श्रीः अध्यायः 181 घटोत्कचनिधनात्सर्वेषु शोचत्सु हर्षादात्मानं परिष्वजमानं कृष्णं प्रत्यर्जुनेन हर्षहेतुप्रश्नः ॥ 1 ॥ कृष्णेन तदभिधानपूर्वकं कर्णप्रभावप्रशंसनम् ॥ 2 ॥ 'धृतराष्ट्र उवाच 001
तस्मिन्हते महामाये महातेजसि राक्षसे । 001a
अमर्षिताः पाण्डवेयाः किमकुर्वन्महारणे ॥ 001c
मर्दिताश्च भृशं युद्धे किमकुर्वन्त सञ्जय ॥ 002ac
ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकं प्रहारिणः । 003a
सृञ्जयाः सह पाञ्चालैस्तेऽकुर्वन्किं महारणे ॥ 003c
सौमदत्तिवधाद्द्रोणमायत्तं सैन्धवस्य च । 004a
अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम् ॥ 004c
जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम् । 005a
कथं प्रत्युद्ययुर्द्रोणमजय्यं कुरुसृञ्जयाः ॥ 005c
आचार्यं ये च रक्षन्ति दुर्योधनपुरोगमाः । 006a
द्रौणिकर्णकृपास्तात ते ह्यकुर्वन्किमाहवे ॥ 006c
भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ । 007a
आर्च्छतां मामकान्युद्धे कथं सञ्जय शंस मे ॥ 007c
सिन्धुराजवधेनेमे घटोत्कचवधेन ते । 008a
अमर्षिताश्च सङ्क्रुद्धा रणं चक्रुः कथं युधि ॥' 008c
सञ्जय उवाच 009
हैडिम्बिं निहतं दृष्ट्वा विशीर्णमिव पर्वतम् । 009a
बभूवुः पाण्डवाः सर्वे शोकबाष्पाकुलेक्षणाः ॥ 009c
वासुदेवस्तु हर्षेण महताऽभिपरिप्लुतः । 010a
ननाद सिंहवन्नादं व्यथयन्निव भारत ॥ 010c
हतं घटोत्कचं ज्ञात्वा वासुदेवः प्रतापवान् । 011a
विनद्य च महानादं पर्यष्वजत फल्गुनम् ॥ 011c
स विनद्य महानादमभीशून्सन्नियम्य च । 012a
ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः ॥ 012c
ततः परिष्वज्य पुनः पार्थमास्फोट्य चासकृत् । 013a
रथोपस्थगतो धीमान्प्राणदत्पुनरच्युतः ॥ 013c
प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलः । 014a
अर्जुनोऽथाब्रवीद्राजन्नातिहृष्टमना इव ॥ 014c
अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन । 015a
शोकस्थाने तु सम्प्राप्ते हैडिम्बस्य वधेन तु ॥ 015c
विमुखानीह सैन्यानि हतं दृष्ट्वा घटोत्कचम् । 016a
वयं च भृशमुद्विग्ना हैडिम्बेस्तु निपातनात् ॥ 016c
नैतत्कारणमल्पं हि भविष्यति जनार्दन । 017a
तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर ॥ 017c
यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिन्दम । 018a
धैर्यस्य विकृतिं ब्रूहि त्वमद्य मधुसूदन ॥ 018c
समुद्रस्येव संशोषं मेरोरिव विसर्पणम् । 019a
तथैतदद्य मन्येऽहं तव कर्म जनार्दन ॥ 019c
वासुदेव उवाच 020
अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनञ्जय । 020a
अतीव मनसः सद्यः प्रसादकरमुत्तमम् ॥ 020c
शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते । 021a
कर्णं निहतमेवाजौ विद्धि सद्यो धनञ्जय ॥ 021c
शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह । 022a
य एनमभितस्तिष्ठेत्कार्तिकेयमिवाहवे ॥ 022c
दिष्ट्याऽपनीतकवचो दिष्ट्याऽपहृतकुण्डलः । 023a
दिष्ट्या सा व्यंसिता शक्तिरमोघाऽस्य घटोत्कचे ॥ 023c
