श्रीः
अध्यायः 176
कर्णघटोत्कचयोर्युद्धम् ॥ 1 ॥
धृतराष्ट्र उवाच 001
यत्तद्वैकर्तनः कर्णो राक्षसश्च घटोत्कचः । 001a
निशीथे समसज्जेतां तद्युद्धमभवत्कथम् ॥ 001c
कीदृशं चाभवद्रूपं तस्य घोरस्य रक्षसः । 002a
येन वैकर्तनः कर्णः सङ्ग्रामे तेन निर्जितः ॥ 002c
रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च । 003a
किम्प्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा ॥ 003c
कीदृशं वर्म चैवास्य शिरस्त्राणं च कीदृशम् । 004a
पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि सञ्जय ॥ 004c
सञ्जय उवाच 005
लोहिताक्षो महाकायस्ताम्रास्यो निम्नितोदरः । 005a
ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः ॥ 005c
आकर्णदारितास्यश्च तीक्ष्णदंष्ट्रः करालवान् । 006a
सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः ॥ 006c
नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयङ्करः । 007a
महाकायो महाबाहुर्महाशीर्षो महाबलः ॥ 007c
विकृतः परुषस्पर्शो विकचोद्वृद्धपिण्डकः । 008a
स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान् ॥ 008c
तथैव हस्ताभरणी महामायोऽङ्गदी तथा । 009a
उरसाऽधारयन्निष्कमग्निमालां यथाऽचलः ॥ 009c
तस्य हेममयं चित्रं बहुरूपाङ्गशोभितम् । 010a
तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत ॥ 010c
कुण्डले बालसूर्याभे मालां हेममयीं शुभाम् । 011a
धारयन्विपुलं कांस्यं कवचं च महाप्रभम् । 011c
ताराजालनिभं राजन्पूर्णचन्द्रसमप्रभम् ॥ 011e
कण्ठसूत्रं महच्चापि तपनीयमधारयत् । 012a
स तेन विभ्राजत वै सविद्युदिव तोयदः ॥ 012c
किङ्किणीशतनिर्घोषं रक्तध्वजपताकिनम् । 013a
ऋक्षचर्मावनद्धाङ्गं नल्वमात्रं महारथम् ॥ 013c
सर्वायुधवरोपेतमास्थितं ध्वजमालिनम् । 014a
अष्टचक्रसमायुक्तं मेघगम्भीरनिःस्वनम् ॥ 014c
मत्तमातङ्गसङ्काशा लोहिताक्षा विभीषणाः । 015a
कालवर्णासमायुक्ता बलवन्तः शतं हयाः ॥ 015c
वहन्तो राक्षसं घोरं वालवन्तो जितश्रमाः । 016a
विपुलाभिः सटाभिस्ते ह्रेषमाणा मुहुर्मुहुः ॥ 016c
मुखैर्नानाविधाकारैर्वेगवन्तो हयोत्तमाः । 017a
रथेऽस्य युक्ता गर्जन्तोऽवहंस्ते राक्षसाधिपम् ॥ 017c
राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः । 018a
'घोररूपो महाकायः करालो विकृताननः ।' 018c
रश्मिभिः सूर्यरश्म्याह्वैः सञ्जग्राह हयान्रणे ॥ 018e
स तेन सहितस्तस्थावरुणेन यथा रविः । 019a
संसक्त इव चाभ्रेण यथाऽद्रिर्महता महान् ॥ 019c
दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः । 020a
रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः ॥ 020c
वासवाशनिनिर्घोषं दृढज्यमतिविक्षिपन् । 021a
व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम् ॥ 021c
रथाक्षमात्रैरिषुभिः सर्वाः प्रच्छादयन्दिशः । 022a
तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात् ॥ 022c
तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः । 023a
अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः ॥ 023c
तेन वित्रास्यमानानि तव सैन्यानि भारत । 024a
समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः ॥ 024c
तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम् । 025a
उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत् ॥ 025c
ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात् । 026a
मातङ्ग इव मातङ्गं यूथर्षभमिवर्षभः ॥ 026c
स सन्निपातस्तुमुलस्तयोरासीद्विशाम्पते । 027a
कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव ॥ 027c
तौ प्रगृह्य महावेगे धनुषी भीमनिःस्वने । 028a
प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः ॥ 028c
ततः पूर्णायतोत्सृष्टैरिषुभिर्नतपर्वभिः । 029a
न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी ॥ 029c
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ । 030a
रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः ॥ 030c
सञ्छिन्दन्तौ च गात्राणि सन्दधानौ च सायकान् । 031a
