श्रीः अध्यायः 180 कर्णेन घटोत्कचवधः ॥ 1 ॥ सञ्जय उवाच 001
निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः । 001a
ननाद विविधान्नादान्वाहिन्याः प्रमुखे तव ॥ 001c
तस्य तं तुमुलं शब्दं श्रुत्वा हृदयकम्पनम् । 002a
तावकानां महाराज भयमासीत्सुदारुणम् ॥ 002c
अलायुधविषक्तं तु भैमसेनिं महाबलम् । 003a
दृष्ट्वा कर्णो महाबाहुः पाञ्चालान्समुपाद्रवत् ॥ 003c
दशभिर्दशभिर्बाणैर्धृष्टद्युम्नशिखण्डिनौ । 004a
दृढैः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः ॥ 004c
ततः परमनाराचैर्युधामन्यूत्तमौजसौ । 005a
सात्यकिं च रथोदारं कम्पयमास मार्गणैः ॥ 005c
तेषामप्यस्यतां सङ्ख्ये सर्वेषां सव्यदक्षिणम् । 006a
मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप ॥ 006c
तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह । 007a
मेघानामिव घर्मान्ते बभूव तुमुलो निशि ॥ 007c
ज्यानेमिघोषस्तनयित्नुमान्वै धनुस्तटिन्मण्डलकेतुशृङ्गः । 008a
शरौघवर्षाकुलवृष्टिमांश्च सङ्ग्राममेघः स बभूव राजन् ॥ 008c
तदद्भुतं शैल इवाप्रकम्पो वर्षं महाशैलसमानसारः । 009a
विध्वंसयामास रणे नरेन्द्र वैकर्तनः शत्रुगणावमर्दी ॥ 009c
ततोऽतुलैर्वज्रनिपातकल्पैः शितैः शरैः काञ्चनचित्रपुङ्खैः । 010a
शत्रून्व्यपोहत्समरे महात्मा वैकर्तनः पुत्रहिते रतस्ते ॥ 010c
सञ्छिन्नभिन्नध्वजिनश्च केचित्केचिच्छरैरर्दितभिन्नदेहाः । 011a
केचिद्विसूता विहयाश्च केचिद्वैकर्तनेनाशु कृता बभूवुः ॥ 011c
अविन्दमानास्त्वथ शर्म सङ्ख्ये यौधिष्ठिरं ते बलमभ्यपद्यन् । 012a
तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च घटोत्कचो रोषमतीव चक्रे ॥ 012c
आस्थाय तं काञ्चनरत्नचित्रं रथोत्तमं सिंहवत्सन्ननाद । 013a
वैकर्तनं कर्णमुपेत्य चापि विव्याध वज्रप्रतिमैः पृषत्कैः ॥ 013c
तौ कर्णिनाराचशिलीमुखैश्च नालीकदण्डासनवत्सदन्तैः । 014a
वराहकर्णैः सविपाठशृङ्गैः क्षुरप्रवर्षैश्च विनेदतुः खम् ॥ 014c
तद्बाणधारावृतमन्तरिक्षं तिर्यग्गताभिः समरे रराज । 015a
सुवर्णपुङ्खज्वलितप्रभाभिर्विचित्रपुष्पाभिरिव प्रजाभिः ॥ 015c
समाहितावप्रतिमप्रभावावन्योन्यमाजघ्नतुरुत्तमास्त्रैः । 016a
तयोर्हि वीरोत्तमयोर्न कश्चिद्ददर्श तस्मिन्समरे विशेषम् ॥ 016c
अतीव तच्चित्रमतुल्यरूपं बभूव युद्धं रविभीमसून्वोः । 017a
समाकुलं शस्त्रनिपातघोरं दिवीव राह्वंशुमतोः प्रमत्तम् ॥ 017c
सञ्जय उवाच 018
घटोत्कचं यदा कर्णो न विशेषयते नृप । 018a
ततः प्रादुश्चकारोग्रमस्त्रमस्त्रविदां वरः ॥ 018c