यदि हि स्यात्सकवचस्तथैव स्यात्सकुण्डलः । 024a
सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्रणे ॥ 024c
वासवो वा कुबेरो वा वरुणो वा जलेश्वरः । 025a
यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम् ॥ 025c
गाण्डीवमुद्यम्य भवांश्चक्रं चाहं सुदर्शनम् । 026a
न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम् ॥ 026c
त्वद्धितार्थं तु शक्रेण मायापहृतकुण्डलः । 027a
विहीनकवचश्चायं कृतः परपुरञ्जयः ॥ 027c
उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते । 028a
प्रादाच्छक्राय वै कर्णस्तस्माद्वैकर्तनः स्मृतः ॥ 028c
आशीविष इव क्रुद्धः स्तम्भितो मन्त्रतेजसा । 029a
तथाऽद्य भाति कर्णो मे शान्तज्वाल इवानलः ॥ 029c
यदाप्रभृति कर्णाय शक्तिर्दत्ता महात्मना । 030a
वासवेन महाबाहो क्षिप्ता याऽसौ घटोत्कचे ॥ 030c
कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च । 031a
तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे ॥ 031c
एवं गतोऽपि शक्योऽयं हन्तुं नान्येन केनचित् । 032a
ऋते त्वां पुरुषव्याघ्र शपे सत्येन चानघ ॥ 032c
ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः । 033a
रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः ॥ 033c
युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः । 034a
केसरीव वने नर्दन्मत्तमातङ्गयूथपान् । 034c
विमर्दन्रथशार्दूलान्राजते रणमूर्धनि ॥ 034e
मध्यङ्गत इवादित्यो यो न शक्यो निरीक्षितुम् । 035a
त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्सभिः ॥ 035c
शरजालसहस्रांशुः शरदीव दिवाकरः ॥ 036ac
तपान्ते जलदो यद्वच्छरधाराः क्षरन्मुहुः । 037a
दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान् ॥ 037c
त्रिदशैरपि चास्यद्भिः शरवर्षं समन्ततः । 038a
अशक्यस्तदयं जेतुं स्रवद्भिर्मांसशोणितम् ॥ 038c
कवचेन विहीनश्च कुण्डलाभ्यां च पाण्डव । 039a
सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया ॥ 039c
एको हि योगोऽस्य भवेद्वधाय च्छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम् । 040a
कृच्छ्रं प्राप्तं रथचक्रे विमग्ने हन्याः पूर्वं त्वं तु सञ्ज्ञां विचार्य ॥ 040c
न ह्युद्यतास्त्रं युधि हन्यादजय्यमप्येकवीरो बलभित्सवज्रः ॥ 041ac
जरासन्धश्चेदिराजो महात्मा महाबाहुश्चैकलव्यो निषादः । 042a
एकैकशो निहताः सर्व एते योगैस्तैस्तैस्त्वद्धितार्थं मयैव ॥ 042c
अथापरे निहता राक्षसेन्द्रा हिडिम्बकिर्मीरबकप्रधानाः । 043a
अलायुधः परचक्रावमर्दी घटोत्कचश्चोग्रकर्मा तरस्वी ॥ ॥ 043c

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे एकाशीत्यधिकशततमोऽध्यायः ॥ 181 ॥

5-181-18 धैर्यस्य वैकृतम् इति झ. पाठे अस्मत्पक्षक्षयेण तव हर्षोऽस्मद्धैर्यविनाशक इत्यर्थः ॥ 5-181-31 कुण्डलाभ्यां निमाय विनिमयं कृत्वा ॥ 5-181-33 वृषा धर्मप्रधानः ॥ 5-181-37 पर्जन्यइव वृष्टिमान् । नेता नेतृभिरस्यद्भिः शरवर्षाणि वर्षताम् । सोऽद्य मानुषतामित्यादि क. ट. ड. पाठः ॥ एकाशीत्यधिकशततमोऽध्यायः ॥