दहन्तौ च शरोल्काभिर्दुष्प्रेक्ष्यौ च बभूवतुः ॥ 031c
तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ । 032a
विभ्राजेतां यथा वारि स्रवन्तौ गैरिकाचलौ ॥ 032c
तौ शराग्रविनुन्नाङ्गौ निर्भिन्दन्तौ परस्परम् । 033a
नाकम्पयेतामन्योन्यं यतमानौ महाद्युती ॥ 033c
तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत् । 034a
प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे ॥ 034c
तस्य सन्दधतस्तीक्ष्णाञ्छरांश्चासक्तमस्यतः । 035a
धनुर्घोषेण वित्रस्ताः स्वे परे च तदाऽभवन् ॥ 035c
घटोत्कचं यदा कर्णो विशेषयति नो नृप । 036a
ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः ॥ 036c
कर्णेन सन्धितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः । 037a
प्रादुश्चक्रे महामायां राक्षसीं पाण्डुनन्दनः ॥ 037c
शूलमुद्गरधारिण्या शैलपादपहस्तया । 038a
रक्षसां घोररूपाणां महत्या सेनया वृतः ॥ 038c
तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः । 039a
भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम् ॥ 039c
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः । 040a
प्रसुस्रुवुर्गजा मूत्रं विव्यधुश्च नरा भृशम् ॥ 040c
ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः । 041a
अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः ॥ 041c
आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः । 042a
पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टसास्तथा ॥ 042c
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिप । 043a
पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः ॥ 043c
तत्रैकोऽस्तबलश्लाघी कर्णो मानी न विव्यथे । 044a
व्यधमच्च शरैर्मायां तां घटोत्कचनिर्मिताम् ॥ 044c
मायायां तु प्रहीणायाममर्षाच्च घटोत्कचः । 045a
विससर्ज शरान्घोरान्सूत पुत्रं त आविशन् ॥ 045c
ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे । 046a
विविशुर्धरणीं बाणाः सङ्क्रुद्धा इव पन्नगाः ॥ 046c
सूतपुत्रस्तु सङ्क्रुद्धो लघुहस्तः प्रतापवान् । 047a
घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः ॥ 047c
घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु । 048a
चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम् ॥ 048c
क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम् । 049a
चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया ॥ 049c
प्रविद्धमतिवेगेन विक्षिप्तं कर्णसायकैः । 050a
अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि ॥ 050c
घटोत्कचस्तु सङ्क्रुद्धो दृष्ट्वा चक्रं निपातितम् । 051a
कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ॥ 051c
सूतपुत्रस्त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः । 052a
घटोत्कचरथं तूर्णं छादयामास पत्रिभिः ॥ 052c
घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा । 053a
क्षिप्ता भ्राम्य शरैः साऽपि कर्णेनाभ्याहताऽपतत् ॥ 053c
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् । 054a
प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात् ॥ 054c
ततो मायाविनं कर्णो भीमसेनसुतं दिवि । 055a
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ॥ 055c
तस्य सर्वान्हयान्हत्वा सञ्छिद्य शतधा रथम् । 056a
अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान् ॥ 056c
न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् । 057a
सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा ॥ 057c
न हयान्न रथं तस्य न ध्वजं न घटोत्कचम् । 058a
दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम् ॥ 058c
स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन् । 059a
मायायुद्धेन मायावी सूतपुत्रमयोधयत् ॥ 059c
सोऽयोधयत्तदा कर्णं मायया लाघवेन च । 060a
अलक्ष्यमाणानि दिवि शरजालानि चापतन् ॥ 060c
भैमसेनिर्महामायो मायया कुरुसत्तम । 061a