तेनास्त्रेणावधीत्तस्य रथं सहयसारथिम् । 019a
विरथश्चापि हैडिम्बिः क्षिप्रमन्तरधीयत ॥ 019c
धृतराष्ट्र उवाच 020
तस्मिन्नन्तर्हिते तूर्णं कूटयोधिनि राक्षसे । 020a
मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व सञ्जय ॥ 020c
सञ्जय उवाच 021
अन्तर्हितं राक्षसेन्द्रं विदित्वासम्प्राक्रोशन्कुरवः सर्व एव । 021a
कथं नायं राक्षसः कूटयोधी हन्यात्कर्णं समरेऽदृश्यमानः ॥ 021c
ततः कर्णो लघुचित्रास्त्रयोधी सर्वा दिशः प्रावृणोद्बाणजालैः । 022a
न वै किञ्चित्प्रापतत्तत्र भूतं तमोभूते सायकैरन्तरिक्षे ॥ 022c
नैवाददानो न च सन्दधानो न चेषुधीस्पृशमानः कराग्रैः । 023a
अदृश्यद्वै लाघवात्सूतपुत्रः सर्वं बाणैश्छादयानोऽन्तरिक्षम् ॥ 023c
ततो मायां दारुणामन्तरिक्षे घोरां भीमां विहितां राक्षसेन । 024a
अपश्याम लोहिताभ्रप्रकाशां देदीप्यन्तीमग्निशिखामिवोग्राम् ॥ 024c
ततस्तस्यां विद्युतः प्रादुरासन्नुल्काश्चापि ज्वलिताः कौरवेन्द्र । 025a
घोषश्चास्याः प्रादुरासीत्सुघोरः सहस्रशो नदतां दुन्दुभीनाम् ॥ 025c
ततः शराः प्रापतन्रुक्मपुङ्खाः शक्त्यृष्टिप्रासमुसलान्यायुधानि । 026a
परश्वथास्तैलधौताश्च खड्गाः प्रदीप्ताग्रास्तोमराः पट्टसाश्च ॥ 026c
मयूखिनः परिघा लोहबद्धा गदाश्चित्राः शितधाराश्च शूलाः । 027a
गुर्व्यो गदा हेमपट्टावनद्धाः शतघ्न्यश्च प्रादुरासन्समन्तात् ॥ 027c
महाशिलाश्चापतंस्तत्रतत्र सहस्रशः साशनयश्च वज्राः । 028a
चक्राणि चानेकशतक्षुराणि प्रादुर्बभूवुर्ज्वलनप्रभाणि ॥ 028c
तां शक्तिपाषाणपरश्वथानां प्रासासिवज्राशनिमुद्गराणाम् । 029a
वृष्टिं विशालां ज्वलितां पतन्तीं कर्णः शरौघैर्न शशाक हन्तुम् ॥ 029c
शराहतानां पततां हयानां वज्राहतानां च तथा गजानाम् । 030a
शिलाहतानां च महारथानां महान्निनादः पततां बभूव ॥ 030c
सुभीमनानाविधशस्त्रपातैर्घटोत्कचेनाभिहतं समन्तात् । 031a
दौर्योधनं वै बलमार्तरूपमावर्तमानं ददृशे भ्रमत्तत् ॥ 031c
हाहाकृतं सम्परिवर्तमानं संलीयमानं च विषण्णरूपम् । 032a
ते त्वार्यभावात्पुरुषप्रवीराः पराङ्मुखा नो बभूवुस्तदानीम् ॥ 032c
तां राक्षसीं भीमरूपां सुघोरां वृष्टिं महाशस्त्रमयीं पतन्तीम् । 033a
दृष्ट्वा बलौघांश्च निपात्यमानान्महद्भयं तव पुत्रान्विवेश ॥ 033c
शिवाश्च वैश्वानरदीप्तजिह्वाः सुभीमनादाः शतशो नदन्तीः । 034a
रक्षोगणान्नर्दतश्चापि वीक्ष्य नरेन्द्र योधा व्यथिता बभूवुः ॥ 034c
ते दीप्तजिह्वानलतीक्ष्णदंष्ट्रा विभीषणाः शैलनिकाशकायाः । 035a
नभोगताः शक्तिविषक्तहस्ता मेघा व्यमुञ्चन्निव वृष्टिमुग्राम् ॥ 035c
