श्रीः अध्यायः 177 बकादिबन्धुवधाद्भीमे चिरवैरिणा अलायुधराक्षसेन सुयोधनादायोधनाभ्यनुज्ञामुपलभ्य घटोत्कचम् प्रत्यभिगमनम् ॥ 1 ॥ सञ्जय उवाच 001
तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मृधे । 001a
अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत ॥ 001c
महत्या सेनया युक्तो दुर्योधनमुपागमत् । 002a
राक्षसानां विरूपाणां सहस्रैः परिवारितः । 002c
नानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन् ॥ 002e
तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः । 003a
किर्मीरश्च महातेजा हिडिम्बश्च सखा तदा ॥ 003c
स दीर्घकालाध्युषितं पूर्ववैरमनुस्मरन् । 004a
विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे ॥ 004c
स मत्त इव मातङ्गः सङ्क्रुद्व इव चोरगः । 005a
दुर्योधनमिदं वाक्यमब्रवीद्युद्धलालसः ॥ 005c
विदितं ते महाराज यथा भीमेन राक्षसाः । 006a
हिडिम्बबककिर्मीरा निहता मम बान्धवाः ॥ 006c
परामर्शश्च कन्याया हिडिम्बायाः कृतः पुरा । 007a
किमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह ॥ 007c
तमहं सगणं राजन्सवाजिरथकुञ्जरम् । 008a
हैडिम्बिं च सहामात्यं हन्तुमभ्यागतः स्वयम् ॥ 008c
अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान् । 009a
हत्वा सम्भक्षयिष्यामि सर्वैरनुचरैः सह ॥ 009c
निवारय बलं सर्वं वयं योत्स्याम पाण्डवान् ॥ 010ac
तस्यैतद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा । 011a
प्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः ॥ 011c
त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान् । 012a
न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः ॥ 012c
एवमस्त्विति राजानमुक्त्वा राक्षसपुङ्गवः । 013a
अभ्ययात्त्वरितो भैमिं सहितः पुरुषादकैः ॥ 013c
दीप्यमानेन वपुषा रथेनादित्यवर्चसा । 014a
तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः ॥ 014c
तस्याप्यतुलनिर्घोषो बहुतोरणचित्रितः । 015a
ऋक्षचर्मावनद्धाङ्गो नल्वमात्रो महारथः ॥ 015c
तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः । 016a
शतं युक्ता महाकाया मांसशोणितभोजनाः ॥ 016c
तस्यापि रथनिर्घोषो महामेघरवोपमः । 017a
तस्यापि सुमहच्चापं दृढज्यं कनकोज्ज्वलम् ॥ 017c
तस्याप्यक्षसमा बाणा रुक्मपुङ्खाः शिलाशिताः । 018a
सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः ॥ 018c
तस्यापि गोमायुबलाभिगुप्तो बभूव केतुर्ज्वलनार्कतुल्यः । 019a
स चापि रूपेण घटोत्कचस्य श्रीमत्तमो ह्यन्तकसन्निकाशः ॥ 019c
दीप्ताङ्गदो दीप्तकिरीटमाली बद्धस्रगुष्णीषनिबद्धखड्गः । 020a
गदी भुशुण्डी मुसली हली च शरासनी वारणतुल्यवर्ष्मा ॥ 020c
रथेन तेनानलवर्चसा तदा विद्रावयन्पाण्डववाहिनीं ताम् । 021a
रराज सङ्ख्ये परिवर्तमानो विद्युन्माली मेघ इवान्तरिक्षे ॥ 021c
ते चापि सर्वप्रवरा नरेन्द्रा महाबला वर्मिणश्चर्मिणश्च । 022a
हर्षान्विता युयुधुस्तस्य राजन्समन्ततः पाण्डवयोधवीराः ॥ ॥ 022c

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे सप्तसप्तत्यधिकशततमोऽध्यायः ॥ 177 ॥