श्रीः
अध्यायः 175
घटोत्कचेन जटासुरसुतवधः ॥ 1 ॥
सञ्जय उवाच 001
दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति । 001a
आयान्तं तु तथायुक्तं जिघांसुं कर्णमाहवे । 001c
अब्रवीत्तत्र पुत्रस्ते दुःशासनमिदं वचः ॥ 001e
एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम् । 002a
अभियाति द्रुतं कर्णं तद्वारय महारथम् ॥ 002c
वृतः सैन्येन महता याहि यत्र महाबलः । 003a
कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति ॥ 003c
रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद । 004a
मा कर्णं राक्षसो घोरः प्रमादान्नाशयिष्यति ॥ 004c
एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली । 005a
दुर्योधनमुपागम्य प्राह प्रहरतां वरः ॥ 005c
दुर्योधन तवामित्रान्प्रख्यातान्युद्धदुर्मदान् । 006a
पाण्डवान्हन्तुमिच्छामि त्वयाऽऽज्ञप्तः सहानुगान् ॥ 006c
जटासुरो मम पिता रक्षसां ग्रामणीः पुरा । 007a
प्रयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः ॥ 007c
तस्यापचितिमिच्छामि शत्रुशोणितपूजया । 008a
शत्रुमांसैश्च राजेन्द्र मामनुज्ञातुमर्हसि ॥ 008c
तमब्रवीत्ततो राजा प्रीयमाणः पुनःपुनः । 009a
द्रोणकर्मादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे ॥ 009c
त्वं तु गच्छ मयाऽऽज्ञप्तो जहि युद्धे घटोत्कचम् । 010a
राक्षसं क्रूरकर्माणं रक्षोमानुषसम्भवम् ॥ 010c
पाण्डवानां हितं नित्यं हस्त्यश्वरथघातिनम् । 011a
वैहायसगतं युद्धे प्रेषयेर्यमसादनम् ॥ 011c
तथेत्युक्त्वा महाकायः समाहूय घटोत्कचम् । 012a
जाटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत् ॥ 012c
अलम्बलं च कर्णं च कुरुसैन्यं च दुस्तरम् । 013a
हैडिम्बिः प्रममाथैको महावातोम्बुदानिव ॥ 013c
ततो मायाबलं दृष्ट्वा रक्षस्तूर्णमलम्बलः । 014a
घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्पयत् ॥ 014c
विद्ध्वा च बहुभिर्बाणैर्भैमसेनिं महाबलः । 015a
व्यद्रावयच्छरव्रातैः पाण्डवानामनीकिनीम् ॥ 015c
तेन विद्राव्यमाणानि पाण्डुसैन्यानि भारत । 016a
निशीथे विप्रकीर्यन्ते वातनुन्ना घना इव ॥ 016c
घटोत्कचशरैर्नुन्ना तथैव तव वाहिनी । 017a
निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ॥ 017c
अलम्बलस्ततः क्रुद्धो भैमसेनिं महामृधे । 018a
आजघ्ने दशभिर्बाणैस्तोत्रैरिव महाद्विपम् ॥ 018c
तिलशस्तस्य संवाहं सूतं सर्वायुधानि च । 019a
घटोत्कचः प्रचिच्छेद प्रणदंश्चातिदारुणम् ॥ 019c
ततः कर्णं शरव्रातैः कुरूनन्यान्सहस्रशः । 020a
अलम्बलं चाभ्यवर्षन्मेघो मेरुमिवाचलम् ॥ 020c
ततः सञ्चुक्षुभे सैन्यं कुरूणां राक्षसार्दितम् । 021a
उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह ॥ 021c
जाटासुरिर्महाराज विरथो हतसारथिः । 022a
घटोत्कचं रणे क्रुद्धो मुष्टिनाऽभ्यहनद्दृढम् ॥ 022c
मुष्टिनाऽभ्याहतस्तेन प्रचचाल घटोत्कचः । 023a
क्षितिकम्पे यथा शैलः सवृक्षस्तृणगुल्मवान् ॥ 023c