तैराहतास्ते शरशक्तिशूलैर्गदाभिरुग्रैः परिघैश्च दीप्तैः । 036a
वज्रैः पिनाकैरशनिप्रहारैः शतघ्निचक्रैर्मथिताश्च पेतुः ॥ 036c
शूला भुशुण्ड्योऽश्मगुडाः शतघ्न्यः स्थूलाश्च कार्ष्णायसपट्टनद्धाः । 037a
तेऽवाकिरंस्तव पुत्रस्य सैन्यं ततो रौद्रं कश्मलं प्रादुरासीत् ॥ 037c
विकीर्णान्त्रा विहतैरुत्तमाङ्गैः सम्भग्नाङ्गाः शिश्यिरे तत्र शूराः । 038a
छिन्ना हयाः कुञ्जराश्चापि भग्ना न मुच्यन्ते याचमानाः सुभीताः ॥ 038c
एवं महच्छस्त्रवर्षं सृजन्तस्ते यातुधाना भुवि घोररूपाः । 039a
मायाः सृष्टास्तत्र घटोत्कचेन नामुञ्चन्वै याचमानं न भीतम् ॥ 039c
तस्मिन्घोरे कुरुवीरावमर्दे कालोत्सृष्टे क्षत्रियाणामभावे । 040a
ते वै भग्नाः सहसा व्यद्रवन्त प्राक्रोशन्तः कौरवाः सर्व एव ॥ 040c
पलायध्वं कुरवो नैतदस्ति सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे । 041a
तथा तेषां मज्जतां भारतानां तस्मिन्द्वीपः सूतपुत्रो बभूव ॥ 041c
तस्मिन्सङ्क्रन्दे तुमुले वर्तमाने सैन्ये भग्ने लीयमाने कुरूणाम् । 042a
अनीकानां प्रविभागे प्रकाशे न ज्ञायन्ते कुरवो नेतरे च ॥ 042c
निर्मर्यादे विद्रवे घोररूपे सर्वा दिशः प्रेक्षमाणाः स्म शून्याः । 043a
तां शस्त्रवृष्टिमुरसा गाहमानं कर्णं स्मैकं तत्र राजन्नपश्यन् ॥ 043c
ततो बाणैरावृणोदन्तरिक्षं दिव्यां मायां योधयन्राक्षसस्य । 044a
ह्रीमान्कुर्वन्दुष्करं चार्यकर्म नैवामुह्यत्संयुगे सूतपुत्रः ॥ 044c
ततो भीताः समुदैक्षन्त कर्णं राजन्सर्वे सैन्धवा बाह्लिकाश्च । 045a
असम्मोहं पूजयन्तोऽस्य सङ्ख्ये सम्पश्यन्तो विजयं राक्षसस्य ॥ 045c
तेनोत्सृष्टा चक्रयुक्ता शतघ्नी समं सर्वांश्चतुरोऽश्वाञ्जघान । 046a
ते जानुभिर्जगतीमन्वपद्यन्गतासवो निर्दशनाक्षिजिह्वाः ॥ 046c
ततो हताश्वादवरुह्य यानादन्तर्मनाः कुरुषु प्राद्रवत्सु । 047a
दिव्ये चास्त्रे मायया वध्यमाने नैवामुह्यच्चिन्तयन्प्राप्तकालम् ॥ 047c
ततोऽब्रुवन्कुरवः सर्व एव कर्णं दृष्ट्वा घोररूपां च मायाम् । 048a
शक्त्या रक्षो जहि कर्णाद्य तूर्णं नश्यन्त्येते कुरवो धार्तराष्ट्राः ॥ 048c
करिष्यतः किञ्च नो भीमपार्थौ तपन्तमेनं जहि पापं निशीथे । 049a
यो नः सङ्ग्रामाद्घोररूपाद्विमुच्येत्स नः पार्थान्सबालान्योधयेत ॥ 049c
तस्मादेनं राक्षसं घोररूपं शक्त्या जहि त्वं दत्तया वासवेन । 050a
मा कौरवाः सर्व एवेन्द्रकल्पा रात्रियुद्धे कर्ण नेशुः सयोधाः ॥ 050c
स वध्यमानो रक्षसा वै निशीथे दृष्ट्वा राजंस्त्रास्यमानं बलं च । 051a
