श्रीः
अध्यायः 173
द्रोणकर्णयोः सात्यकिधृष्टद्युम्नाभ्यां युद्धम् ॥ 1 ॥
सञ्जय उवाच 001
विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः । 001a
क्रोधेन महताऽविष्टः पुत्रस्तव विशाम्पते ॥ 001c
अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम् । 002a
अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत् ॥ 002c
भवद्भ्यामिह सङ्ग्रामः क्रुद्धाभ्यां सम्प्रवर्तितः । 003a
आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना ॥ 003c
निहन्यमानां पाण्डूनां बलेन मम वाहिनीम् । 004a
भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः ॥ 004c
यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि । 005a
आवां पाण्डुसुतान्सङ्ख्ये जेष्याव इति मानदौ ॥ 005c
तदैवाहं वचः श्रुत्वा भवद्भ्यामनुसम्मतम् । 006a
नाकरिष्यमिदं पार्थैर्वैरं योधविनाशनम् ॥ 006c
यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ | 007a
युध्यतामनुरूपेण विक्रमेण सुविक्रमौ ॥ 007c
वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते । 008a
प्रावर्तयेतां सङ्ग्रामं घट्टिताविव पन्नगौ ॥ 008c
ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ । 009a
शैनेयप्रमुखान्पार्थानभिदुद्रुवतू रणे ॥ 009c
तथैव सहिताः पार्थाः सर्वसैन्येन संवृताः । 010a
अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः ॥ 010c
अथ द्रोणो महेष्वासो दशभिः शिनिपुङ्गवम् । 011a
अविध्यत्त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः ॥ 011c
कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः । 012a
दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः । 012c
एते कौरव सङ्क्रन्दे शैनेयं पर्यवाकिरन् ॥ 012e
दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम् । 013a
विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः ॥ 013c
तत्र द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशाम्पते । 014a
रश्मिभिर्भास्करो राजंस्तमांसीव समन्ततः ॥ 014c
द्रोणेन वध्यमानानां पाञ्चालानां विशाम्पते । 015a
शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम् ॥ 015c
पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान् । 016a
भागिनेयान्वयस्यांश्च तथा सम्बन्धिबान्धवान् । 016c
उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः ॥ 016e
अपरे मोहिता मोहात्तमेवाभिमुखा ययुः । 017a
पाण्डवानां रणे योधाः परलोकं गताः परे ॥ 017c
सा तथा पाण्डवी सेना पीड्यमाना महात्मना । 018a
निशि सम्प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ॥ 018c
पश्यतो भीमसेनस्य विजयस्याच्युतस्य च । 019a
यमयोर्धर्मपुत्रस्य पार्षतस्य च पश्यतः ॥ 019c
तमसा संवृते लोके न प्राज्ञायत किञ्चन । 020a
कौरवाणां प्रकाशेन दृश्यन्ते विद्रुताः परे ॥ 020c
द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ । 021a
जघ्नतुः पृष्ठतो राजन्किरन्तौ सायकान्बहून् ॥ 021c
पाञ्चालेषु प्रभग्नेषु क्षीयमाणेषु सर्वतः । 022a
जनार्दनो दीनमानाः प्रत्यभाषत फल्गुनम् ॥ 022c
द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी । 023a
पाञ्चालांश्चैव सहितौ जघ्नतुः सायकैर्भृशम् ॥ 023c
एतयोः शरवर्षेण प्रभग्ना नो महारथाः । 024a
वार्यमाणापि कौन्तेय पृतना नावतिष्ठते ॥ 024c
तां तु विद्रवतीं दृष्ट्वा ऊचतुः केशवार्जुनौ । 025a
मा विद्रवत वित्रस्ता भयं त्यजत पाण्डवाः ॥ 025c
तावावां सर्वसैन्यैश्च व्यूहैः सम्यगुदायुधैः । 026a
द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम् ॥ 026c
एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ । 027a
उपेक्षितौ बलं तूर्णं नाशयेतां निशामिमाम् ॥ 027c
सञ्जय उवाच 028
तयोः संवदतोरेवं भीमकर्मा महाबलः । 028a
आयाद्वृकोदरः शीघ्रं पुनरावर्त्य वाहिनीम् ॥ 028c
वृकोदरमथायान्तं दृष्ट्वा तत्र जनार्दनः । 029a
पुनरेवाब्रवीद्राजन्हर्षयन्निव पाण्डवम् ॥ 029c
एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः । 030a
अभ्यवर्तत वेगेन द्रोणकर्णौ महारथौ ॥ 030c
एतेन सहितो युद्ध्य पाञ्चालैश्च महारथैः । 031a
आश्वासनार्थं सैन्यानां सर्वेषां पाण्डुनन्दन ॥ 031c
ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ । 032a
द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि ॥ 032c
सञ्जय उवाच 033
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत् । 033a
ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि ॥ 033c
स सम्प्रहारस्तुमुलो निशि प्रत्यभवन्महान् । 034a
यथा सागरयो राजंश्चन्द्रोदयविरुद्धयोः ॥ 034c
तत उत्सृज्य पाणिभ्यां प्रदीपांस्तव वाहिनी । 035a
युयुधे पाण्डवैः सार्धमुन्मत्तवदसङ्कुला ॥ 035c
रजसा तमसा चैव संवृते भृशदारुणे । 036a
केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः ॥ 036c
अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः । 037a
प्रहरद्भिर्महाराज स्वयंवर इवाहवे ॥ 037c
निःशब्दमासीत्सहसा पुनः शब्दो महानभूत् । 038a
क्रुद्धानां युध्यमानानां जीयतां जयतामपि ॥ 038c
यत्रयत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम । 039a
तत्रतत्र स्म शूरास्ते निपतन्ति पतङ्गवत् ॥ 039c
तथा संयुध्यमानानां विगाढाऽऽसीन्महानिशा । 040a
पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः ॥ ॥ 040c
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे त्रिसप्तत्यधिकशततमोऽध्यायः ॥ 173 ॥
5-173-8 घट्टितौ मर्दितौ ॥ 5-173-12 सङ्क्रन्दे युद्धे ॥ 5-173-23 सात्यकी इति द्वितीयान्तम् ॥ त्रिसप्तत्यधिकशततमोऽध्यायः ॥