विचचार महाकायो मोहयन्निव भारत ॥ 061c
स तु कृत्वा विरूपाणि वदनान्यशुभानि च । 062a
अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया ॥ 062c
पुनश्चापि महाकायः सञ्छिन्नः शतधा रणे । 063a
गतसत्वो निरुत्साहः पतितः खाद्व्यदृश्यत ॥ 063c
तं हतं मन्यमानाः स्म प्राणदन्कुरुपुङ्गवाः । 064a
अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत ॥ 064c
पुनश्चापि महाकायः शतशीर्षः शतोदरः । 065a
व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः ॥ 065c
अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः । 066a
सागरोर्मिरिवोद्धूतस्तिर्यगूर्ध्वमवर्तत ॥ 066c
वसुधां दारयित्वा च पुनरप्सु न्यमज्जत । 067a
अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः ॥ 067c
सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते । 068a
क्षितिं खं च दिशश्चैव माययाऽभ्येत्य दंशितः ॥ 068c
गत्वा कर्णरथाभ्याशं व्यचरत्कुण्डलाननः । 069a
प्राह वाक्यमसम्भ्रान्तः सूतपुत्रं विशाम्पते ॥ 069c
तिष्ठेदानीं क्व मे जीवन्सूतपुत्र गमिष्यसि | 070a
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे || 070c
इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम् । 071a
उत्पपातान्तरिक्षं च जहास च सुविस्तरम् । 071c
कर्णमभ्यहनच्चैव गजेन्द्रमिव केसरी ॥ 071e
रथाक्षमात्रेरिषुभिरभ्यवर्षद्धटोत्कचः । 072a
रथिनामृषभंं कर्णं धाराभिरिव तोयदः || 072c
शरवृष्टिं च तां कर्णो दूरात्प्राप्तामशातयत् ॥ 073ac
दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ । 074a
घटोत्कचस्ततो मायां ससर्जान्तर्हितःपुनः ॥ 074c
सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः । 075a
शूलप्रासासिमुसलजलप्रस्रवणो महान् ॥ 075c
तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम् । 076a
प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे ॥ 076c
स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदैरयत् । 077a
ततः सोऽस्त्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत ॥ 077c
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि । 078a
अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत् ॥ 078c
अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः । 079a
व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषः ॥ 079c
स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः । 080a
जघानास्त्रं महाराज घटोत्कचसमीरितम् ॥ 080c
ततः प्रहस्य समरे भैमसेनिर्महाबलः । 081a
प्रादुश्चक्रे महामायां कर्णं प्रति महारथम् ॥ 081c
स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम् । 082a
घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम् ॥ 082c
सिंहशार्दूलसदृशैर्मत्तमातङ्गविक्रमैः । 083a
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा । 083c
नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः ॥ 083e
वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम् । 084a
दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम् ॥ 084c
घटोत्कचस्ततः कर्णं विद्ध्वा पञ्चभिराशुगैः । 085a
ननाद भैरवं नादं भीषयन्सर्वपार्थिवान् ॥ 085c
भूयश्चाञ्जलिकेनाथ स मार्गणगणं महत् । 086a
कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ॥ 086c
अथान्यद्धनुरादाय दृढं भारसहं महत् । 087a
विचकर्ष बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम् ॥ 087c
ततः कर्णो महाराज प्रेषयामास सायकान् । 088a
सुवर्णपुङ्खाञ्छत्रुघ्नान्खेचरान्राक्षसान्प्रति ॥ 088c
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् । 089a
सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम् ॥ 089c
विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः । 090a
ददाह भगवान्वह्निर्भूतानीव युगक्षये ॥ 090c
स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः । 091a
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ॥ 091c
