श्रीः अध्यायः 184 कर्णशक्तेर्घटोत्कचवधेन वैफल्याद्धृतराष्ट्रेण शोचनम् ॥ 1 ॥ युधिष्ठिरेण कृष्णे घटोत्कचकृतोपकारनिवेदनपूर्वकं शोचनम् ॥ 2 ॥ व्यासेन क्रोधात्कर्णजिघांसया गच्छन्तं युधिष्ठिरमेत्य समाश्वासनेन तं निवर्त्य पुनरन्तर्धानम् ॥ 3 ॥ धृतराष्ट्र उवाच 001
कर्णदुर्योधनादीनां शकुनेः सौबलस्य च । 001a
अपनीतं महत्तात तव चैव विशेषतः ॥ 001c
यदि जानीथ तां शक्तिमेकघ्नीं सततं रणे । 002a
अनिवार्यामसह्यां च देवैरपि सवासवैः ॥ 002c
सा किमर्थं तु कर्णेन प्रवृत्ते समरे पुरा । 003a
न देवकीसुते मुक्ता फल्गुने वाऽपि सञ्जय ॥ 003c
सञ्जय उवाच 004
सङ्ग्रामाद्विनिवृत्तानां सर्वेषां नो विशाम्पते । 004a
रात्रौ कुरुकुलश्रेष्ठ मन्त्रोऽयं समजायत ॥ 004c
प्रभातमात्रे श्वोभूते केशवायार्जुनाय वा । 005a
शक्तिरेषा हि मोक्तव्या कर्णकर्णेति नित्यशः ॥ 005c
ततः प्रभातसमये राजन्कर्णस्य दैवतैः । 006a
अन्येषां चैव योधानां सा बुद्धिर्नाश्यते पुनः ॥ 006c
दैवमेव परं मन्ये यत्कर्णो हस्तसंस्थया । 007a
न जघान रणे पार्थं कृष्णं वा देवकीसुतम् ॥ 007c
तस्य हस्तस्थिता शक्तिः कालरात्रिरिवोद्यता । 008a
दैवोपहतबुद्धित्वान्न तां कर्णो विमुक्तवान् ॥ 008c
कृष्णे वा देवकीपुत्रे मोहितो देवमायया । 009a
पार्थे वा शक्रकल्पे वै वधार्थं वासवीं प्रभो ॥ 009c
धृतराष्ट्र उवाच 010
दैवेनोपहता यूयं स्वबुद्ध्या केशवस्य च । 010a
गता हि वासवी हत्वा तृणभूतं घटोत्कचम् ॥ 010c
कर्णश्च मम पुत्राश्च सर्वे चान्ये च पार्थिवाः । 011a
तेन वै दुष्प्रणीतेन गता वैवस्वतक्षयम् ॥ 011c
भूय एव तु मे शंस यथा युद्धमवर्तत । 012a
कृरूणां पाण्डवानां च हैडिम्बौ निहते तदा ॥ 012c
ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकाः प्रहारिणः । 013a
सृञ्जयाः सह पाञ्चालैस्तेऽप्यकुर्वन्कथं रणम् ॥ 013c
सौमदत्तेर्वधाद्द्रोणमायान्तं सैन्धवस्य च । 014a
अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम् ॥ 014c
जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम् । 015a
कथं प्रत्युद्ययुर्द्रोणमस्यन्तं पाण्डुसृञ्जयाः ॥ 015c
आचार्यं ये च तेऽरक्षन्दुर्योधनपुरोगमाः । 016a
द्रौणिकर्णकृपास्तात ते वाऽकुर्वन्किमाहवे ॥ 016c
भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ । 017a
समार्च्छन्मामका युद्धे कथं सञ्जय शंस मे ॥ 017c
सिन्धुराजवधेनेमे घटोत्कचवधेन ते । 018a
अमर्षिताः सुसङ्क्रुद्धा रणं चक्रुः कथं निशि ॥ 018c
सञ्जय उवाच 019
हते घटोत्कचे राजन्कर्णेन निशि राक्षसे । 019a
प्रणदत्सु च हृष्टेषु तावकेषु युयुत्सुषु ॥ 019c
आपतत्सु च वेगेन वध्यमाने बलेऽपि च । 020a
विगाढायां रजन्यां च राजा दैन्यं परं गतः ॥ 020c
अब्रवीच्च महाबाहुर्भीमसेनमिदं वचः । 021a
आवारय महाबाहो धार्तराष्ट्रस्य वाहिनीम् ॥ 021c
