श्रीः अध्यायः 178 भीमालायुधयोर्युद्धम् ॥ 1 ॥ सञ्जय उवाच 001
तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे । 001a
हर्षमाहारयाञ्चक्रुः कुरवः सर्व एव ते ॥ 001c
तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः । 002a
अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम् ॥ 002c
पुनर्जातमिवात्मानं मन्वानाः पुरुषर्षभाः । 003a
अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन् ॥ 003c
तस्मिंस्त्वमानुषे युद्धे वर्तमाने महाभये । 004a
कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने ॥ 004c
'न द्रौणिर्न कृपद्रोणौ न शल्यो न च माधवः । 005a
एक एव तु तेनासीद्योद्धा कर्णो रणे वृषा ॥' 005c
उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः । 006a
व्यभ्रमंस्तावकाश्चापि घूर्णमानास्ततस्ततः ॥ 006c
चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः । 007a
तत्कर्म दृष्ट्वा सम्भ्रान्ता हैडिम्बस्य रणाजिरे ॥ 007c
सर्वमाविग्नमभवद्धाहाभूतमचेतनम् । 008a
तव सैन्यं महाराज निराशं कर्णजीविते ॥ 008c
दुर्योधनस्तु सम्प्रेक्ष्य कर्णमार्तिं परां गतम् । 009a
अलायुधं राक्षसेन्द्रं समाहूयेदमब्रवीत् ॥ 009c
एष वैकर्तनः कर्णो हैडिम्बेन समागतः । 010a
कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे ॥ 010c
पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना । 011a
नानाशस्त्रैरभिहतान्पादपानिव दन्तिना ॥ 011c
तवैष भारः समरे ज्ञातिमध्ये मया कृतः । 012a
तवैवानुमते वीर तं विक्रम्य निबर्हय ॥ 012c
पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः । 013a
मायाबलं समाश्रित्य कर्षयत्यरिकर्शन ॥ 013c
एवमुक्तः स राज्ञा तु राक्षसो भीमविक्रमः । 014a
तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत् ॥ 014c
ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो । 015a
प्रत्यमित्रमुपायान्तमर्दयामास मार्गणैः ॥ 015c
तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः । 016a
मत्तयोर्वासिताहेतोर्दीपयोरिव कानने ॥ 016c
रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः । 017a
अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा ॥ 017c
तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम् । 018a
अलायुधेन समरे सिंहेनेव गवां पतिम् ॥ 018c
रथेनादित्यवपुषा भीमः प्रहरतां वरः । 019a
किरञ्छरौघान्प्रययावलायुधरथं प्रति ॥ 019c
तमायान्तमभिप्रेक्ष्य स तदाऽलायुधः प्रभो । 020a
घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत् ॥ 020c
तं भीमः सहसाऽभ्येत्य राक्षसान्तकरः प्रभो । 021a
सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत् ॥ 021c
तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः । 022a
अभ्यवर्षत कौन्तेयं पुनःपुनररिन्दम ॥ 022c
तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन् । 023a
नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः ॥ 023c
स ताड्यमानो बहुभिर्भीमसेनो महाबलः । 024a
पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः ॥ 024c
ते वध्यमाना भीमेन राक्षसाः क्रूरबुद्धयः । 025a
विनेदुस्तुमुलान्नादान्दुद्रुवुस्ते दिशो दश ॥ 025c
तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो मबहालम् । 026a
अभिदुद्राव वेगेन शरैश्चैनमवाकिरत् ॥ 026c
तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः ॥ 027ac
अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे । 028a
चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत् ॥ 028c
स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः । 029a
गदां चिक्षेप वेगेन वज्रपातोपमां तदा ॥ 029c
तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः । 030a
गदया ताडयामास सा गदा भीममाव्रजत् ॥ 030c
स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत् । 031a
तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः ॥ 031c
ते चापि राक्षसाः सर्वे रजन्यां भीमरूपिणः । 032a
शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान् ॥ 032c
पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः । 033a
न शान्तिं लेभिरे तत्र राक्षसैर्भृशपीडिताः ॥ 033c
तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवम् । 034a
अब्रवीत्पुण्डरीकाक्षो धनञ्जयमिदं वचः ॥ 034c
पश्य भीमं महाबाहुं राक्षसेन्द्रवशं गतम् । 035a
पदमस्यानुगच्छ त्वं मा विचारय पाण्डव ॥ 035c
धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ । 036a
सहितौ द्रौपदेयाश्च कर्णं यान्तु महारथाः ॥ 036c
नकुलः सहदेवश्च युयुधानश्च वीर्यवान् । 037a
इतरान्राक्षसान्घ्नन्तु शासनात्तव पाण्डव ॥ 037c
त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम् । 038a
मारयस्व नरव्याघ्र महद्धि भयमागतम् ॥ 038c
एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः । 039a
जग्मुर्वैकर्तनं कर्णं राक्षसांश्चैव तान्रणे ॥ 039c
अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः । 040a
धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान् ॥ 040c
हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः । 041a
जघान मिषतः सङ्ख्ये भीमसेनस्य राक्षसः ॥ 041c
सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः । 042a
तस्मै गुर्वीं गदां घोरां विनदन्नुत्ससर्ज ह ॥ 042c
ततस्तां भीमनिर्घोषामापतन्तीं महागदाम् । 043a
गदया राक्षसो घोरो निजघान ननाद च ॥ 043c
तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम् । 044a
भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत् ॥ 044c
तयोः समभवद्युद्धं तुमुलं नररक्षसोः । 045a
गदानिपातसंह्रादैर्भुवं कम्पयतोर्भृशम् ॥ 045c
गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम् । 046a
मुष्टिभिर्वज्रसंह्रादैरन्योन्यमभिजघ्नतुः ॥ 046c
रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः । 047a
यथासन्नमुपादाय निजघ्नतुरमर्षणौ ॥ 047c
तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम् । 048a
मत्ताविव महानागौ चकृषाते पुनः पुनः ॥ 048c
तावपश्यद्धृषीकेशः पाण्डवानां हिते रतः । 049a
स भीमसेनरक्षार्थं हैडिम्बिं पर्यचोदयत् ॥ ॥ 049c

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे अष्टसप्तत्यधिकशततमोऽध्यायः ॥ 178 ॥

5-178-5 माधवः कृतवर्मा ॥ 5-178-7 इदमस्मत्सैन्यम् ॥ अष्टसप्तत्यधिकशततमोऽध्यायः ॥