् ॥ 003e
ततो रथाश्वांश्च मनुष्ययानान्युत्सृज्य सर्वे कुरुपाण्डुयोधाः । 004a
दिवाकरस्याभिमुखं जपन्तः सन्ध्यागताः प्राञ्जलयो बभूवुः ॥ 004c
ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान् । 005a
अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः ॥ 005c
द्वैधीकृतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत् । 006a
सपत्नान्सव्यतः कुर्याः सव्यसाचिन्निमान्कुरून् ॥ 006c
स माधवमनुज्ञाय कुरुष्वेति धनञ्जयः । 007a
द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत ॥ 007c
अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरञ्जयः । 008a
आजिशीर्षगतं पार्थं भीमसेनोऽभ्युवाच ह ॥ 008c
भीमसेन उवाच 009
अर्जुनार्जुन बीभत्सो शृणुष्वैतद्वचो मम । 009a
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ॥ 009c
अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे । 010a
असम्भावितरूपस्त्वं सुनृशंसं करिष्यसि ॥ 010c
सत्यश्रीधर्मयशसां वीर्येणानृण्यमाप्नुहि । 011a
भिन्ध्यनीकं युधांश्रेष्ठ प्रतिज्ञां सफलां कुरु ॥ 011c
सञ्जय उवाच 012
स सव्यसाची भीमेन चोदितः केशवेन च । 012a
कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत् ॥ 012c
तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान् । 013a
पराक्रान्तं पराक्रम्य ततः क्षत्रियपुङ्गवाः । 013c
नाशक्नुवन्वारयितुं वर्धमानमिवानलम् ॥ 013e
अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः । 014a
अभ्यवर्षञ्छरव्रातैः कुन्तीपुत्रं धनञ्जयम् ॥ 014c
तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः । 015a
कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत् ॥ 015c
अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनञ्जयः । 016a
सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः ॥ 016c
उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च । 017a
तमश्च घोरं शब्दश्च तदा समभवन्महान् ॥ 017c
न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथागते । 018a
सैन्येन रजसा मूढं सर्वमन्धमिवाभवत् ॥ 018c
नैव ते न वयं राजन्प्राज्ञासिष्म परस्परम् । 019a
'शब्दमात्रेण जानीमो वयं ते च परस्परम् ।' 019c
उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः ॥ 019e
विरथा रथिनो राजन्समासाद्य परस्परम् । 020a
केशेषु समसज्जन्त कवचेषु भुजेषु च ॥ 020c
हताश्वा हतसूताश्च निश्चेष्टा रथिनो हताः । 021a
जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः ॥ 021c
हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः । 022a
गतसत्वा व्यदृश्यन्त तथैव सह सादिभिः ॥ 022c
ततस्त्वभ्यवसृत्यैव सङ्ग्रामादुत्तरां दिशम् । 023a
आतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन् ॥ 023c
तमाजिशीर्षादेकान्तमपक्रान्तं निशम्य तु । 024a
समकम्पन्त सैन्यानि पाण्डवानां विशाम्पते ॥ 024c
भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा । 025a
द्रोणं दृष्ट्वा परे त्रेसुश्चेरुर्मम्लुश्च भारत ॥ 025c
आह्वयन्तं परानीकं प्रभिन्नमिव वारणम् । 026a
नैनमाशंसिरे जेतुं दानवा वासवं यथा ॥ 026c
केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः । 027a
विस्मिताश्चाभवन्केचित्केचिद्धृष्टाऽभवन्युधि ॥ 027c
हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नराधिपाः । 028a
अपरे दशनैरोष्ठानदशन्क्रोधमूर्च्छिताः ॥ 028c
व्याक्षिपन्नायुधान्यन्ये ममृदुश्चापरे भुजान् । 029a
अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः ॥ 029c
पाञ्चालास्तु विशेषेण द्रोणसायकपीडिताः । 030a
समसज्जन्त राजेन्द्र समरे भृशवेदनाः ॥ 030c
ततो विराटद्रुपदौ द्रोणं प्रति ययू रणे । 031a
तथा चरन्तं सङ्ग्रामे भृशं समरदुर्जयम् ॥ 031c
द्रुपदस्य ततः पौत्रास्त्रय एव विशाम्पते । 032a
चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि ॥ 032c
तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः । 033a
त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि ॥ 033c
ततो द्रोणोऽजयद्युद्धे चेदिकैकेयसृञ्जयान् । 034a
मात्स्यांश्चैवाजयत्कृत्स्नान्भारद्वाजो महारथान् ॥ 034c