हैडिम्बेश्चैव घातेन मोहो मामाविशन्महान् । 022a
एवं भीमं समादिश्य स्वरथे समुपाविशत् ॥ 022c
अश्रुपूर्णमुखो राजा निःश्वसंश्च पुनःपुनः । 023a
कश्मलं प्राविशद्घोरं दृष्ट्वा कर्णस्य विक्रमम् ॥ 023c
तं तथा व्यथितं दृष्ट्वा कृष्णो वचनमब्रवीत् ॥ 024ac
मा व्यथां कुरु कौन्तेय नैतत्त्वय्युपपद्यते । 025a
वैक्लव्यं भरतश्रेष्ठ यथा प्राकृतपूरुषे ॥ 025c
उत्तिष्ठ राजन्युध्यस्व वह गुर्वीं धुरं विभो । 026a
त्वयि वैक्लव्यमापन्ने संशयो विजये भवेत् ॥ 026c
श्रुत्वा कृष्णस्य वचनं धर्मराजो युधिष्ठिरः । 027a
विमृज्य नेत्रे पाणिभ्यां कृष्णं वचनमब्रवीत् ॥ 027c
विदिता मे महाबाहो धर्माणां परमा गतिः । 028a
ब्रह्महत्याफलं तस्य यः कृतं नावबुध्यते ॥ 028c
अस्माकं हि वनस्थानां हैडिम्बेन महात्मना । 029a
बालेनापि सता तेन कृतं साह्यं जनार्दन ॥ 029c
अस्त्रहेतोर्गतं ज्ञात्वा पाण्डवं श्वेतवाहनम् । 030a
असौ कृष्ण महेष्वासः काम्यके मामुपस्थितः ॥ 030c
उषितश्च सहास्माभिर्यावन्नासीद्धनञ्जयः । 031a
गन्धमादनयात्रायां दुर्गेभ्यश्च स्म तारिताः । 031c
पाञ्चाली च परिश्रान्ता पृष्ठेनोढा महात्मना ॥ 031e
आरम्भांश्चैव युद्धानां यदेष कृतवान्प्रभो । 032a
मदर्थे दुष्करं कर्म कृतं तेन महाहवे ॥ 032c
स्वभावाद्या च मे प्रीतिः सहदेवे जनार्दन । 033a
सैव मे द्विगुणा प्रीती राक्षसेन्द्रे घटोत्कचे ॥ 033c
भक्तश्च मे महाबाहुः प्रियोऽस्याहं प्रियश्च मे । 034a
तेन विन्दामि वार्ष्णेय कश्मलं शोकतापितः ॥ 034c
पश्य सैन्यानि वार्ष्णेय द्राव्यमाणानि कौरवैः । 035a
द्रोणकर्णौ तु संयत्तौ पश्य युद्धे महारथौ ॥ 035c
निशीथे पाण्डवं सैन्यमाभ्यां माधव मर्दितम् । 036a
गजाभ्यामिव मत्ताभ्यां यथा नलवनं महत् ॥ 036c
अनादृत्य बलं बाह्वोर्भीमसेनस्य माधव । 037a
चित्रास्त्रतां च पार्थस्य विक्रमन्ते च कौरवाः ॥ 037c
एष द्रोणश्च कर्णश्च राजा चैव सुयोधनः । 038a
निहत्य राक्षसं युद्धे हृष्टा नर्दन्ति संयुगे ॥ 038c
कथं वाऽस्मासु जीवत्सु त्वयि चैव जनार्दन । 039a
हैडिम्बिः प्राप्तवान्मृत्यं सूतपुत्रेण सङ्गतः ॥ 039c
कदर्थीकृत्य नः सर्वान्पश्यतः सव्यसाचिनः । 040a
निहतो राक्षसः कृष्ण भैमसेनिर्महाबलः ॥ 040c
यदाऽभिमन्युर्निहतो धार्तराष्ट्रैर्दुरात्मभिः । 041a
नासीत्तत्र रणे कृष्ण सव्यसाची महारथः ॥ 041c
निरुद्धाश्च वयं सर्वे सैन्धवेन दुरात्मना । 042a
निमित्तमभवद्द्रोणः सपुत्रस्तत्र कर्मणि ॥ 042c
उपदिष्टो वधोपायः कर्णस्य गुरुणा स्वयम् । 043a
व्यायच्छतश्च खड्गेन द्विधा खड्गं चकार ह ॥ 043c
व्यसने वर्तमानस्य कृतवर्मा नृशंसवत् । 044a
अश्वाञ्जघान सहसा तथोभौ पार्ष्णिसारथी । 044c
तथेतरे महेष्वासाः सौभद्रं युध्यपातयन् ॥ 044a
अल्पे च कारणे कृष्ण हतो गाण्डीवधन्वना । 045c
सैन्धवो यादवश्रेष्ठ तच्च नातिप्रियं मम ॥ 045a
