श्रीः
अध्यायः 182
श्रीकृष्णेनार्जुनम् प्रति जरासन्धादिपराक्रमकथनपूर्वकं तेषां दुर्जयतया पूर्वमेव स्वेनोपायैर्हननकथनम् ॥ 1 ॥
अर्जुन उवाच 001
कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन । 001a
जरासन्धप्रभृतयो घातिताः पृथिवीश्वराः ॥ 001c
वासुदेव उवाच 002
जरासन्धश्चेदिराजो नैषादिश्च महाबलः । 002a
यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयङ्कराः ॥ 002c
दुर्योधनस्तानवश्यं वृणुयाद्रथसत्तमान् । 003a
तेऽस्मासु नित्यविद्विष्टाः संश्रयेयुश्च कौरवान् ॥ 003c
ते हि वीरा महेष्वासाः कृतास्त्रा दृढयोधिनः । 004a
धार्तराष्ट्रचमूं कृत्स्नां रक्षेयुरमरा इव ॥ 004c
सूतपुत्रो जरासन्धश्चेदिराजो निषादजः । 005a
सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम् ॥ 005c
योगैरभिहता यैस्ते तन्मे शृणु धनञ्जय । 006a
अजय्या हि विना योगैर्मृधे ते दैवतैरपि ॥ 006c
एकैको हि पृथक् तेषां समस्तां रिपुवाहिनीम् । 007a
योधयेत्समरे पार्थ लोकपालाभिरक्षिताम् ॥ 007c
जरासन्धो हि रुषितो रौहिणेयप्रधर्षितः । 008a
अस्मद्वधार्थं चिक्षेप गदां वै सर्वघातिनीम् ॥ 008c
सीमन्तमिव कुर्वाणा नभसः पावकप्रभा । 009a
अदृश्यतापतन्ती सा शक्रमुक्ता यथाऽशनिः ॥ 009c
तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः । 010a
प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत् ॥ 010c
अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि । 011a
दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान् ॥ 011c
तत्र सा राक्षसी घोरा जरानाम्नी सुविक्रमा । 012a
सन्दधे सा हि सञ्जातं जरासन्धमरिन्दमम् ॥ 012c
द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक् । 013a
जरया सन्धितो यस्माज्जरासन्धस्ततोऽभवत् ॥ 013c
सा तु भूमिं गता पार्थ हता ससुतबान्धवा । 014a
गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी ॥ 014c
विनाभूतः स गदया जरासन्धो महामृधे । 015a
निहतो भीमसेनेन पश्यतस्ते धनञ्जय ॥ 015c
यदि हि स्याद्गदापाणिर्जरासन्धः प्रतापवान् । 016a
सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम ॥ 016c
त्वद्धितार्थं च नैषादिरङ्गुष्ठेन वियोजितः । 017a
द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः ॥ 017c
स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः । 018a
अतिमानी वनचरो बभौ राम इवापरः ॥ 018c
एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः । 019a
सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित् ॥ 019c
किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम् । 020a
दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम् ॥ 020c
त्वद्धितार्थं तु स मया हतः सङ्ग्राममूर्धनि ॥ 021ac
चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव । 022a
स चाप्यशक्यः सङ्ग्रामे जेतुं सर्वसुरासुरैः ॥ 022c
वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम् । 023a
त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया ॥ 023c
हिडिम्बबककिर्मीरा भीमसेनेन पातिताः । 024a
रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः ॥ 024c
हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः । 025a
हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः ॥ 025c
यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे । 026a
मयां वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः । 026c
मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया ॥ 026e
एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः । 027a
धर्मस्य लोप्ता पापात्मा तस्मादेव निपातितः । 027c
व्यंसिता चाप्युपायेन शक्रदत्ता मयाऽनघ ॥ 027e
ये हि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव । 028a
धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया ॥ 028c
ब्रह्म सत्यं दमः शौचं धर्मो ह्रीः श्रीर्धृतिः क्षमा । 029a
यत्र तत्र रमे नित्यमहं सत्येन ते शपे ॥ 029c
न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति । 030a
उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि ॥ 030c
सुयोधनं चापि रणे हनिष्यति वृकोदरः । 031a
तस्यापि च वधोपायं वक्ष्यामि तव पाण्डव ॥ 031c
वर्धते तुमुलस्त्वेष शब्दः परचमूं प्रति । 032a
विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥ 032c
लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव । 033a
दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः ॥ ॥ 033c
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे द्व्यशीत्यधिकशततमोऽध्यायः ॥ 182 ॥
5-182-1 योगैरुपायैः ॥ 5-182-8 रौक्मिणेयप्रधर्षितः इति क. ङ. पाठः ॥ 5-182-27 व्यंसिता व्यर्थीकृता शक्तिरिति शेषः ॥ द्व्यशीत्यधिकशततमोऽध्यायः ॥