श्रीः
अध्यायः 185
निद्रोपद्रुतानां सैन्यानामर्जुनाज्ञया स्वापेन श्रान्तिमपनीय चन्द्रोदयानन्तरं युद्धारम्भः ॥ 1 ॥
सञ्जय उवाच 001
व्यासेनैवमथोक्तस्तु धर्मराजो युधिष्ठिरः । 001a
स्वयं कर्णवधाद्वीरो निवृत्तो भरतर्षभ ॥ 001c
घटोत्कचे तु निहते सूतपुत्रेण तां निशाम् । 002a
दुःखामर्षवशं प्राप्तो धर्मराजो युधिष्ठिरः ॥ 002c
दृष्ट्वा भीमेन महतीं वार्यमाणां चमूं तव । 003a
धृष्टद्युम्नमुवाचेदं कुम्भयोनिं निवारय ॥ 003c
त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात् । 004a
सशरः कवची खड्गी धन्वी च परतापनः । 004c
अभिद्रव रणे हृष्टो मा च ते भीः कथञ्चन ॥ 004e
जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधरः । 005a
अभिद्रवन्तु संहृष्टाः कुम्भयोनिं समन्ततः ॥ 005c
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः । 006a
द्रुपदश्च विराटश्च पुत्रभातृसमन्वितौ ॥ 006c
सात्यकिः केकयाश्चैव पाण्डवश्च धनञ्जयः । 007a
अभिद्रवन्तु वेगेन कुम्भयोनिवधेप्सया ॥ 007c
तथैव रथिनः सर्वे हस्त्यश्वं यच्च किञ्चन । 008a
पदाताश्च रणे द्रोणं पातयन्तु महारथम् ॥ 008c
तथाऽऽज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना । 009a
अभ्यद्रवन्त वेगेन कुम्भयोनिवधेप्सया ॥ 009c
आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान् । 010a
प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः ॥ 010c
ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान् । 011a
अभ्यद्रवत्सुसङ्क्रुद्ध इच्छन्द्रोणस्य जीवितम् ॥ 011c
ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम् । 012a
पाण्डवानां कुरूणां च गर्जतामितरेतरम् ॥ 012c
निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे । 013a
नाभ्यपद्यन्त समरे काञ्चिच्चेष्टां महारथाः ॥ 013c
त्रियामा रजनी चैषा घोररूपा भयानका । 014a
सहस्रयामप्रतिमा बभूव प्राणहारिणी ॥ 014c
वध्यतां च तथा तेषां क्षतानां च विशेषतः । 015a
घोरा रात्रिः समाजज्ञे निद्रान्धानां विशेषतः ॥ 015c
सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः । 016a
तव चैव परेषां च गतास्त्रा विगतेषवः ॥ 016c
ते तदा पारयन्तश्च भ्रमन्तश्च विशेषतः । 017a
स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम् ॥ 017c
अस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः । 018a
रथेष्वन्ये गजेष्वन्ये हयेष्वन्ये च भारत ॥ 018c
निद्रान्धा नो बुबुधिरे काञ्चिच्चेष्टां नराधिप । 019a
तानन्ये समरे योधाः प्रेषयन्ति यमक्षयम् ॥ 019c
स्वप्नायमानांस्त्वपरे परानतिविचेतसः । 020a
आत्मानं समरे जघ्नुः स्वानेव च परानपि ॥ 020c
नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे ॥ 021ac
अस्माकं च महाराज परेभ्यो बहवो जनाः । 022a
योद्धव्यमिति तिष्ठन्तो निद्रासंरक्तलोचनाः ॥ 022c
संसर्पन्तो रणे केचिन्निद्रान्धास्ते तथापरान् । 023a
जघ्नुः शूरा रणे शूरांस्तस्मिंस्तमसि दारुणे ॥ 023c
हन्यमानमथात्मानं परैश्च बहवो जनाः । 024a
नाभ्यजानन्त समरे निद्रया मोहिता भृशम् ॥ 024c
तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः । 025a
उवाच वाक्यं बीभत्सुरुच्चैः सन्नादयन्दिशः ॥ 025c
श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः । 026a
तमसा च वृते सैन्ये रजसा बहुलेन च ॥ 026c
ते यूयं यदि मन्यध्वमुपारमत सैनिकाः । 027a
निमीलयत चात्रैव रणभूमौ मुहूर्तकम् ॥ 027c
ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः । 028a
संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः ॥ 028c
तद्वचः सर्वधर्मज्ञा धार्मिकस्य विशाम्पते । 029a
अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन् ॥ 029c
चुक्रुशुः कर्णकर्णेति तथा दुर्योधनेति च । 030a