ततः स परिघाभेन द्विट्सङ्घघ्नेन बाहुना । 024a
जाटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम् ॥ 024c
तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत् । 025a
दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष च भूतले ॥ 025c
जाटासुरिर्मोक्षयित्वा आत्मानं च घटोत्कचात् । 026a
पुनरुत्थाय वेगेन घटोत्कचमुपाद्रवत् ॥ 026c
अलम्बलोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम् । 027a
घटोत्कचं रणे रोषान्निष्पिपेष च भूतले ॥ 027c
तयो समभवद्युद्धं गर्जतोरतिकाययोः । 028a
घटोत्कचालम्बलयोस्तुमुलं रोमहर्षणम् ॥ 028c
विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ । 029a
युयुधाते महावीर्याविन्द्रवैरोचनाविव ॥ 029c
पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षकौ । 030a
पुनर्मेघमहावातौ पुनर्वज्रमहाचलौ ॥ 030c
पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ । 031a
एवं मायाशतसृजावन्योन्यवधकाङ्क्षिणौ । 031c
भृशं चित्रमयुध्येतामलम्बलघटोत्कचौ ॥ 031e
परिघैश्च गदाभिश्च प्रासमुद्गरपट्टसैः । 032a
मुसलैः पर्वताग्रैश्च तावन्योन्यं विजघ्नतुः ॥ 032c
हयाभ्यां च गजाभ्यां च रथाभ्यां च पदातिभिः । 033a
युयुधाते महामायौ राक्षसप्रवरौ युधि ॥ 033c
ततो घटोत्कचो राजन्नलम्बलवधेप्सया । 034a
उत्पतात भृशं क्रुद्धः श्येनवन्निपपात च ॥ 034c
गृहीत्वा च महाकायं राक्षसेन्द्रमलम्बलम् । 035a
उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे ॥ 035c
ततो घटोत्कचः खड्गमुद्धृत्याद्भुतदर्शनम् । 036a
रौद्रस्य कायाद्धि शिरो भीमं विकृतदर्शनम् ॥ 036c
स्फुरतस्तस्य समरे नदतश्चातिभैरवम् । 037a
निचकर्त महाराज शत्रोरमितविक्रमः ॥ 037c
शिरस्तच्चापि सङ्गृह्य केशेषु रुधिरोक्षितम् । 038a
ययौ घटोत्कचस्तूर्णं दुर्योधनरथं प्रति ॥ 038c
'द्रोणकर्णकृपान्योधानतीत्य सुमहाबलः ।' 039a
अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः ॥ 039c
शिरो रथेऽस्य निक्षिप्य विकृताननमूर्धजम् । 040a
प्राणदद्भैरवं नादं प्रावृषीव बलाहकः ॥ 040c
अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः ॥ 041ac
एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः । 042a
पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथाऽऽत्मनः ॥ 042c
स्वधर्ममर्थं कामं च त्रितयं योऽभिवाञ्छति । 043a
रिक्तपाणिर्न पश्येत राजानं ब्राह्मणं स्त्रियम् । 043c
तिष्ठस्व तावत्सुप्रीतो यावत्कर्णं वधाम्यहम् ॥ 043e
सञ्जय उवाच 044
एवमुक्त्वा ततः प्रायात्कर्णं प्रति नरेश्वरः । 044a
किरञ्छरगणांस्तीक्ष्णान्रुषितो रणमूर्धनि ॥ 044c
ततः समभवद्युद्धं घोररूपं भयानकम् । 045a
विस्मापनं महाराज नरराक्षसयोर्मृधे ॥ ॥ 045c
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे पञ्चसप्तत्यधिकशततमोऽध्यायः ॥ 175 ॥
5-175-8 अपचितिं निष्कृतिम् ॥ 5-175-42 निष्ठां नाशम् ॥ पञ्चसप्तत्यधिकशततमोऽध्यायः ॥