श्रीः अध्यायः 183 धृतराष्ट्रेण सञ्जयम् प्रति कर्णेन अर्जुने शक्तेरमोक्षणकारणप्रश्ने सञ्जयेन सात्यकिम् प्रति कृष्णोक्ततदुत्तरकथनम् ॥ 1 ॥ धृतराष्ट्र उवाच 001
एकवीरवधे मोघा शक्तिः सूतात्मजे यदा । 001a
कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान् ॥ 001c
तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः । 002a
एकवीरवधे कस्माद्युद्धे न जयमादधे ॥ 002c
आहूतो न निवर्तेयमिति तस्य महाव्रतम् । 003a
स्वयं मार्गयितव्यः स सूतपुत्रेण फल्गुनः ॥ 003c
ततो द्वैरथमानीय फल्गुनं शक्रदत्तया । 004a
जघान न वृषा कस्मात्तन्ममाचक्ष्व सञ्जय ॥ 004c
नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः । 005a
शत्रुभिर्व्यंसितः पापः कथं नु स जयेदरीन् ॥ 005c
या ह्यस्य परमा शक्तिर्जयस्य च परायणम् । 006a
सा शक्तिर्वासुदेवेन व्यंसिता च घटोत्कचे ॥ 006c
कुणेर्यथा हस्तगतं ह्रियेद्बिल्वं बलीयसा । 007a
तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे ॥ 007c
यथा वराहस्य शुनश्च युध्यतोस्तयोरभावे श्वपचस्य लाभः । 008a
मन्ये विद्वन्वासुदेवस्य तद्वद्युद्धे लाभः कर्णहैडिम्बयोर्वै ॥ 008c
घटोत्कचो यदि हन्याद्धि कर्णं परो लाभः स भवेत्पाण्डवानाम् । 009a
वैकर्तनो वा यदि तं निहन्यात्तथापि कृत्यं शक्तिनाशात्कृतं स्यात् ॥ 009c
इति प्राज्ञः प्रज्ञयैतद्विचिन्त्य घटोत्कचं सूतपुत्रेण युद्धे । 010a
अघातयद्वासुदेवो नृसिंहः प्रियं कुर्वन्पाण्डवानां हितं च ॥ 010c
सञ्जय उवाच 011
एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप । 011a
नियोजयामास तदा द्वैरथे राक्षसेश्वरम् ॥ 011c
घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः । 012a
अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव ॥ 012c
तदैव कृतकार्या हि वयं स्याम कुरूद्वह । 013a
न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात् ॥ 013c
साश्वध्वजरथः सङ्ख्ये धृतराष्ट्र पतेद्भुवि । 014a
विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम् ॥ 014c
तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव । 015a
जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः ॥ 015c
सविशेषं त्वमेयात्मा कृष्णो रक्षेन्न फल्गुनम् । 016a
हन्यात्क्षिप्रं हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः ॥ 016c
धृतराष्ट्र उवाच 017
विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः । 017a
यस्यैष समतिक्रान्तो वधोपायो जयं प्रति ॥ 017c
स वा कर्णो महाबुद्धिः सर्वशस्त्रभृतां वरः । 018a
न मुक्तवान्कथं सूत ताममोघां धनञ्जये ॥ 018c
तवापि समतिक्रान्तमेतद्गावल्गणे कथम् । 019a
एतमर्थं महाबुद्धे यत्त्वया नावबोधितः ॥ 019c
सञ्जय उवाच 020
दुर्योधनस्य शकुनेर्मम दुःशासनस्य च । 020a
रात्रौ रात्रौ भवत्येषा नित्यमेव विकत्थना ॥ 020c
श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनञ्जयम् । 021a
प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः ॥ 021c
अथवा निहते पार्थं पाण्डवान्यतमं ततः । 022a
स्थापयेद्यदि वार्ष्णेयस्तस्मात्कृष्णो हि हन्यताम् ॥ 022c
कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः । 023a
शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसञ्ज्ञिताः ॥ 023c
कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः । 024a
कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः ॥ 024c
तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज । 025a
कृष्णं हि विद्धि पाण्डूनां मूलं सर्वत्र सर्वदा ॥ 025c
हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम् । 026a
कृत्स्ना वसुमती राजन्वशे तस्य न संशयः ॥ 026c
यदि हि स निहतः शयीत भूमौ यदुकुलपाण्डवनन्दनो महात्मा । 027a
ननु तव वसुधा नरेन्द्र सर्वा सगिरिसमुद्रवना वशं व्रजेत ॥ 027c
सा तु बुद्धिः कृताऽप्येवं जाग्रति त्रिदशेश्वरे । 028a
अप्रमेये हृषीकेशे युद्धकाले त्वमुह्यत ॥ 028c
अर्जुनं चापि राधेयात्सदा रक्षति केशवः । 029a
न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे ॥ 029c
अन्यांश्चास्मै रथोदारानुपास्थापयदच्युतः । 030a
अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो ॥ 030c
यश्चैवं रक्षते पार्थं कर्णात्कृष्णो महामनाः । 031a
आत्मानं स कथं राजन्न रक्षेत्पुरुषोत्तमः ॥ 031c
परिचिन्त्य तु पश्यामि चक्रायुधमरिन्दमम् । 032a
न सोऽस्ति त्रिषु लोकेषु यो जयेत जनार्दनम् ॥ 032c
सञ्जय उवाच 033
ततः कृष्णं महाबाहुं सात्यकिः सत्यविक्रमः । 033a
पप्रच्छ रथशार्दूलः कर्णं प्रति महारथः ॥ 033c
अयं च प्रत्ययः कर्णे शक्तिश्चामितविक्रमा । 034a
किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा ॥ 034c
वासुदेव उवाच 035
दुःशासनश्च कर्णश्च शकुनिश्च ससैन्धवः । 035a
सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः || 035c
कर्णकर्ण महेष्वास रणेऽमितपराक्रम । 036a
नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर ॥ 036c
ऋते महारथात्कर्ण कुन्तीपुत्राद्धनञ्जयात् । 037a
स हि तेषामतियशा देवानामिव वासवः ॥ 037c
तस्मिन्विनिहते पार्थे पाण्डवाः सृञ्जयैः सह । 038a
भविष्यन्ति गतात्मानः सुरा इव निरग्नयः ॥ 038c
तथेति च प्रतिज्ञातं कर्णेन शिनिपुङ्गव । 039a
हृदि नित्यं च कर्णस्य वधो गाण्डीवधन्वनः ॥ 039c
अहमेव तु राधेयं मोहयामि युधांवर । 040a
ततो नावासृजच्छक्तिं पाण्डवे श्वेतवाहने ॥ 040c
फल्गुनस्य हि सा मृत्युरिति चिन्तयतोऽनिशम् । 041a
न निद्रा न च मे हर्षो मनसोऽस्ति युधांवर ॥ 041c
घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुङ्गव । 042a
मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनञ्जयम् ॥ 042c
न पिता न च मे माता न यूयं भ्रातरस्तथा । 043a
न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे ॥ 043c
त्रैलोक्यराज्याद्यत्किञ्चिद्भवेदन्यत्सुदुर्लभम् । 044a
नेच्छेयं सात्वताहं तद्विना पार्थं धनञ्जयम् ॥ 044c
अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत् । 045a
मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनञ्जयम् ॥ 045c
अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः । 046a
न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम् ॥ 046c
सञ्जय उवाच 047
इति सात्यकये प्राह तदा देवकिनन्दनः । 047a
धनञ्जयहिते युक्तस्तत्प्रिये सततं रतः ॥ ॥ 047c

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे त्र्यशीत्यधिकशततमोऽध्यायः ॥ 183 ॥

5-183-7 ह्रियेत् हियेत ॥ 5-183-11 एतत्प्रकृतशक्त्यार्जुनहननम् ॥ 5-183-17 सविशेषात्त्वमोघायाः कृष्णोऽरक्षत पाण्डवम् इति झ. पाठः । एष कृत्स्नः जयम् प्रति अर्जुनस्येत्यर्थः ॥ 5-183-38 निरग्नयोऽग्निंविना मुखहीना इवेत्यर्थः ॥ 5-183-47 हिते आमुष्मिके श्रेयसि । प्रिये ऐहिके कल्याणे ॥ त्र्यशीत्यधिकशततमोऽध्यायः ॥