उपारमत पाण्डूनां विरता हि वरूथिनी ॥ 030c
तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः । 031a
उपारमत पाण्डूनां सेना तव च भारत ॥ 031c
तामस्य वाचं देवाश्च ऋषयश्च महात्मनः । 032a
सर्वसैन्यानि चाक्षुद्रां प्रहृष्टाः प्रत्यपूजयन् ॥ 032c
तत्सम्पूज्य वचोऽक्रूरं सर्वसैन्यानि भारत । 033a
मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ ॥ 033c
सा तु सम्प्राप्य विश्रामं ध्वजिनी तव भारत । 034a
सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत् ॥ 034c
त्वयि वेदास्तथास्त्राणि त्वयि बुद्धिपराक्रमौ । 035a
धर्मस्त्वयि महाबाहो दया भूतेषु चानघ ॥ 035c
यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते । 036a
मनसश्च प्रियानर्थान्वीर क्षिप्रमवाप्नुहि ॥ 036c
इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः । 037a
निद्रया समवाक्षिप्तास्तूष्णीमासन्विशाम्पते ॥ 037c
'वीरा वारणकुम्भेषु सुषुपुर्युद्धकर्शिताः । 038a
रात्रौ रतिपरिश्रान्ताः कामिनीनां कुचेष्विव ॥' 038c
अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे । 039a
गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ ॥ 039c
सायुधाः सगदाश्चैव सखड्गाः सपरश्वथाः । 040a
सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक् ॥ 040c
गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणुगुण्ठितैः । 041a
निद्रान्धा वसुधां चक्रुर्घ्राणनिःश्वासशीतलाम् ॥ 041c
सुप्ताः शुशुभिरे तत्र निःश्वसन्तो महीतले । 042a
विकीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः ॥ 042c
समां च विषमां चक्रुः खुराग्रैर्विकृतां महीम् । 043a
हयाः काञ्चनयोक्त्रास्ते केसरालम्बिभिर्युगैः । 043c
सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः ॥ 043e
एवं हयाश्च नागाश्च योधाश्च भरतर्षभ । 044a
युद्धाद्विरम्य सुषुपुः श्रमेण महताऽन्विताः ॥ 044c
तत्तथा निद्रया भग्नं तद्बभौ निःस्वनं बलम् । 045a
कुशलैः शिल्पिभिर्न्यस्तं पटे चित्रमिवाद्भुतम् ॥ 045c
ते क्षत्रियाः कुण्डलिनो युवानः परस्परं सायकविक्षताङ्गाः । 046a
कुम्भेषु लीनाः सुषुपुर्गजानां कुचेषु लग्ना इव कामिनीनाम् ॥ 046c
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । 047a
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ॥ 047c
दशशताक्षककुब्दरिनिःसृतः किरणकेसरभासुरपिञ्जरः । 048a
तिमिरवारणयूथविदारणः समुदियादुदयाचलकेसरी ॥ 048c
हरवृषोत्तमगात्रसमद्युतिः स्मरशरासनपूर्णसमप्रभः । 049a
नववधूस्मितचारुमनोहरः प्रविसृतः कुमुदाकरबान्धवः ॥ 049c
ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः । 050a
अरुणं दर्शयामास ग्रसञ्ज्योतिः प्रभां प्रभुः ॥ 050c
अरुणस्य तु तस्यानु जातरूपसमप्रभम् । 051a
रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत् ॥ 051c
उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः । 052a
पर्यगच्छञ्छनैः सर्वा दिशः खं च क्षितिं तथा ॥ 052c
ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत् । 053a
अप्रख्यमप्रकाशं च जगामाशु तमस्तथा ॥ 053c
प्रतिप्रकाशिते लोके दिवाभूते निशाकरे । 054a
विचेरुर्न विचेरुश्च राजन्नक्तञ्चरास्ततः ॥ 054c
बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः । 055a
बुबुधे शतपत्राणां वनं सूर्यांशुभिर्यथा ॥ 055c
यथा चन्द्रोदयोद्धूतः क्षुभितः सागरोऽभवत् । 056a
तथा चन्द्रोदयोद्धूतः क्षुभितश्च बलार्णवः ॥ 056c
ततः प्रववृते युद्धं पुनरेव विशाम्पते । 057a
लोके लोकविनाशाय परं लोकमभीप्सताम् ॥ ॥ 057c
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि चतुर्दशरात्रियुद्धे पञ्चाशीत्यधिकशततमोऽध्यायः ॥ 185 ॥
5-185-28 सङ्ग्राममिति झ. पाठः ॥ पञ्चाशीत्यधिकशततमोऽध्यायः ॥