तेषु राजसहस्रेषु पाण्डवेयेषु मारिष । 092a
नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव ॥ 092c
ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महाबलात् । 093a
भीमवीर्यबलोपेतात्क्रुद्धाद्वैवस्वतादिव ॥ 093c
तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत । 094a
महोल्काभ्यां यथा राजन्सार्जिषः स्नेहबिन्दवः ॥ 094c
तलं तलेन संहत्य सन्दश्य दशनच्छदम् । 095a
रथमास्थाय च पुनर्मायया निर्मितं तदा ॥ 095c
युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः । 096a
स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मां वह ॥ 096c
स ययौ घोररूपेण रथेन रथिनां वरः । 097a
द्वैरथं सूतपुत्रेण पुनरेव विशाम्पते ॥ 097c
स चिक्षेप पुनः क्रुद्धः सूतपुत्राय राक्षसः । 098a
अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम् ॥ 098c
द्वियोजनसमुत्सेधां योजनायामविस्तराम् । 099a
आयसीं निचितां शूलैः कदम्बमिव केशरैः ॥ 099c
तामवप्लुत्य जग्राह कर्णो न्यस्य महद्धनुः । 100a
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ॥ 100c
साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा । 101a
विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः ॥ 101c
कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा । 102a
यदवप्लुत्य जग्राह देवसृष्टां महाशनिम् ॥ 102c
एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः । 103a
ततो मुमोच नाराचान्सूतपुत्रः परन्तपः ॥ 103c
अशक्यं कर्तुमन्येन सर्वभूतेषु मानद । 104a
यदकार्षीत्तदा कर्णः सङ्ग्रामे भीमदर्शने ॥ 104c
स हन्यमानो नाराचैर्धाराभिरिव पर्वतः । 105a
गन्धर्वनगराकारः पुनरन्तरधीयत ॥ 105c
एवं स वै महाकायो मायया लाघवेन च । 106a
अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः ॥ 106c
निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा । 107a
असम्भ्रान्तस्तदा कर्णस्तद्रक्षः प्रत्ययुध्यत ॥ 107c
ततः क्रुद्धो महाराज भैमसेनिर्महाबलः । 108a
चकार बहुधाऽऽत्मानं भीषयाणो महारथान् ॥ 108c
ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः । 109a
अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः ॥ 109c
स कीर्यमाणो विशिखैः कर्णचापच्युतैः शरैः । 110a
नागराडिव दुष्प्रेक्ष्यस्तत्रैवान्तरधीयत ॥ 110c
राक्षसाश्च पिशाचाश्च यातुधानास्तथैव च । 111a
शालावृकाश्च बहवो वृकाश्च विकृताननाः ॥ 111c
ते कर्णं क्षपयिष्यन्तः सर्वतः समुपाद्रवन् । 112a
अथैनं वाग्भिरुग्राभिस्त्रासयाञ्चक्रिरे तदा ॥ 112c
उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः । 113a
तेषामनेकैरेकैकं कर्णो विव्याध सायकैः ॥ 113c
प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम् । 114a
आजघान हयानस्य शरैः सन्नतपर्वभिः ॥ 114c
ते भग्ना विक्षताङ्गाश्च भिन्नपृष्ठाश्च सायकैः । 115a
वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः ॥ 115c
स भग्नमायो हैडिम्बिः कर्णं वैकर्तनं तदा । 116a
एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत ॥ ॥ 116c
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे षट्सप्तत्यधिकशततमोऽध्यायः ॥ 176 ॥
5-176-5 निम्नितोदरः निम्नितं पृष्ठवंशसंलग्नमशनहीनस्येवोदरं यस्येत्यर्थः ॥ 5-176-6 करालवान् उन्नतदन्तचतुष्कः ॥ 5-176-8 विकचश्चासावुद्वृद्धपिण्डो दृढाङ्गः को मूर्धा यस्य स विकचोद्वृद्धपिण्डकः । शिथिलोपचयः स्फिक्प्रदेशे एव शिथिलः श्लथ उपचयो वृद्धिर्यस्य ॥ 5-176-13 नल्वो हस्तचतुःशतम् ॥ 5-176-29 विष्कुर्हस्तस्तन्मितः परीणाहो विस्तारो यस्य । अरत्निर्निरष्टमांशः करः ॥ 5-176-30 रथः स्यन्दनदेहयोरिति कोशाद्देहानुकूलशक्तिमद्भिरिति वा ॥ 5-176-35 तस्य घटोत्कचस्य । आसक्तमन्योन्यसंसक्तं यथास्यात्तथा शरानस्यतः ॥ 5-176-94 उल्काभ्यां सर्जरसमिश्रोल्मुकाभ्याम् । ततो हि दीप्तस्य सर्जरसस्य कणाः सस्नेहत्वात्सार्चिष एव पतन्तीति प्रसिद्धम् ॥ षट्सप्तत्यधिकशततमोऽध्यायः ॥