ततस्तु द्रुपदः क्रोधाच्छरवर्षमवासृजत् । 035a
द्रोणं प्रति महाराज विराटश्चैव संयुगे ॥ 035c
तं निहत्येषुवर्षं तु द्रोणः क्षत्रियमर्दनः । 036a
तौ शरैश्छादयामास विराटद्रुपदावुभौ ॥ 036c
द्रोणेन च्छाद्यमानौ तु क्रुद्धौ सङ्ग्राममूर्धनि । 037a
द्रोणं शरैर्विव्यधतुः परमं क्रोधमास्थितौ ॥ 037c
तत द्रोणो महाराज क्रोधामर्षसमन्वितः । 038a
भल्लाभ्यां भृशतीक्ष्णाभ्यां चिच्छेद धनुषी तयोः ॥ 038c
ततो विराटः कुपितः समरे तोमरान्दश । 039a
दश चिक्षेप च शरान्द्रोणस्य वधकाङ्क्षया ॥ 039c
शक्तिं च द्रुपदो घोरामायसीं स्वर्णभूषिताम् । 040a
चिक्षेप भुजगेन्द्राभां क्रुद्धो द्रोणरथं प्रति ॥ 040c
ततो भल्लैः सुनिशितैश्छित्त्वा तांस्तोमारान्दश । 041a
शक्तिं कनकवैदूर्यां द्रोणश्चिच्छेद सायकैः ॥ 041c
ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः । 042a
द्रुपदं च विराटं च प्रेषयामास मृत्यवे ॥ 042c
हते विराटे द्रुपदे केकयेषु तथैव च । 043a
तथैव चेदिमात्स्येषु पाञ्चालेषु तथैव च ॥ 043c
हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु । 044a
द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः । 044c
शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः ॥ 044e
इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु । 045a
द्रोणो यस्याद्य मुच्येत यं वा द्रोणः पराभवेत् ॥ 045c
इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् । 046a
आयाद्द्रोणं सहानीकः पाञ्चाल्यः परवीरहा ॥ 046c
पाञ्चालास्त्वेकतो द्रोणभ्यघ्नन्पाण्डवैः सह । 047a
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः । 047c
सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे ॥ 047e
रक्ष्यमाणं तथा द्रोणं सर्वैस्तैस्तु महारथैः । 048a
यतमानास्तु पाञ्चाला न शेकुः प्रतिवीक्षितुम् ॥ 048c
तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष । 049a
स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभः ॥ 049c
भीमसेन उवाच 050
द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः । 050a
कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम् ॥ 050c
पितृपुत्रवधं प्राप्य पुंस्त्वं को वा प्रहर्षयेत् । 051a
विशेषतस्तु शपथं शपित्वा राजसंसदि ॥ 051c
एष वैश्वानर इव समिद्धः स्वेन तेजसा । 052a
शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा ॥ 052c
पुरा करोति निःशेषां पाण्डवानामनीकिनीम् । 053a
स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम् ॥ 053c
इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः । 054a
शरैः पूर्णायतोत्सृष्टौर्द्रावयंस्तव वाहिनीम् ॥ 054c
धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम् । 055a
आससाद रणे द्रोणं तदासीत्तुमुलं महत् ॥ 055c
नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम् । 056a
यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान् ॥ 056c
संसक्तान्येव चादृश्यन्रथवृन्दानि मारिष । 057a
हतानि च विकीर्णानि शरीराणि शरीरिणाम् ॥ 057c
केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः । 058a
विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतः परे ॥ 058c
तथा संसक्तयुद्धं तदभवद्भृशदारुणम् । 059a
अथ सन्ध्यागतः सूर्यः क्षणेन समपद्यत ॥ ॥ 059c
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि चतुर्दशरात्रियुद्धे सप्ताशीत्यधिकशततमोऽध्यायः ॥ 187 ॥
5-187-1 त्रिभागमात्रशेषायां मुहूर्तत्रयावशिष्टायाम् । तत्र सूर्योदयोत्तरं त्रयोदश्यां द्रोणस्य नाशः । त्रयोदश्यां शुक्लयां युद्धारम्भस्य-हेमन्ते प्रथमे मासे शुक्लपक्षे त्रयोदशीम् । प्रवृत्तं भारतं युद्धमिति भारतसावित्र्यामुक्तस्य चोपपत्तिः सिध्यति ॥ 5-187-44 शशाप शपथं कृतवान् ॥ 5-187-45 इष्टं यागहोमादि । आपूर्तं क्षेत्रारामादि । क्षात्रं द्रुपदकुलोत्पन्नत्वात् । ब्राह्मण्यं याजोपयाजयोर्ब्राह्मणयोस्तपसा ब्राह्मणरूपादग्नेश्च जातत्वात् । एतत्सर्वं तस्य नश्यतु । यस्य शत्रुर्द्रोणो मुच्येत मरणं न प्राप्नुयात् । यं वा मां वा द्रोणो यदि पराभवेदिति ॥ सप्ताशीत्याधिकशततमोऽध्यायः ॥