महच्छ्रुत्वा निनदं कौरवाणां मतिं दध्रे शक्तिमोक्षाय कर्णः ॥ 051c
स वै क्रुद्धः सिंह इवात्यमर्षी नामर्षयन्प्रतिघातं रणेऽसौ । 052a
शक्तिं श्रेष्ठां वैजयन्तीमसह्यां समाददे तस्य वधं चिकीर्षन् ॥ 052c
याऽसौ राजन्निहिता वर्षपूगान्वधायाजौ सत्कृता फल्गुनस्य । 053a
यां वै प्रादात्सूतपुत्राय शक्रः शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय ॥ 053c
तां वै शक्तिं लेलिहानां प्रदीप्तां पाशैर्युक्तामन्तकस्येव जिह्वाम् । 054a
मृत्योः स्वसारं ज्वलितामिवोल्कां वैकर्तनः प्राहिणोद्राक्षसाय ॥ 054c
तामुत्तमां परकायावहन्त्रीं दृष्ट्वा शक्तिं बाहुसंस्थां ज्वलन्तीम् । 055a
भीतं रक्षो विप्रदुद्राव राजन्कृत्वाऽऽत्मानं विन्ध्यतुल्यप्रमाणम् ॥ 055c
दृष्ट्वा शक्तिं कर्णबाह्वन्तरस्थां नेदुर्भूतान्यन्तरिक्षे नरेन्द्र । 056a
ववुर्वातास्तुमुलाश्चापि राजन्सनिर्घाता चाशनिर्गां जगाम ॥ 056c
सा तां मायां भस्म कृत्वा ज्वलन्ती भित्त्वा गाढं हृदयं राक्षसस्य । 057a
ऊर्ध्वं ययौ दीप्यमाना निशायां नक्षत्राणामन्तराण्याविवेश ॥ 057c
स निर्भिन्नो विविधैरस्त्रपूगैर्दिव्यैर्नागैर्मानुषै राक्षसैश्च । 058a
नदन्नादान्विविधान्भैरवांश्च प्राणानिष्टांस्त्याजितः शक्रशक्त्या ॥ 058c
इदं चान्यच्चित्रमाश्चर्यरूपं चकारासौ कर्म शत्रुक्षयाय । 059a
तस्मिन्काले शक्तिनिर्भिन्नमर्मा बभौ राजञ्शैलमेघप्रकाशः ॥ 059c
ततोऽन्तरिक्षादपतद्गतासुः स राक्षसेन्द्रो भुवि भिन्नदेहः । 060a
अवाक्शिराः स्तब्धगात्रो विजिह्वो घटोत्कचो महदास्थाय रूपम् ॥ 060c
स तद्रूपं भैरवं भीमकर्मा भीमं कृत्वा भैमसेनिः पपात । 061a
हतोऽप्येवं तव सैन्यैकदेशमपोथयत्स्वेन देहेन राजन् ॥ 061c
पतद्रक्षः स्वेन कायेन तूर्णमतिप्रमाणेन विवर्धता च । 062a
प्रियं कुर्वन्पाण्डवानां गतासुरक्षौहिणीं तव तूर्णं जघान ॥ 062c
ततो मिश्राः प्राणदन्सिंहनादैर्भेर्यः शङ्खा मुरजाश्चानकाश्च । 063a
दग्धां मायां निहतं राक्षसं च दृष्ट्वा हृष्ट्वाः प्राणदन्कौरवेयाः ॥ 063c
ततः कर्णः कुरुभिः पूज्यमानो यथा शक्रो वृत्रवधे मरुद्भिः । 064a
अन्वारूढस्तव पुत्रस्य यानं हृष्टश्चापि प्राविशत्तत्स्वसैन्यम् ॥ ॥ 064c

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे अशीत्यधिकशततमोऽध्यायः ॥ 180 ॥

5-180-8 केतुशृङ्गः ध्वजशिखरः ॥ 5-180-15 तिर्यग्गताभिरिषुपङ्क्तिभिरिति शेषः ॥ 5-180-20 प्रतिपन्नं कर्तव्यत्वेन ज्ञातमनुष्ठितं च ॥ 5-180-23 अदृश्यत् अदृश्यत ॥ 5-180-43 उरसा हार्दबलेन ॥ अशीत्यधिकशततमोऽध्यायः ॥