यदि शत्रुवधो न्याय्यो भवेत्कर्तुं हि पाण्डवैः । 046c
कर्णद्रोणौ रणे पूर्वं हन्तव्याविति मे मतिः ॥ 046a
एतौ हि मूलं दुःखानामस्माकं पुरुषर्षभ । 047c
एतौ रणे समासाद्य समाश्वस्तः सुयोधनः ॥ 047a
यत्र वध्यो भवेद्द्रोणः सूतपुत्रश्च सानुगः । 048c
तत्रावधीन्महाबाहुः सैन्धवं दूरवासिनम् ॥ 048a
अवश्यं तु मया कार्यः सूतपुत्रस्य निग्रहः । 049c
ततो यास्याम्यहं वीर स्वयं कर्णजिघांसया ॥ 049a
भीमसेनो महाबाहुर्द्रोणानीकेन सङ्गतः ॥ 050c
एवमुक्त्वा ययौ तूर्णं त्वरमाणो युधिष्ठिरः । 051a
स विष्फार्य महच्चापं शङ्खं प्रध्माप्य भैरवम् ॥ 051c
ततो रथसहस्रेण गजानां च शतैस्त्रिभिः । 052a
वाजिभिः पञ्चसाहस्रैः पाञ्चालैः सप्रभद्रकैः । 052c
वृतः शिखण्डी तवरितो राजानं पृष्ठतोऽन्वयात् ॥ 052e
ततो भेरीः समाजघ्नुः पणवानकगोमुखान् । 053a
शङ्खशब्दरवांश्चैव पाणिशब्दांश्च दंशिताः । 053c
पाञ्चालाः पाण्डवाश्चैव युधिष्ठिरपुरोगमाः ॥ 053e
ततोऽब्रवीन्महाबाहुर्वासुदेवो धनञ्जयम् ॥ 054ac
एष प्रयाति त्वरितः क्रोधाविष्टो युधिष्ठिरः । 055a
जिघांसुः सूतपुत्रस्य तस्योपेक्षा न युज्यते ॥ 055c
एवमुक्त्वा हृषीकेशः शीघ्रमश्वानचोदयत् । 056a
दूरं प्रयान्तं राजानमन्वगच्छज्जनार्दनः ॥ 056c
तं दृष्ट्वा सहसा यान्तं सूतपुत्रजिघांसया । 057a
शोकोपहतसङ्कल्पं दह्यमानमिवाग्निना । 057c
अभिगम्याब्रवीद्व्यासो धर्मपुत्रं युधिष्ठिरम् ॥ 057e
व्यास उवाच 058
कर्णमासाद्य सङ्ग्रामे दिष्ट्या जीवति फल्गुनः ॥ 058ac
सव्यसाचिवधाकाङ्क्षी शक्तिं रक्षितवान्हि सः । 059a
न चागाद्द्वैरथं जिष्णुर्दिष्ट्या तेन महारणे ॥ 059c
सृजेतां स्पर्धिनावेतौ दिव्यान्यस्त्राणि सर्वशः । 060a
वध्यमानेषु चास्त्रेषु पीडितः सूतनन्दनः ॥ 060c
वासवीं समरे शक्तिं ध्रुवं मुञ्चेद्युधिष्ठिर । 061a
ततो भवेत्ते व्यसनं घोरं भरतसत्तम ॥ 061c
दिष्ट्या रक्षो हतं युद्धे सूतपुत्रेण मानद । 062a
वासवीं कारणं कृत्वा कालेनोपहतो ह्यसौ ॥ 062c
तवैव कारणाद्रक्षो निहतं तात संयुगे । 063a
मा क्रुधो भरतश्रेष्ठ मा च शोके मनः कृथाः ॥ 063c
प्राणिनामिह सर्वेषामेषा निष्ठा युधिष्ठिर । 064a
भ्रातृभिः सहितः सर्वैः पार्थिवैश्च महात्मभिः ॥ 064c
कौरवान्समरे राजन्प्रतियुध्यस्व भारत । 065a
पञ्चमे दिवसे तात पृथिवी ते भविष्यति ॥ 065c
नित्यं च पुरुषव्याघ्र धर्ममेवानुचिन्तय । 066a
आनृशंस्यं तपो दानं क्षमां सत्यं च पाण्डव ॥ 066c
सेवेथाः परमप्रीतो यतो धर्मस्ततो जयः । 067a
इत्युक्त्वा पाण्डवं व्यासस्तत्रैवान्तरधीयत ॥ ॥ 067c

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे चतुरशीत्यधिकशततमोऽध्यायः ॥ 184 ॥

5-184-1 महत् जयालम्बनममोघशक्तिरूपमिति शेषः । अपनीतं नाशितम् । महदपनीतम् अन्याय इति वा ॥ 5-184-11 दुष्प्रणीतेन दुर्नयेन ॥ 5-184-32 अभिज्ञश्चैवेति झ. पाठः ॥ चतुरशीत्यधिकशततमोध्यायः ॥