श्रीः अध्यायः 186 दुर्योधनोपालम्भकोपितेन द्रोणेन पार्थदुर्योधनप्रशंसाधिक्षेपपूर्वकं रणाय निःसरणम् ॥ 1 ॥ सञ्जय उवाच 001
ततो दुर्योधनो द्रोममभिगम्याब्रवीदिदम् । 001a
अमर्षवशमापन्नो जनयन्हर्षतेजसी ॥ 001c
दुर्योधन उवाच 002
न मर्षणीयाः सङ्ग्रामे विश्रमन्तः श्रमान्विताः । 002a
सपत्ना ग्लानमनसो लब्धलक्षा विशेषतः ॥ 002c
यत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया । 003a
त एते परिविश्रान्ताः पाण्डवा बलवत्तराः ॥ 003c
सर्वथा परिहीनाः स्म तेजसा च बलेन च । 004a
भवता पाल्यमानास्ते विवर्धन्ते पुनःपुनः ॥ 004c
दिव्यान्यस्त्राणि सर्वाणि ब्राह्मादीनि च यानि ह । 005a
तानि सर्वाणि तिष्ठन्ति भवत्येव विशेषतः ॥ 005c
न पाण्डवेया न वयं नान्ये लोके धनुर्धराः । 006a
युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते ॥ 006c
ससुरासुरगन्धर्वानिमाँलोकान्द्विजोत्तम । 007a
सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः ॥ 007c
स भवान्मर्षयत्येनांस्तव तुल्यानवेत्य च । 008a
शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् ॥ 008c
सञ्जय उवाच 009
एवमुद्धर्षितो द्रोणः कोपितश्च सुतेन ते । 009a
समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः ॥ 009c
स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे । 010a
अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना । 010c
अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः ॥ 010e
यद्भवान्मन्यते चापि शुभं वा यदि वाऽशुभम् । 011a
तद्वै कर्ताऽस्मि कौरव्य वचनात्तव नान्यथा ॥ 011c
निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम् । 012a
विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे ॥ 012c
मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे । 013a
तस्य वीर्यं महाबाहो शृणु सत्येन कौरव ॥ 013c
तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः । 014a
उत्सहन्ते रणे जेतुं कुपितं सव्यसाचिनम् ॥ 014c
खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः । 015a
सायकैर्वारितश्चापि वर्षमाणो महात्मना ॥ 015c
यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः । 016a
निहताः पुरुषेन्द्रेण तच्चापि विदितं तव ॥ 016c
गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः । 017a
यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना ॥ 017c
निवातकवचाश्चापि देवानां शत्रवस्तथा । 018a
सुरैरवध्याः सङ्ग्रामे तेन वीरेण निर्जिताः ॥ 018c
दानवानां सहस्राणि हिरण्यपुरवासिनाम् । 019a
विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् ॥ 019c
प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव । 020a
क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशाम्पते ॥ 020c
सञ्जय उवाच 021
तं तदाऽभिप्रशंसन्तमर्जुनं कुपितस्तदा । 021a
द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत् ॥ 021c
अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे । 022a
हनिष्यामोऽर्जुनं सङ्ख्ये द्विधा कृत्वाऽद्य भारतीम् । 022c
'तिष्ठ स त्वं महाबाहो नित्यं शिष्यः प्रियस्तव ॥' 022e
तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव । 023a
अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत् ॥ 023c
को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा । 024a
अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम् ॥ 024c
तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः । 025a
नासुरोरगरक्षांसि क्षपयेयुः सहायुधम् ॥ 025c
मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत । 026a
युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान् ॥ 026c
त्वं तु सर्वाभिशङ्कित्वान्निष्ठुरः पापनिश्चयः । 027a
श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि ॥ 027c
गच्छ त्वमपि कौन्तेयमात्मार्थे जहि माचिरम् । 028a
त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि ॥ 028c
इमान्किं क्षत्रियान्सर्वान्घातयिष्यस्यनागसः । 029a
त्वमस्य मूलं वैरस्य तस्मादासादयार्जुनम् ॥ 029c
एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः । 030a
दुर्द्यूतदेवी गान्धारे प्रयात्वर्जुनमाहवे ॥ 030c
एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः । 031a
देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् ॥ 031c
त्वया कथितमत्यर्थं कर्णेन सह हृष्टवत् । 032a
असकृच्छून्यवन्मोहाद्धृतराष्ट्रस्य शृण्वतः ॥ 032c
अहं च तात कर्णश्च भ्राता दुःशासनश्च मे । 033a
पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः ॥ 033c
इति ते कत्थमानस्य श्रुतं संसदिसंसदि । 034a
अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह ॥ 034c
एष ते पाण्डवः शत्रुरविशङ्कोऽग्रतः स्थितः । 035a
क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात् ॥ 035c
दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम् । 036a
कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम् ॥ 036c
इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे । 037a
द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा ॥ ॥ 037c

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि चतुर्दशरात्रियुद्धे षडशीत्यधिकशततमोऽध्यायः ॥ 186 ॥