श्रीः अध्यायः 174 कर्णं युयुत्सोरर्जुनस्य कृष्णेन सहेतुकथनं तेन युद्धनिषेधः ॥ 1 ॥ कृष्णार्जुनचोदनया घटोत्कचस्य कर्णेन सह रणारम्भः ॥ 2 ॥ सञ्जय उवाच 001
ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा । 001a
आजघानरोसि शरैर्दशभिर्मर्मभेदिभिः ॥ 001c
प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोपि मारिष । 002a
दशभिः सायकैर्हृष्टस्तिष्ठतिष्ठेति चाब्रवीत् ॥ 002c
तावन्योन्यं शरैः सङ्ख्ये सञ्छाद्य सुमहारथैः । 003a
पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम् ॥ 003c
ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे । 004a
सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः ॥ 004c
कार्मुकप्रवरं चापि प्रचिच्छेद शितैः शरैः । 005a
सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ 005c
धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः । 006a
गृहीत्वा परिघं घोरं कर्णस्याश्वानपीडयत् ॥ 006c
विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः । 007a
ततो युधिष्ठिरानीकं पद्भ्यामेवान्वपद्यत ॥ 007c
आरुरोह रथं चापि सहदेवस्य मारिष । 008a
प्रयातुकामः कर्णाय वारितो धर्मसूनुना ॥ 008c
कर्णस्तु सुमहातेजाः सिंहनादविमिश्रितम् । 009a
धनुःशब्दं महच्चक्रे दध्मौ तारेण चाम्बुजम् ॥ 009c
दृष्ट्वा विनिर्जितं युद्धे पार्षतं ते महारथाः । 010a
अमर्षवशमापन्नाः पाञ्चालाः सहसोमकाः ॥ 010c
सूतपुत्रवधार्थाय शस्त्राण्यादाय सर्वशः । 011a
प्रययुः कर्णमुद्दिश्य मृत्युं कृत्वा निवर्तनम् ॥ 011c
कर्णस्यापि रथे वाहानन्यान्सूतोऽभ्ययोजयत् । 012a
शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः ॥ 012c
लब्धलक्षस्तु राधेयः पञ्चालानां महारथान् । 013a
अभ्यपीडयदायस्तः शरैर्मेघ इवाचलम् ॥ 013c
सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः । 014a
सम्प्राद्रवत्सुसन्त्रस्ता सिंहेनेवार्दिता मृगी ॥ 014c
पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले । 015a
रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः ॥ 015c
धावमानस्य योधस्य क्षुरप्रैः स महामृधे । 016a
बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम् ॥ 016c
ऊरू चिच्छेद चान्यस्य गजस्थस्य विशाम्पते । 017a
वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष ॥ 017c
नाज्ञासिषुर्धावमाना बहवश्च महारथाः । 018a
सञ्छिन्नान्यात्मगात्राणि वाहनानि च संयुगे ॥ 018c
ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह । 019a
तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे ॥ 019c
अपि स्वं समरे योधं धावमानं विचेतसम् । 020a
कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते ॥ 020c
तान्यनीकानि भग्नानि द्रवमाणानि भारत । 021a
अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्छरान् ॥ 021c
अवेक्षमाणास्त्वन्योन्यं सुसम्मूढा विचेतसः । 022a
नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना ॥ 022c
कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः । 023a
द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः ॥ 023c
ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम् । 024a
अपयाने मनः कृत्वा फल्गुनं वाक्यमब्रवीत् ॥ 024c
पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम् । 025a
निशीथे दारुणे काले तपन्तमिव भास्करम् ॥ 025c
कर्णसायकनुन्नानां क्रोशतामेष निःस्वनः । 026a
अनिशं श्रूयते पार्थ त्वद्बन्धूनामनाथवत् ॥ 026c
यथा विसृजतश्चास्य सन्दधानस्य चाशुगान् । 027a
पश्यामि नान्तरं पार्थ क्षपयिष्यति नो ध्रुवम् ॥ 027c
यदत्रानन्तरं कार्यं प्राप्तकालं च पश्यसि । 028a
कर्णस्य वधसंयुक्तं तत्कुरुष्व धनञ्जय ॥ 028c
एवमुक्तो महाराज पार्थः कृष्णमथाब्रवीत् । 029a
भीतः कुन्तीसुतो राजा राधेयस्याद्य विक्रमात् ॥ 029c
एवं गते प्राप्तकालं कर्णानीके पुनः पुनः । 030a
भवान्व्यवस्यतु क्षिप्रं द्रवते हि वरूथिनी ॥ 030c
द्रोणसायकनुन्नानां भग्नानां मधुसूदन । 031a
कर्णेन त्रास्यमानानामवस्थानं न विद्यते ॥ 031c
पश्यामि च तथा कर्णं विचरन्तमभीतवत् । 032a
द्रवमाणान्रथोदारान्किरन्तं निशितैः शरैः ॥ 032c
नैनं शक्ष्यामि संसोढुं चरन्तं रणमूर्धनि । 033a
प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः ॥ 033c
स भवांस्तत्र यात्वाशु यत्र कर्णो महारथः । 034a
अहमेनं हनिष्यामि मां वैष मधुसूदन ॥ 034c
श्रीवासुदेव उवाच 035
पश्यामि कर्णं कौन्तेय देवराजमिवाहवे । 035a
विचरन्तं नरव्याघ्रमतिमानुषविक्रमम् ॥ 035c
नैतस्यान्योऽस्ति सङ्ग्रामे प्रत्युद्याता धनञ्जय । 036a
ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात् ॥ 036c
न तु तावदहं मन्ये प्राप्तकालं तवानघ । 037a
समागमं महाबाहो सूतपुत्रेण संयुगे ॥ 037c
दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी । 038a
त्वदर्थं हि महाबाहो सूतपुत्रेण संयुगे ॥ 038c
रक्ष्यते शक्तिरेषा हि रौद्रां रूपं बिभर्ति च । 039a
घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः ॥ 039c
स हि भीमेन बलिना जातः सुरपराक्रमः । 040a
तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च ॥ 040c
सततं चानुरक्तो वो हितैषी च घटोत्कचः । 041a
विजेष्यति रणे कर्णमिति मे नात्र संशयः ॥ 041c
सञ्जय उवाच 042
एवमुक्तो महाबाहुः पार्थः पुष्करलोचनः । 042a
आजुहावाथ तद्रक्षस्तच्चासीत्प्रादुरग्रतः ॥ 042c
कवची सशरः खड्गी सधन्वा च विशाम्पते । 043a
अभिवाद्य ततः कृष्णं पाण्डवं च धनञ्जयम् । 043c
अब्रवीच्च तदा कृष्णमयमस्म्यनुशाधि माम् ॥ 043e
ततस्तं मेघसङ्काशं दीप्तास्यं दीप्तकुण्डलम् । 044a
अभ्यभाषत हैडिम्बिं दाशार्हः प्रहसन्निव ॥ 044c
वासुदेव उवाच 045
घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक । 045a
प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्यचित् । 045c
स त्वं निमज्जतां युद्धे बन्धूनां बान्धवो भव ॥ 045e
यावन्ति च तवास्त्राणि सन्ति मायाश्च राक्षसीः । 046a
'अद्यैव समयस्तेषां मायानां चैव राक्षस ॥' 046c
पश्य कर्णेन हैडिम्बे पाण्डवानामनीकिनीम् । 047a
काल्यमानां रणे तात सिंहेनेवेतरान्मृगान् ॥ 047c
एष कर्णो महेष्वासो मतिमान्दृढविक्रमः । 048a
पाण्डवानामनीकेषु निहन्ति क्षत्रियर्षभान् ॥ 048c
किरन्तः शरवर्षाणि महान्ति दृढधन्विनः । 049a
न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा ॥ 049c
निशीथे सूतपुत्रेण शरवर्षेण पीडिताः । 050a
एते द्रवन्ति पाञ्चालाः सिंहेनेवार्दिता मृगाः ॥ 050c
एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे । 051a
निषेद्धा विद्यते नान्यस्त्वामृते भीमविक्रम ॥ 051c
स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः । 052a
मातुलानां पितॄणां च तेसजोऽस्त्रबलस्य च ॥ 052c
एतदर्थं हि हैडिम्बे पुत्रानिच्छन्ति मानवाः । 053a
कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान् ॥ 053c
इच्छन्ति पितरः पुत्रान्स्वार्थहेतोर्घटोत्कच । 054a
हहलोकात्परे लोके तारयिष्यन्ति ये हिताः ॥ 054c
तव ह्यत्र बलं भीमं मायाश्च तव दुस्तराः । 055a
सङ्ग्रामे युध्यमानस्य सततं भीमनन्दन ॥ 055c
पाण्डवानां प्रभग्नानां कर्णेन निशि सायकैः । 056a
मज्जतां धार्तराष्ट्रेषु भव पारं परन्तप ॥ 056c
रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः । 057a
बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः ॥ 057c
जहि कर्णं महेष्वासं निशीथे मायया रणे । 058a
पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः ॥ 058c
सञ्जय उवाच 059
केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम् । 059a
अभ्यभाषत कौरव्य घटोत्कचमरिन्दमम् ॥ 059c
घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः । 060a
मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः ॥ 060c
तद्भवान्यातु कर्णेन द्वैरथं युध्यतां निशि । 061a
सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः ॥ 061c
जहि कर्णं रणे शूरं सात्वतेन सहायवान् । 062a
यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान् ॥ 062c
घटोत्कच उवाच 063
'एवमेव महाबाहो यथा वदसि मां प्रभो । 063a
त्वया नियुक्तो गच्छामि कर्णस्य वधकाङ्क्षया ॥' 063c
अलमेवास्मि कर्णाय द्रोणायालं च भारत । 064a
अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम् ॥ 064c
अद्य दास्यामि सङ्ग्रामं सूतपुत्राय तं निशि । 065a
यं जनाः सम्प्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति ॥ 065c
न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीन् । 066a
सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः ॥ 066c
सञ्जय उवाच 067
एवमुक्त्वा महाबाहुर्हैडिम्बिः परवीरहा । 067a
अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषयन् ॥ 067c
तमापतन्तं सङ्क्रुद्धं दीप्तास्यं दीप्तमूर्धजम् । 068a
प्रहसन्पुरुषव्याघ्रः प्रतिजग्राह सूतजः ॥ 068c
तयोः समभवद्युद्धं कर्णराक्षसयोर्निशि । 069a
गर्जतो राजशार्दूल शक्रप्रह्लादयोरिव ॥ ॥ 069c

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे चतुःसप्तत्यधिकशततमोऽध्यायः ॥ 174 ॥

5-174-13 आयस्तः प्रयत्नवान् ॥ 5-174-174 चतुःसप्तत्यधिकशततमोऽध्यायः ॥