श्रीः अध्यायः 179 घटोत्कचेनाऽलायुधवधः ॥ 1 ॥ सञ्जय उवाच 001
सन्दृश्य समरे भीमं रक्षसा ग्रस्तमन्तिकात् । 001a
वासुदेवोऽब्रवीद्राजन्घटोत्कचमिदं वचः ॥ 001c
पश्य भीमं महाबाहो रक्षसा ग्रस्तमाहवे । 002a
पश्यतां सर्वसैन्यानां तव चैव महाद्युते ॥ 002c
स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम् । 003a
जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि ॥ 003c
स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान् । 004a
युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः ॥ 004c
तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः । 005a
अलायुधस्य चैवोग्रं हैडिम्बेश्चापि भारत ॥ 005c
अलायुधस्य योधांश्च राक्षसान्भीमदर्शनान् । 006a
वेगेनापततः शूरान्प्रगृहीतशरासनान् ॥ 006c
आत्तायुधः सुसङ्क्रुद्धो युयुधानो महारथः । 007a
नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः ॥ 007c
सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान् । 008a
परिचिक्षेप बीभत्सुः सर्वतः प्रकिरञ्छरान् ॥ 008c
कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान् । 009a
धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां महारथान् ॥ 009c
तान्वध्यमानान्दृष्ट्वाऽथ भीमो भीमपराक्रमः । 010a
अभ्ययात्त्वरितः कर्णं विशिखान्प्रकिरन्रणे ॥ 010c
ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः । 011a
नकुलः सहदेवश्च सात्यकिश्च महारथः । 011c
ते कर्णे योधयामासुः पाञ्चाला द्रोणमेव तु ॥ 011e
अलायुधस्तु सङ्क्रुद्धो घटोत्कचमरिन्दमम् । 012a
परिघेणातिकायेन ताडयामास मूर्धनि ॥ 012c
स तु तेन प्रहारेण भैमसेनिर्महाबलः । 013a
ईषन्मूर्छितमात्मानमस्तम्भयत वीर्यवान् ॥ 013c
ततो दीप्ताग्निसङ्काशां शतघण्टामलङ्कृताम् । 014a
चिक्षेप तस्मै समरे गदां काञ्चनभूषिताम् ॥ 014c
सा हयांश्च रथं चास्य सारथिं च महास्वना । 015a
चूर्णयामास वेगेन विसृष्टा भीमकर्मणा ॥ 015c
स भग्नहयचक्राक्षाद्विशीर्णध्वजकूबरात् । 016a
उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम् ॥ 016c
स समास्थाय मायां तु ववर्ष रुधिरं बहु । 017a
विद्युद्विभ्राजितं चासीत्तुमुलाभ्राकुलं नभः ॥ 017c
ततो वज्रनिपाताश्च साशनिस्तनयित्नवः । 018a
महांश्चटचटाशब्दस्तत्रासीच्च महाहवे ॥ 018c
तां प्रेक्ष्य महतीं मायां राक्षसो राक्षसस्य च । 019a
ऊर्ध्वमुत्पत्य हैडिम्बिस्तां मायां माययाऽवधीत् ॥ 019c
सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि । 020a
अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे ॥ 020c
अश्मवर्षं स तं घोरं शरवर्षेण वीर्यवान् । 021a
दिक्षु विध्वंसयामास तदद्भुतमिवाभवत् ॥ 021c
ततो नानाप्रहरणैरन्योन्यमभिवर्षताम् । 022a
आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः ॥ 022c
पिनाकैः करवालैश्च तोमरप्रासकम्पनैः । 023a
नाराचैर्निशितैर्भल्लैः शरैश्चक्रैः परश्वथैः ॥ 023c
अयोगुडैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि । 024a
उत्पाटितैर्महाशाखैर्विविधैर्जगतीरुहैः ॥ 024c
शमीपीलूकदम्बैश्च चम्पकैश्चैव भारत । 025a
इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः ॥ 025c
पलाशैश्चारिमेदैश्च प्लुक्षन्यग्रोधपिप्पलैः । 026a
महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः ॥ 026c
विपुलैः पर्वताग्रैश्च नानाधातुभिराचितैः । 027a
तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव ॥ 027c
युद्धं समभवद्घोरं भैम्यलायुधयोर्नृप । 028a
हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा ॥ 028c
तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा । 029a
उत्सृज्य च शितौ खड्गावन्योमभिपेततुः ॥ 029c
तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ । 030a
भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ ॥ 030c
तौ स्विन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप । 031a
रुधिरं च महाकायावतिवृष्टाविवाम्बुदौ ॥ 031c
अथाभिपत्य वेगेन समुद्धाम्य च राक्षसम् । 032a
बलेनाक्षिप्य हैडिम्बिश्चकर्तास्य शिरो महत् ॥ 032c
सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम् । 033a
तदा सुतुमुलं नादं ननाद सुमहाबलः ॥ 033c
हतं दृष्ट्वा महाकायं बकज्ञातिमरिन्दमम् । 034a
पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे ॥ 034c
ततो भेरीसहस्राणि शङ्खानामयुतानि च । 035a
अवादयन्पाण्डवेया राक्षसे निहते युधि ॥ 035c
अतीव सा निशा तेषां बभूव विजयावहा । 036a
विद्योतमाना विबभौ समन्ताद्दीपमालिनी ॥ 036c
अलायुधस्य तु शिरो भैमसेनिर्महाबलः । 037a
दुर्योधनस्य प्रमुखे चिक्षेप गतचेतसः ॥ 037c
अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम् । 038a
बभूव परमोद्विग्नः सह सैन्येन भारत ॥ 038c
तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि । 039a
हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम् ॥ 039c
ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः । 040a
जीवितं चिरकालं हि भ्रातॄणां चाप्यमन्यत ॥ 040c
स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै । 041a
प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत ॥ ॥ 041c

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे एकोनाशीत्यधिकशततमोऽध्यायः ॥ 179 ॥

5-179-28 हरीन्द्रयोः सिंहमुख्ययोः ॥ एकोनाशीत्यधिकशततमोऽध्यायः ॥